- १ॐ पद्मावत्यै नमः
- २ॐ देव्यै नमः
- ३ॐ पद्मोद्भवायै नमः
- ४ॐ करुणाप्रदायिन्यै नमः
- ५ॐ सहृदयायै नमः
- ६ॐ तेजस्वरूपिण्यै नमः
- ७ॐ कमलमुख्यै नमः
- ८ॐ पद्मधरायै नमः
- ९ॐ श्रियै नमः
- १०ॐ पद्मनेत्र्यै नमः
- ११ॐ पद्मकरायै नमः
- १२ॐ सुगुणायै नमः
- १३ॐ कुङ्कुमप्रियायै नमः
- १४ॐ हेमवर्णायै नमः
- १५ॐ चन्द्रवन्दितायै नमः
- १६ॐ धगधगप्रकाशशरीरधारिण्यै नमः
- १७ॐ विष्णुप्रियायै नमः
- १८ॐ नित्यकल्याण्यै नमः
- १९ॐ कोटिसूर्यप्रकाशिन्यै नमः
- २०ॐ महासौन्दर्यरूपिण्यै नमः
- २१ॐ भक्तवत्सलायै नमः
- २२ॐ ब्रह्माण्डवासिन्यै नमः
- २३ॐ सर्ववाञ्छाफलदायिन्यै नमः
- २४ॐ धर्मसङ्कल्पायै नमः
- २५ॐ दाक्षिण्यकटाक्षिण्यै नमः
- २६ॐ भक्तिप्रदायिन्यै नमः
- २७ॐ गुणत्रयविवर्जितायै नमः
- २८ॐ कलाषोडशसंयुतायै नमः
- २९ॐ सर्वलोकानां जनन्यै नमः
- ३०ॐ मुक्तिदायिन्यै नमः
- ३१ॐ दयामृतायै नमः
- ३२ॐ प्राज्ञायै नमः
- ३३ॐ महाधर्मायै नमः
- ३४ॐ धर्मरूपिण्यै नमः
- ३५ॐ अलङ्कारप्रियायै नमः
- ३६ॐ सर्वदारिद्र्यध्वंसिन्यै नमः
- ३७ॐ श्रीवेङ्कटेशवक्षस्थलस्थितायै नमः
- ३८ॐ लोकशोकविनाशिन्यै नमः
- ३९ॐ वैष्णव्यै नमः
- ४०ॐ तिरुचानूरुपुरवासिन्यै नमः
- ४१ॐ वेदविद्याविशारदायै नमः
- ४२ॐ विष्णुपादसेवितायै नमः
- ४३ॐ रत्नप्रकाशकिरीटधारिण्यै नमः
- ४४ॐ जगन्मोहिन्यै नमः
- ४५ॐ शक्तिस्वरूपिण्यै नमः
- ४६ॐ प्रसन्नोदयायै नमः
- ४७ॐ इन्द्रादिदैवतयक्षकिन्नरकिम्पुरुषपूजितायै नमः
- ४८ॐ सर्वलोकनिवासिन्यै नमः
- ४९ॐ भूजयायै नमः
- ५०ॐ ऐश्वर्यप्रदायिन्यै नमः
- ५१ॐ शान्तायै नमः
- ५२ॐ उन्नतस्थानस्थितायै नमः
- ५३ॐ मन्दारकामिन्यै नमः
- ५४ॐ कमलाकरायै नमः
- ५५ॐ वेदान्तज्ञानरूपिण्यै नमः
- ५६ॐ सर्वसम्पत्तिरूपिण्यै नमः
- ५७ॐ कोटिसूर्यसमप्रभायै नमः
- ५८ॐ पूजाफलदायिन्यै नमः
- ५९ॐ कमलासनादिसर्वदेवतायै नमः
- ६०ॐ वैकुण्ठवासिन्यै नमः
- ६१ॐ अभयदायिन्यै नमः
- ६२ॐ द्राक्षाफलपायसप्रियायै नमः
