- १ॐ चामुण्डिकाम्बायै नमः
- २ॐ श्रीकण्ठाय नमः
- ३ॐ पार्वत्यै नमः
- ४ॐ परमेश्वराय नमः
- ५ॐ महाराज्ञ्यै नमः
- ६ॐ महादेवाय नमः
- ७ॐ सदाराध्यायै नमः
- ८ॐ सदाशिवाय नमः
- ९ॐ शिवार्धाङ्ग्यै नमः
- १०ॐ शिवार्धाङ्गाय नमः।
- ११ॐ भैरव्यै नमः
- १२ॐ कालभैरवाय नमः
- १३ॐ शक्तित्रितयरूपाढ्यायै नमः
- १४ॐ मूर्तित्रितयरूपवते नमः
- १५ॐ कामकोटिसुपीठस्थायै नमः
- १६ॐ काशीक्षेत्रसमाश्रयाय नमः
- १७ॐ दाक्षायण्यै नमः
- १८ॐ दक्षवैरिणे नमः
- १९ॐ शूलिन्यै नमः
- २०ॐ शूलधारकाय नमः।
- २१ॐ ह्रीङ्कारपञ्जरशुक्यै नमः
- २२ॐ हरिशङ्कररूपवते नमः
- २३ॐ श्रीमद्गणेशजनन्यै नमः
- २४ॐ षडाननसुजन्मभुवे नमः
- २५ॐ पञ्चप्रेतासनारूढायै नमः
- २६ॐ पञ्चब्रह्मस्वरूपभृते नमः
- २७ॐ चण्डमुण्डशिरश्छेत्र्यै नमः
- २८ॐ जलन्धरशिरोहराय नमः
- २९ॐ सिंहवाहायै नमः
- ३०ॐ वृषारूढाय नमः।
- ३१ॐ श्यामाभायै नमः
- ३२ॐ स्फटिकप्रभाय नमः
- ३३ॐ महिषासुरसंहर्त्र्यै नमः
- ३४ॐ गजासुरविमर्दनाय नमः
- ३५ॐ महाबलाचलावासायै नमः
- ३६ॐ महाकैलासवासभुवे नमः
- ३७ॐ भद्रकाल्यै नमः
- ३८ॐ वीरभद्राय नमः
- ३९ॐ मीनाक्ष्यै नमः
- ४०ॐ सुन्दरेश्वराय नमः।
- ४१ॐ भण्डासुरादिसंहर्त्र्यै नमः
- ४२ॐ दुष्टान्धकविमर्दनाय नमः
- ४३ॐ मधुकैटभसंहर्त्र्यै नमः
- ४४ॐ मधुरापुरनायकाय नमः
- ४५ॐ कालत्रयस्वरूपाढ्यायै नमः
- ४६ॐ कार्यत्रयविधायकाय नमः
- ४७ॐ गिरिजातायै नमः
- ४८ॐ गिरीशाय नमः
- ४९ॐ वैष्णव्यै नमः
- ५०ॐ विष्णुवल्लभाय नमः।
- ५१ॐ विशालाक्ष्यै नमः
- ५२ॐ विश्वनाथाय नमः
- ५३ॐ पुष्पास्त्रायै नमः
- ५४ॐ विष्णुमार्गणाय नमः
- ५५ॐ कौसुम्भवसनोपेतायै नमः
- ५६ॐ व्याघ्रचर्माम्बरावृताय नमः
- ५७ॐ मूलप्रकृतिरूपाढ्यायै नमः
- ५८ॐ परब्रह्मस्वरूपवते नमः
- ५९ॐ रुण्डमालाविभूषाढ्यायै नमः
- ६०ॐ लसद्रुद्राक्षमालिकाय नमः।
- ६१ॐ मनोरूपेक्षुकोदण्डायै नमः
- ६२ॐ महामेरुधनुर्धराय नमः
- ६३ॐ चन्द्रचूडायै नमः
- ६४ॐ चन्द्रमौलये नमः
- ६५ॐ महामायायै नमः
- ६६ॐ महेश्वराय नमः
- ६७ॐ महाकाल्यै नमः
- ६८ॐ महाकालाय नमः
- ६९ॐ दिव्यरूपायै नमः
- ७०ॐ दिगम्बराय नमः।
- ७१ॐ बिन्दुपीठसुखासीनायै नमः
- ७२ॐ श्रीमदोङ्कारपीठगाय नमः
- ७३ॐ हरिद्राकुङ्कुमालिप्तायै नमः
- ७४ॐ भस्मोद्धूलितविग्रहाय नमः
