- १ॐ कैवल्यशैले श्रीकण्ठाय नमः
- २ॐ हिमवति केदाराय नमः
- ३ॐ काशीपुर्यां विश्वनाथाय नमः
- ४ॐ श्रीशैले मल्लिकार्जुनाय नमः
- ५ॐ प्रयागे नीलकण्ठेशाय नमः
- ६ॐ गयायां रुद्राय नमः
- ७ॐ कालञ्जरपुरे नीलकण्ठेश्वराय नमः
- ८ॐ द्राक्षारामे भीमेशाय नमः
- ९ॐ मायूरे अम्बिकेश्वराय नमः
- १०ॐ ब्रह्मावर्ते देवलिङ्गाय नमः
- ११ॐ प्रभासे शशिभूषणाय नमः
- १२ॐ श्वेतहस्तिपुरे श्रीमते वृषध्वजाय नमः
- १३ॐ गोकर्णे गोकर्णेशाय नमः
- १४ॐ सोमनाथके सोमेशाय नमः
- १५ॐ श्रीरूपे त्यागराजाय नमः
- १६ॐ वेदे वेदपुरीश्वराय नमः
- १७ॐ भीमारामे भीमेशाय नमः
- १८ॐ मन्थने कालिकेश्वराय नमः
- १९ॐ मधुरायां चोक्कनाथाय नमः
- २०ॐ मानसे माधवेश्वराय नमः
- २१ॐ श्रीवाञ्छके चम्पकेशाय नमः
- २२ॐ पञ्चवट्यां वटेश्वराय नमः
- २३ॐ गजारण्ये वैद्येशाय नमः
- २४ॐ तीर्थाद्रौ तीर्थकेश्वराय नमः
- २५ॐ कुम्भकोणे कुम्भेशाय नमः
- २६ॐ लेपाक्ष्यां पापनाशनाय नमः
- २७ॐ कण्वपुर्यां कण्वेशाय नमः
- २८ॐ मध्ये मध्यार्जुनेश्वराय नमः
- २९ॐ हरिहरपुरे श्रीशङ्करनारायणेश्वराय नमः
- ३०ॐ विरञ्चिपुर्यां मार्गेशाय नमः
- ३१ॐ पञ्चनद्यां गिरीश्वराय नमः
- ३२ॐ पम्पापुर्यां विरूपाक्षाय नमः
- ३३ॐ सोमाद्रौ मल्लिकार्जुनाय नमः
- ३४ॐ त्रिमकूटे अगस्त्येशाय नमः
- ३५ॐ सुब्रह्मण्ये अहिपेश्वराय नमः
- ३६ॐ महाबलशिलोच्चये महाबलेश्वराय नमः
- ३७ॐ दक्षिणावर्ते अर्केश्वराय नमः
- ३८ॐ महापुण्ये वेदारण्ये वेदारण्येश्वराय नमः
- ३९ॐ सोमपुर्यां मूर्तित्रयात्मकाय सोमेश्वराय नमः
- ४०ॐ अवन्त्यां रामलिङ्गेशाय नमः
- ४१ॐ काश्मीरे विजयेश्वराय नमः
- ४२ॐ महानन्दिपुरे महानन्दिपुरेश्वराय नमः
- ४३ॐ कोटितीर्थे कोटीशाय नमः
- ४४ॐ वृद्धे वृद्धाचलेश्वराय नमः
- ४५ॐ महापुण्ये ककुद्गिरौ गङ्गाधरेश्वराय नमः
- ४६ॐ चामराज्यनगरे चामराजेश्वराय नमः
- ४७ॐ नन्दिगिरौ नन्दीश्वराय नमः
- ४८ॐ बधिराचले चण्डेशाय नमः
- ४९ॐ गरपुरे नञ्जुण्डेशाय नमः
- ५०ॐ शतशृङ्गे अधिपेश्वराय नमः
- ५१ॐ घनानन्दाचले सोमाय नमः
