मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

यमुनाष्टकम्

Also spelled: Yamunashtakam

3

पारम्परिकम्

मुरारिकायकालिमाललामवारिधारिणी

तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी ।

मनोऽनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥१॥

मलापहारिवारिपूरिभूरिमण्डितामृता

भृशं प्रवातकप्रपञ्चनातिपण्डितानिशा ।

सुनन्दनन्दिनाङ्गसङ्गरागरञ्जिता हिता

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥२॥

लसत्तरङ्गसङ्गधूतभूतजातपातका

नवीनमाधुरीधुरीणभक्तिजातचातका ।

तटान्तवा सदा सहंससंसृताह्निकामदा

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥३॥

विहाररासस्वेदभेदधीरतीरमारुता

गता गिरामगोचरे यदीयनीरचारुता ।

प्रवाहसाहचर्यपूतमेदिनीनदीनदा

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥४॥

तरङ्गसङ्गसैकतान्तरातितं सदासिता

शरन्निशाकरांशुमञ्जुमञ्जरी सभाजिता ।

भवार्चनाप्रचारुणाम्बुनाऽधुना विशारदा

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥५॥

जलान्तकेलिकारिचारुराधिकाङ्गरागिणी

स्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनी ।

स्वदत्तसुप्तसप्तसिन्धुभेदिनातिकोविदा

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥६॥

जलच्युताच्युताङ्गरागलम्पटालिशालिनी

विलोलराधिकाकचान्तचम्पकालिमालिनी ।

सदावगाहनावतीर्णभर्तृभृत्यनारदा

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥७॥

सदैव नन्दिनन्दकेलिशालिकुञ्जमञ्जुला

तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला ।

जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा

धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥

॥८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-यमुनाष्टकं सम्पूर्णम्