मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गङ्गा अष्टोत्तरशत नाम स्तोत्रम्

3

श्रीमद्भागवतम्

ध्यानम्

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां

करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् ।

विधिहरिहररूपां सेन्दुकोटीरचूडां

कलितसितदुकूलां जाह्नवीं तां नमामि ॥

॥१॥

स्तोत्रम्

श्री-नारद उवाच

गङ्गा नाम परं पुण्यं कथितं परमेश्वर ।

नामानि कति शस्तानि गङ्गायाः प्रणिशंस मे ॥

॥२॥

श्री-महादेव उवाच

नाम्नां सहस्रमध्ये तु नामाष्टशतमुत्तमम् ।

जाह्नव्या मुनिशार्दूल तानि मे शृणु तत्त्वतः ॥

॥३॥

गङ्गा त्रिपथगा देवी शम्भुमौलिविहारिणी ।

जाह्नवी पापहन्त्री च महापातकनाशिनी ॥

॥४॥

पतितोद्धारिणी स्रोतस्वती परमवेगिनी ।

विष्णुपादाब्जसम्भूता विष्णुदेहकृतालया ॥

॥५॥

स्वर्गाब्धिनिलया साध्वी स्वर्णदी सुरनिम्नगा ।

मन्दाकिनी महावेगा स्वर्णशृङ्गप्रभेदिनी ॥

॥६॥

देवपूज्यतमा दिव्या दिव्यस्थान निवासिनी ।

सुचारुनीररुचिरा महापर्वतभेदिनी ॥

॥७॥

भागीरथी भगवती महामोक्षप्रदायिनी ।

सिन्धुसङ्गगता शुद्धा रसातलनिवासिनी ॥

॥८॥

महाभोगा भोगवती सुभगानन्ददायिनी ।

महापापहरा पुण्या परमाह्लाददायिनी ॥

॥९॥

पार्वती शिवपत्नी च शिवशीर्षगतालया ।

शम्भोर्जटामध्यगता निर्मला निर्मलानना ॥

॥१०॥

महाकलुषहन्त्री च जह्नुपुत्री जगत्प्रिया ।

त्रैलोक्यपावनी पूर्णा पूर्णब्रह्मस्वरूपिणी ॥

॥११॥

जगत्पूज्यतमा चारुरूपिणी जगदम्बिका ।

लोकानुग्रहकर्त्री च सर्वलोकदयापरा ॥

॥१२॥

याम्यभीतिहरा तारा पारा संसारतारिणी ।

ब्रह्माण्डभेदिनी ब्रह्मकमण्डलुकृतालया ॥

॥१३॥

सौभाग्यदायिनी पुंसां निर्वाणपददायिनी ।

अचिन्त्यचरिता चारुरुचिरातिमनोहरा ॥

॥१४॥

मर्त्यस्था मृत्युभयहा स्वर्गमोक्षप्रदायिनी ।

पापापहारिणी दूरचारिणी वीचिधारिणी ॥

॥१५॥

कारुण्यपूर्णा करुणामयी दुरितनाशिनी ।

गिरिराजसुता गौरीभगिनी गिरिशप्रिया ॥

॥१६॥

मेनकागर्भसम्भूता मैनाकभगिनीप्रिया ।

आद्या त्रिलोकजननी त्रैलोक्यपरिपालिनी ॥

॥१७॥

तीर्थश्रेष्ठतमा श्रेष्ठा सर्वतीर्थमयी शुभा ।

चतुर्वेदमयी सर्वा पितृसन्तृप्तिदायिनी ॥

॥१८॥

शिवदा शिवसायुज्यदायिनी शिववल्लभा ।

तेजस्विनी त्रिनयना त्रिलोचनमनोरमा ॥

॥१९॥

सप्तधारा शतमुखी सगरान्वयतारिणी ।

मुनिसेव्या मुनिसुता जह्नुजानुप्रभेदिनी ॥

॥२०॥

मकरस्था सर्वगता सर्वाशुभनिवारिणी ।

सुदृश्या चाक्षुषीतृप्तिदायिनी मकरालया ॥

॥२१॥

सदानन्दमयी नित्यानन्ददा नगपूजिता ।

सर्वदेवाधिदेवैश्च परिपूज्यपदाम्बुजा ॥

॥२२॥

एतानि मुनिशार्दूल नामानि कथितानि ते ।

शस्तानि जाह्नवीदेव्याः सर्वपापहराणि च ॥

॥२३॥

य इदं पठते भक्त्या प्रातरुत्थाय नारद ।

गङ्गायाः परमं पुण्यं नामाष्टशतमेव हि ॥

॥२४॥

तस्य पापानि नश्यन्ति ब्रह्महत्यादिकान्यपि ।

आरोग्यमतुलं सौख्यं लभते नात्र संशयः ॥

॥२५॥

यत्र कुत्रापि संस्नायात्पठेत्स्तोत्रमनुत्तमम् ।

तत्रैव गङ्गास्नानस्य फलं प्राप्नोति निश्चितम् ॥

॥२६॥

प्रत्यहं प्रपठेदेतद् गङ्गानामशताष्टकम् ।

सोऽन्ते गङ्गामनुप्राप्य प्रयाति परमं पदम् ॥

॥२७॥

गङ्गायां स्नानसमये यः पठेद् भक्तिसंयुतः ।

सोऽश्वमेधसहस्राणां फलमाप्नोति मानवः ॥

॥२८॥

गवामयुतदानस्य यत्फलं समुदीरितम् ।

तत्फलं समवाप्नोति पञ्चम्यां प्रपठन्नरः ॥

॥२९॥

कार्त्तिक्यां पौर्णमास्यां तु स्नात्वा सगरसङ्गमे ।

यः पठेत्स महेशत्वं याति सत्यं न संशयः ॥

॥३०॥

इति श्रीमद्भागवते महापुराणे श्रीगङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्