मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

गङ्गाष्टकम् (भगवति भवलीला)

3

श्रीशङ्करभगवत्पादकृतम्

भगवति भवलीलामौलिमाले तवाम्भः

कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।

अमरनगरनारीचामरमरग्राहिणीनां

विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥

॥१॥

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती

स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती ।

क्षोणी पृष्ठे लुठन्ती दुरितचयचमूं निर्भरं भर्त्सयन्ती

पाथोधिं पूरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥

॥२॥

मज्जनमातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं

स्नानैः सिद्धाङ्गनानां कुचयुगविगलत् कुङ्कुमासङ्गपिङ्गम् ।

सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं

पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरं हस्तरङ्गम् ॥

॥३॥

आदावादिपितामहस्य नियमव्यापारपात्रे जलं

पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् ।

भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं

कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥

॥४॥

शैलेन्द्रादवतारिणी निजजल-मज्जज्जनोत्तारिणी

पारावारविहारिणी भवभयश्रेणी-समुत्सारिणी ।

शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी

काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥

॥५॥

कुतो वीची वीचिस्तव यदि गता लोचनपथं

त्वमापीता पीताम्बरपुग्निवासं वितरसि ।

त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां

तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः ॥

॥६॥

भगवति तव तीरे नीरमात्राशनोऽहं

विगतविषयतृष्णः कृष्णमाराधयामि ।

सकलकलुषभङ्गे स्वर्गसोपानगङ्गे

तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥

॥७॥

मातर्जाह्नवी शम्भुसङ्गवलिते मौलौ निधायाञ्जलिं

त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् ।

सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे

भूयाद् भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥

॥८॥

गङ्गाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः ।

सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥

॥९॥

गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये

पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे ।

प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे

कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद ॥

॥१०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-गङ्गाष्टकं सम्पूर्णम्