- १ॐ वास्तुपुरुषाय नमः
- २ॐ महाकायाय नमः
- ३ॐ कृष्णाङ्गाय नमः
- ४ॐ रक्तलोचनाय नमः
- ५ॐ ऊर्ध्वासनाय नमः
- ६ॐ द्विबाहवे नमः
- ७ॐ बभ्रुवाहनाय नमः
- ८ॐ शयनाय नमः
- ९ॐ व्यस्तमस्तकाय नमः
- १०ॐ कृताञ्जलिपुटाय नमः
- ११ॐ वास्तोष्पतये नमः
- १२ॐ द्विपदे नमः
- १३ॐ चतुष्पदे नमः
- १४ॐ भूमियज्ञाय नमः
- १५ॐ यज्ञदैवताय नमः
- १६ॐ प्रसोदर्यै नमः
- १७ॐ हिरण्यगर्भिण्यै नमः
- १८ॐ समुद्रवसनाय नमः
- १९ॐ वास्तुपतये नमः
- २०ॐ वसवे नमः
- २१ॐ महापुरुषाय नमः
- २२ॐ इष्टार्थसिद्धिदाय नमः
- २३ॐ शल्यवास्तुनिधये नमः
- २४ॐ जलवास्तुनिधये नमः
- २५ॐ गृहादिवास्तुनिधये नमः
- २६ॐ वासयोग्याय नमः
- २७ॐ इहलोकसौख्याय नमः
- २८ॐ मार्गदर्शिकाय प्रकृतिशास्त्राय नमः
- २९ॐ मामोत्तरणमार्गाय नमः
- ३०ॐ ज्ञानोपदेशाय नमः
- ३१ॐ सुखवृद्धिकराय नमः
- ३२ॐ दुःखनिवारणाय नमः
- ३३ॐ पुनर्जन्मरहिताय नमः
- ३४ॐ अज्ञानान्धकारनिर्मूलाय नमः
- ३५ॐ प्रपञ्चक्रीडाविनोदाय नमः
- ३६ॐ पञ्चभूतात्मने नमः
- ३७ॐ प्राणाय नमः
- ३८ॐ उच्छ्वासाय नमः
- ३९ॐ निश्वासाय नमः
- ४०ॐ कुम्भकाय नमः
- ४१ॐ योगाभ्यासाय नमः
- ४२ॐ अष्टसिद्धाय नमः
- ४३ॐ सुरूपाय नमः
- ४४ॐ ग्रामवास्तुनिधये नमः
- ४५ॐ पट्टणवास्तुनिधये नमः
- ४६ॐ नगरवास्तुनिधये नमः
- ४७ॐ मनश्शान्तये नमः
- ४८ॐ अमृत्यवे नमः
- ४९ॐ गृहनिर्माणयोग्यस्थलाधिदेवताय नमः
- ५०ॐ निर्माणशास्त्राधिकाराय नमः
- ५१ॐ मानवश्श्रेयोनिधये नमः
- ५२ॐ मन्दारावासनिर्माणाय नमः
- ५३ॐ पुण्यस्थलावासनिर्माणाय नमः
- ५४ॐ उत्कृष्टस्थितिकारणाय नमः
- ५५ॐ पूर्वजन्मवासनाय नमः
- ५६ॐ अतिनिगूढाय नमः
- ५७ॐ दिक्साधनाय नमः
- ५८ॐ दुष्फलितनिवारणकारकाय नमः
- ५९ॐ निर्माणकौशलधुरन्धराय नमः
- ६०ॐ द्वारादिरूपाय नमः
- ६१ॐ मूर्ध्ने ईशानाय नमः
- ६२ॐ श्रवसे अदितये नमः
- ६३ॐ कण्ठे जलदेवताय नमः
- ६४ॐ नेत्रे जयाय नमः
- ६५ॐ वाक् अर्यम्णे नमः
- ६६ॐ स्तनद्वये दिशाय नमः
- ६७ॐ हृदि आपवत्साय नमः
- ६८ॐ दक्षिणभुजे इन्द्राय नमः
- ६९ॐ वामभुजे नागाय नमः
- ७०ॐ दक्षिणकरे सावित्राय नमः
- ७१ॐ वामकरे रुद्राय नमः
- ७२ॐ ऊरुद्वये मृत्यवे नमः
- ७३ॐ नाभिदेशे मित्रगणाय नमः
- ७४ॐ पृष्ठे ब्रह्मणे नमः
- ७५ॐ दक्षिणवृषणे इन्द्राय नमः