- ५२ॐ नल्लूरे विमलेश्वराय नमः
- ५३ॐ नीडानाथपुरे नीडानाथेश्वराय नमः
- ५४ॐ एकान्ते रामलिङ्गेशाय नमः
- ५५ॐ श्रीनागे कुण्डलीश्वराय नमः
- ५६ॐ श्रीकन्यायां त्रिभङ्गीशाय नमः
- ५७ॐ उत्सङ्गे राघवेश्वराय नमः
- ५८ॐ मत्स्यतीर्थे तीर्थेशाय नमः
- ५९ॐ त्रिकूटे ताण्डवेश्वराय नमः
- ६०ॐ प्रसन्नपुरे मार्गसहायेशाय नमः
- ६१ॐ गण्डक्यां शिवनाभाय नमः
- ६२ॐ श्रीपतौ श्रीपतीश्वराय नमः
- ६३ॐ धर्मपुर्यां धर्मलिङ्गाय नमः
- ६४ॐ कन्याकुब्जे कलाधराय नमः
- ६५ॐ वाणिग्रामे विरिञ्चेशाय नमः
- ६६ॐ नेपाले नकुलेश्वराय नमः
- ६७ॐ जगन्नाथे मार्कण्डेयाय नमः
- ६८ॐ नर्मदातटे स्वयम्भुवे नमः
- ६९ॐ धर्मस्थले मञ्जुनाथाय नमः
- ७०ॐ त्रिरूपके व्यासेशाय नमः
- ७१ॐ स्वर्णावत्यां कलिङ्गेशाय नमः
- ७२ॐ निर्मले पन्नगेश्वराय नमः
- ७३ॐ पुण्डरीके जैमिनीशाय नमः
- ७४ॐ अयोध्यायां मधुरेश्वराय नमः
- ७५ॐ सिद्धवट्यां सिद्धेशाय नमः
- ७६ॐ श्रीकूर्मे त्रिपुरान्तकाय नमः
- ७७ॐ मणिकुण्डलतीर्थे मणिमुक्तानदीश्वराय नमः
- ७८ॐ वटाटव्यां कृत्तिवाससे नमः
- ७९ॐ त्रिवेण्यां सङ्गमेश्वराय नमः
- ८०ॐ स्तनितायां मल्लेशाय नमः
- ८१ॐ इन्द्रकीले अर्जुनेश्वराय नमः
- ८२ॐ शेषाद्रौ कपिलेशाय नमः
- ८३ॐ पुष्पे पुष्पगिरीश्वराय नमः
- ८४ॐ चित्रकूटे भुवनेशाय नमः
- ८५ॐ उज्जिन्यां कालिकेश्वराय नमः
- ८६ॐ ज्वालामुख्यां शूलटङ्काय नमः
- ८७ॐ मङ्गल्यां सङ्गमेश्वराय नमः
- ८८ॐ तञ्जापुर्यां बृहतीशाय नमः
- ८९ॐ वह्निपुष्करे रामेशाय नमः
- ९०ॐ लङ्काद्वीपे मत्स्येशाय नमः
- ९१ॐ गन्धमादने कूर्मेशाय नमः
- ९२ॐ विन्ध्याचले वराहेशाय नमः
- ९३ॐ अहोबिले नृसिंहाय नमः
- ९४ॐ कुरुक्षेत्रे वामनेशाय नमः
- ९५ॐ कपिलतीर्थके परशुरामेशाय नमः
- ९६ॐ सेतौ रामेश्वराय नमः
- ९७ॐ साकेते बलरामेशाय नमः
- ९८ॐ वारणावते बौद्धेशाय नमः
- ९९ॐ तत्त्वक्षेत्रे कल्कीशाय नमः
- १००ॐ महेन्द्रके कृष्णेशाय नमः
इति ललितागमे ज्ञानपादे शिवलिङ्गप्रादुर्भावपटलान्तर्गते श्रीशिवाष्टोत्तरशतदिव्यस्थानीयनामावलिः सम्पूर्णा