- ७५ॐ महापद्माटवीलोलायै नमः
- ७६ॐ महाबिल्वाटवीप्रियाय नमः
- ७७ॐ सुधामय्यै नमः
- ७८ॐ विषधराय नमः
- ७९ॐ मातङ्ग्यै नमः
- ८०ॐ मकुटेश्वराय नमः।
- ८१ॐ वेदवेद्यायै नमः
- ८२ॐ वेदवाजिने नमः
- ८३ॐ चक्रेश्यै नमः
- ८४ॐ विष्णुचक्रदाय नमः
- ८५ॐ जगन्मय्यै नमः
- ८६ॐ जगद्रूपाय नमः
- ८७ॐ मृडान्यै नमः
- ८८ॐ मृत्युनाशनाय नमः
- ८९ॐ रामार्चितपदाम्भोजायै नमः
- ९०ॐ कृष्णपुत्रवरप्रदाय नमः।
- ९१ॐ रमावाणीसुसंसेव्यायै नमः
- ९२ॐ विष्णुब्रह्मसुसेविताय नमः
- ९३ॐ सूर्यचन्द्राग्निनयनायै नमः
- ९४ॐ तेजस्त्रयविलोचनाय नमः
- ९५ॐ चिदग्निकुण्डसम्भूतायै नमः
- ९६ॐ महालिङ्गसमुद्भवाय नमः
- ९७ॐ कम्बुकण्ठ्यै नमः
- ९८ॐ कालकण्ठाय नमः
- ९९ॐ वज्रेश्यै नमः
- १००ॐ वज्रिपूजिताय नमः।
- १०१ॐ त्रिकण्टक्यै नमः
- १०२ॐ त्रिभङ्गीशाय नमः
- १०३ॐ भस्मरक्षायै नमः
- १०४ॐ स्मरान्तकाय नमः
- १०५ॐ हयग्रीववरोद्धात्र्यै नमः
- १०६ॐ मार्कण्डेयवरप्रदाय नमः
- १०७ॐ चिन्तामणिगृहावासायै नमः
- १०८ॐ मन्दराचलमन्दिराय नमः
- १०९ॐ विन्ध्याचलकृतावासायै नमः
- ११०ॐ विन्ध्यशैलार्यपूजिताय नमः।
- १११ॐ मनोन्मन्यै नमः
- ११२ॐ लिङ्गरूपाय नमः
- ११३ॐ जगदम्बायै नमः
- ११४ॐ जगत्पित्रे नमः
- ११५ॐ योगनिद्रायै नमः
- ११६ॐ योगगम्याय नमः
- ११७ॐ भवान्यै नमः
- ११८ॐ भवमूर्तिमते नमः
- ११९ॐ श्रीचक्रात्मरथारूढायै नमः
- १२०ॐ धरणीधरसंस्थिताय नमः।
- १२१ॐ श्रीविद्यावेद्यमहिमायै नमः
- १२२ॐ निगमागमसंश्रयाय नमः
- १२३ॐ दशशीर्षसमायुक्तायै नमः
- १२४ॐ पञ्चविंशतिशीर्षवते नमः
- १२५ॐ अष्टादशभुजायुक्तायै नमः
- १२६ॐ पञ्चाशत्करमण्डिताय नमः
- १२७ॐ ब्राह्म्यादिमातृकारूपायै नमः
- १२८ॐ शताष्टेकादशात्मवते नमः
- १२९ॐ स्थिरायै नमः
- १३०ॐ स्थाणवे नमः।
- १३१ॐ बालायै नमः
- १३२ॐ सद्योजाताय नमः
- १३३ॐ उमायै नमः
- १३४ॐ मृडाय नमः
- १३५ॐ शिवायै नमः
- १३६ॐ शिवाय नमः
- १३७ॐ रुद्राण्यै नमः
- १३८ॐ रुद्राय नमः
- १३९ॐ ईश्वर्यै नमः
- १४०ॐ ईश्वराय नमः।
- १४१ॐ कदम्बकाननावासायै नमः
- १४२ॐ दारुकारण्यलोलुपाय नमः
- १४३ॐ नवाक्षरीमनुस्तुत्यायै नमः
- १४४ॐ पञ्चाक्षरमनुप्रियाय नमः
- १४५ॐ नवावरणसम्पूज्यायै नमः
- १४६ॐ पञ्चायतनपूजिताय नमः
- १४७ॐ देहस्थषट्चक्रदेव्यै नमः
- १४८ॐ दहराकाशमध्यगाय नमः
