मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

कावेरीप्रार्थना

3

ब्रह्माण्डपुराणान्तर्गता

मरुद्वृधे महाभागे महादेवि मनोहरे ।

सर्वाभीष्टप्रदे देवि स्नास्थितां पुण्यवर्धिनि ॥

॥१॥

सर्वपापक्षयकरे मम पापं विनाशय ।

कवेरकन्ये कावेरि समुद्रमहिषिप्रिये ॥

॥२॥

देहि मे भक्तिमुक्ति त्वं सर्वतीर्थस्वरूपिणि ।

सिन्धुवर्ये दयासिन्धो मामुद्धर दयाम्बुधे ॥

॥३॥

स्त्रियं देहि सुतं देहि श्रियं देहि ततः स्वगा ।

आयुष्यं देहि चाऽऽरोग्यं ऋणान्मुक्तं कुरुष्व माम् ॥

॥४॥

तासां च सरितां मध्ये सह्यकन्याऽघनाशिनि ।

कावेरि लोकविख्याता जनतापनिवारिणि ॥

॥५॥

इति श्री-ब्रह्माण्डपुराणे कावेरीप्रार्थना सम्पूर्णा