- ७६ॐ वामवृषणे जयन्ताय नमः
- ७७ॐ जानुयुगले रोगाय नमः
- ७८ॐ शिश्ने नन्दिगणाय नमः
- ७९ॐ शीलमण्डले वायुभ्यो नमः
- ८०ॐ पादौ पितृभ्यो नमः
- ८१ॐ रजकस्थाने वृद्धिक्षयाय नमः
- ८२ॐ चर्मकारकस्थाने क्षुत्पिपासाय नमः
- ८३ॐ ब्राह्मणस्थाने जनोत्साहकराय नमः
- ८४ॐ शूद्रस्थाने धनधान्यवृद्धिस्थाय नमः
- ८५ॐ योगीश्वरस्थाने महदावस्थकारकाय नमः
- ८६ॐ गोपकस्थाने सर्वसिद्धिप्रदाय नमः
- ८७ॐ क्षत्रियस्थाने कलहप्रदाय नमः
- ८८ॐ चक्रस्थाने रोगकारणाय नमः
- ८९ॐ सप्तद्वारवेधाय नमः
- ९०ॐ आग्नेयस्थाने प्रथमस्तम्भाय नमः
- ९१ॐ चैत्रमासनिर्माणे दुःखाय नमः
- ९२ॐ वैशाखमासनिर्माणे द्रव्यवृद्धिदाय नमः
- ९३ॐ ज्येष्ठमासनिर्माणे मृत्युप्रदाय नमः
- ९४ॐ आषाढमासनिर्माणे पशुनाशनाय नमः
- ९५ॐ श्रावणमासनिर्माणे पशुवृद्धिदाय नमः
- ९६ॐ भाद्रपदमासनिर्माणे सर्वशून्याय नमः
- ९७ॐ आश्वयुजमासनिर्माणे कलहाय नमः
- ९८ॐ कार्तिकमासनिर्माणे मृत्युनाशनाय नमः
- ९९ॐ मार्गशिरमासनिर्माणे धनधान्यवृद्धिदाय नमः
- १००ॐ पुष्यमासनिर्माणे अग्निभयाय नमः
- १०१ॐ माघमासनिर्माणे पुत्रवृद्धिदाय नमः
- १०२ॐ फाल्गुनमासनिर्माणे स्वर्णरत्नप्रदाय नमः
- १०३ॐ स्थिरराशे उत्तमाय नमः
- १०४ॐ चरराशे मध्यमाय नमः
- १०५ॐ द्विस्वभावराशे निषिद्धाय नमः
- १०६ॐ शुक्लपक्षे सुखदाय नमः
- १०७ॐ बहुलपक्षे चोरभयाय नमः
- १०८ॐ चतुर्दिक्षुद्वारगृहे विजयाख्याय नमः
हरिः ओम् ॥
मानदण्डं कराब्जेन वहन्तं भूमिशोधकम् ।
वन्देऽहं वास्तुपुरुषं शयानं शयने शुभे ॥ १ ॥
वास्तुपुरुष नमस्तेऽस्तु भूशय्यादिगत प्रभो ।
मद्गृहे धनधान्यादिसमृद्धिं कुरु मे प्रभो ॥ २ ॥
पञ्चवक्त्रं जटाजूटं पञ्चदशविलोचनम् ।
सद्योजातानाञ्च श्वेतं वासुदेवन्तु कृष्णकम् ॥ ३ ॥
अघोरं रक्तवर्णञ्च शरीरं हेमवर्णकम् ।
महाबाहुं महाकायं कर्णकुण्डलमण्डितम् ॥ ४ ॥
पीताम्बरं पुष्पमालं नागयज्ञोपवीतिनम् ।
रुद्राक्षमालाभरणं व्याघ्रचर्मोत्तरीयकम् ॥ ५ ॥
अक्षमालाञ्च पद्मञ्च नागशूलपिनाकिनम् ।
डमरुं वीणाबाणञ्च शङ्खचक्रकरान्वितम् ॥ ६ ॥
कोटिसूर्यप्रतीकाशं सर्वजीवदयावरम् ।
देवदेवं महादेवं विश्वकर्म जगद्गुरुम् ॥ ७ ॥
वास्तुमूर्तिः परञ्ज्योतिर्वास्तुदेवः परश्शिवः ।
वास्तुदेवास्तु सर्वेषां वास्तुदेवं नमाम्यहम् ॥ ८ ॥