- १४९ॐ योगिनीगणसंसेव्यायै नमः
- १५०ॐ भृग्वादिप्रमथावृताय नमः।
- १५१ॐ उग्रतारायै नमः
- १५२ॐ अघोररूपाय नमः
- १५३ॐ शर्वाण्यै नमः
- १५४ॐ शर्वमूर्तिमते नमः
- १५५ॐ नागवेण्यै नमः
- १५६ॐ नागभूषाय नमः
- १५७ॐ मन्त्रिण्यै नमः
- १५८ॐ मन्त्रदैवताय नमः
- १५९ॐ ज्वलज्जिह्वायै नमः
- १६०ॐ ज्वलन्नेत्राय नमः।
- १६१ॐ दण्डनाथायै नमः
- १६२ॐ दृगायुधाय नमः
- १६३ॐ पार्थाञ्जनास्त्रसन्दात्र्यै नमः
- १६४ॐ पार्थपाशुपतास्त्रदाय नमः
- १६५ॐ पुष्पवच्चक्रताटङ्कायै नमः
- १६६ॐ फणिराजसुकुण्डलाय नमः
- १६७ॐ बाणपुत्रीवरोद्धात्र्यै नमः
- १६८ॐ बाणासुरवरप्रदाय नमः
- १६९ॐ व्यालकञ्चुकसंवीतायै नमः
- १७०ॐ व्यालयज्ञोपवीतवते नमः।
- १७१ॐ नवलावण्यरूपाढ्यायै नमः
- १७२ॐ नवयौवनविग्रहाय नमः
- १७३ॐ नाट्यप्रियायै नमः
- १७४ॐ नाट्यमूर्तये नमः
- १७५ॐ त्रिसन्ध्यायै नमः
- १७६ॐ त्रिपुरान्तकाय नमः
- १७७ॐ तन्त्रोपचारसुप्रीतायै नमः
- १७८ॐ तन्त्रादिमविधायकाय नमः
- १७९ॐ नववल्लीष्टवरदायै नमः
- १८०ॐ नववीरसुजन्मभुवे नमः।
- १८१ॐ भ्रमरज्यायै नमः
- १८२ॐ वासुकिज्याय नमः
- १८३ॐ भेरुण्डायै नमः
- १८४ॐ भीमपूजिताय नमः
- १८५ॐ निशुम्भशुम्भदमन्यै नमः
- १८६ॐ नीचापस्मारमर्दनाय नमः
- १८७ॐ सहस्राराम्बुजारूढायै नमः
- १८८ॐ सहस्रकमलार्चिताय नमः
- १८९ॐ गङ्गासहोदर्यै नमः
- १९०ॐ गङ्गाधराय नमः।
- १९१ॐ गौर्यै नमः
- १९२ॐ त्रिलोचनाय नमः
- १९३ॐ श्रीशैलभ्रमराम्बाख्यायै नमः
- १९४ॐ मल्लिकार्जुनपूजिताय नमः
- १९५ॐ भवतापप्रशमन्यै नमः
- १९६ॐ भवरोगनिवारकाय नमः
- १९७ॐ चन्द्रमण्डलमध्यस्थायै नमः
- १९८ॐ मुनिमानसहंसकाय नमः
- १९९ॐ प्रत्यङ्गिरायै नमः
- २००ॐ प्रसन्नात्मने नमः।
- २०१ॐ कामेश्यै नमः
- २०२ॐ कामरूपवते नमः
- २०३ॐ स्वयम्प्रभायै नमः
- २०४ॐ स्वप्रकाशाय नमः
- २०५ॐ कालरात्र्यै नमः
- २०६ॐ कृतान्तहृते नमः
- २०७ॐ सदान्नपूर्णायै नमः
- २०८ॐ भिक्षाटाय नमः
- २०९ॐ वनदुर्गायै नमः
- २१०ॐ वसुप्रदाय नमः।
- २११ॐ सर्वचैतन्यरूपाढ्यायै नमः
- २१२ॐ सच्चिदानन्दविग्रहाय नमः
- २१३ॐ सर्वमङ्गलरूपाढ्यायै नमः
- २१४ॐ सर्वकल्याणदायकाय नमः
- २१५ॐ राजराजेश्वर्यै नमः
- २१६ॐ श्रीमद्राजराजप्रियङ्कराय नमः
इति श्री-स्कन्दपुराणे श्री-अर्धनारीश्वराष्टोत्तरशतनामावलिः सम्पूर्णा