मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

नर्मदाष्टकम्

3

श्रीशङ्करभगवत्पादकृतम्

सबिन्दु-सिन्धु-सुस्खलत्-तरङ्ग-भङ्ग-रञ्जितं

द्विषत्सु पाप-जात-जातकादि-वारि-संयुतम् ।

कृतान्त-दूत-काल-भूत-भीति-हारि-वर्मदे

त्वदीय-पाद-पङ्कजं नमामि देवि नर्मदे ॥

॥१॥

त्वदम्बु-लीन-दीन-मीन-दिव्य-सम्प्रदायकं

कलौ मलौघ-भार-हारि-सर्व-तीर्थ-नायकम् ।

सुमच्छ-कच्छ-नक्र-चक्र-वाक-चक्र-शर्मदे

त्वदीय-पाद-पङ्कजं नमामि देवि नर्मदे ॥

॥२॥

महा-गभीर-नीर-पूर-पाप-धूत-भूतलं

ध्वनत्-समस्त-पातकारि-दारिताप-दाछलम् ।

जगल्लये महाभये मृकण्डु-सूनु-हर्म्यदे

त्वदीय-पादपङ्कजं नमामि देवि नर्मदे ॥

॥३॥

गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा

मृकण्डु-सूनु-शौनका-सुरारि-सेवितं सदा ।

पुनर्-भवाब्धि-जन्मजं भवाब्धि-दुःख-वर्मदे

त्वदीय-पाद-पङ्कजं नमामि देवि नर्मदे ॥

॥४॥

अलक्ष्य-लक्ष-किन्नरामरासुरादि-पूजितं

सुलक्ष-नीर-तीर-धीर-पक्षि-लक्ष-कूजितम् ।

वसिष्ठ-शिष्ट-पिप्पलादि-कर्दमादि-शर्मदे

त्वदीय-पादपङ्कजं नमामि देवि नर्मदे ॥

॥५॥

सनत्कुमार-नाचिकेत-कश्यपात्रि-षत्पदैः

धृतं स्वकीय-मानसेषु नारदादि-षत्पदैः ।

रवीन्दु-रन्ति-देव-देवराज-कर्म-शर्मदे

त्वदीय-पाद-पङ्कजं नमामि देवि नर्मदे ॥

॥६॥

अलक्ष-लक्ष-लक्ष-पाप-लक्ष-सारसायुधं

ततस्तु जीव-जन्तु-तन्तु-भुक्ति-मुक्ति-दायकम् ।

विरिञ्चि-विष्णु-शङ्कर-स्वकीय-धाम-वर्मदे

त्वदीय-पाद-पङ्कजं नमामि देवि नर्मदे ॥

॥७॥

अहो धृतं स्वनं श्रुतं महेशि-केश-जातटे

किरात-सूत-बाडबेषु पण्डिते शठे नटे ।

दुरन्त-पाप-तापहारि-सर्व-जन्तु-शर्मदे

त्वदीय-पाद-पङ्कजं नमामि देवि नर्मदे ॥

॥८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा

पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।

सुलभ्यदेहदुर्लभं महेशधामगौरवं

पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥

॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-नर्मदाष्टकम् सम्पूर्णम्