- ६३ॐ नृत्यगीतप्रियायै नमः
- ६४ॐ क्षीरसागरोद्भवायै नमः
- ६५ॐ आकाशराजपुत्रिकायै नमः
- ६६ॐ सुवर्णहस्तधारिण्यै नमः
- ६७ॐ कामरूपिण्यै नमः
- ६८ॐ करुणाकटाक्षधारिण्यै नमः
- ६९ॐ अमृतासुजायै नमः
- ७०ॐ भूलोकस्वर्गसुखदायिन्यै नमः
- ७१ॐ अष्टदिक्पालकाधिपत्यै नमः
- ७२ॐ मन्मथदर्पसंहार्यै नमः
- ७३ॐ कमलार्धभागायै नमः
- ७४ॐ स्वल्पापराधमहापराधक्षमायै नमः
- ७५ॐ षट्कोटितीर्थवासितायै नमः
- ७६ॐ नारदादिमुनिश्रेष्ठपूजितायै नमः
- ७७ॐ आदिशङ्करपूजितायै नमः
- ७८ॐ प्रीतिदायिन्यै नमः
- ७९ॐ सौभाग्यप्रदायिन्यै नमः
- ८०ॐ महाकीर्तिप्रदायिन्यै नमः
- ८१ॐ कृष्णातिप्रियायै नमः
- ८२ॐ गन्धर्वशापविमोचिकायै नमः
- ८३ॐ कृष्णपत्न्यै नमः
- ८४ॐ त्रिलोकपूजितायै नमः
- ८५ॐ जगन्मोहिन्यै नमः
- ८६ॐ सुलभायै नमः
- ८७ॐ सुशीलायै नमः
- ८८ॐ अञ्जनासुतानुग्रहप्रदायिन्यै नमः
- ८९ॐ भक्त्यात्मनिवासिन्यै नमः
- ९०ॐ सन्ध्यावन्दिन्यै नमः
- ९१ॐ सर्वलोकमात्रे नमः
- ९२ॐ अभिमतदायिन्यै नमः
- ९३ॐ ललितावधूत्यै नमः
- ९४ॐ समस्तशास्त्रविशारदायै नमः
- ९५ॐ सुवर्णाभरणधारिण्यै नमः
- ९६ॐ इहपरलोकसुखप्रदायिन्यै नमः
- ९७ॐ करवीरनिवासिन्यै नमः
- ९८ॐ नागलोकमणिसहा आकाशसिन्धुकमलेश्वरपूरितरथगमनायै नमः
- ९९ॐ श्रीश्रीनिवासप्रियायै नमः
- १००ॐ चन्द्रमण्डलस्थितायै नमः
- १०१ॐ अलिवेलुमङ्गायै नमः
- १०२ॐ दिव्यमङ्गलधारिण्यै नमः
- १०३ॐ सुकल्याणपीठस्थायै नमः
- १०४ॐ कामकवनपुष्पप्रियायै नमः
- १०५ॐ कोटिमन्मथरूपिण्यै नमः
- १०६ॐ भानुमण्डलरूपिण्यै नमः
- १०७ॐ पद्मपादायै नमः
- १०८ॐ रमायै नमः
- १०९ॐ सर्वलोकसभान्तरधारिण्यै नमः
- ११०ॐ सर्वमानसवासिन्यै नमः
- १११ॐ सर्वायै नमः
- ११२ॐ विश्वरूपायै नमः
- ११३ॐ दिव्यज्ञानायै नमः
- ११४ॐ सर्वमङ्गलरूपिण्यै नमः
- ११५ॐ सर्वानुग्रहप्रदायिन्यै नमः
- ११६ॐ ओङ्कारस्वरूपिण्यै नमः
- ११७ॐ ब्रह्मज्ञानसम्भूतायै नमः
- ११८ॐ पद्मावत्यै नमः
- ११९ॐ सद्योवेदवत्यै नमः
- १२०ॐ श्रीमहालक्ष्म्यै नमः