- १ॐ आञ्जनेयाय नमः
- २ॐ महावीराय नमः
- ३ॐ हनूमते नमः
- ४ॐ मारुतात्मजाय नमः
- ५ॐ तत्त्वज्ञानप्रदाय नमः
- ६ॐ सीतादेवीमुद्राप्रदायकाय नमः
- ७ॐ अशोकवनिकाच्छेत्रे नमः
- ८ॐ सर्वमायाविभञ्जनाय नमः
- ९ॐ सर्वबन्धविमोक्त्रे नमः
- १०ॐ रक्षोविध्वंसकारकाय नमः
- ११ॐ परविद्यापरीहर्त्रे नमः
- १२ॐ परशौर्यविनाशनाय नमः
- १३ॐ परमन्त्रनिराकर्त्रे नमः
- १४ॐ परयन्त्रप्रभेदकाय नमः
- १५ॐ सर्वग्रहविनाशिने नमः
- १६ॐ भीमसेनसहायकृते नमः
- १७ॐ सर्वदुःखहराय नमः
- १८ॐ सर्वलोकचारिणे नमः
- १९ॐ मनोजवाय नमः
- २०ॐ पारिजातद्रुमूलस्थाय नमः
- २१ॐ सर्वमन्त्रस्वरूपवते नमः
- २२ॐ सर्वतन्त्रस्वरूपिणे नमः
- २३ॐ सर्वयन्त्रात्मकाय नमः
- २४ॐ कपीश्वराय नमः
- २५ॐ महाकायाय नमः
- २६ॐ सर्वरोगहराय नमः
- २७ॐ प्रभवे नमः
- २८ॐ बलसिद्धिकराय नमः
- २९ॐ सर्वविद्यासम्पत्प्रदायकाय नमः
- ३०ॐ कपिसेनानायकाय नमः
- ३१ॐ भविष्यच्चतुराननाय नमः
- ३२ॐ कुमारब्रह्मचारिणे नमः
- ३३ॐ रत्नकुण्डलदीप्तिमते नमः
- ३४ॐ चञ्चलद्बालसन्नद्धलम्बमानशिखोज्ज्वलाय नमः
- ३५ॐ गन्धर्वविद्यातत्त्वज्ञाय नमः
- ३६ॐ महाबलपराक्रमाय नमः
- ३७ॐ कारागृहविमोक्त्रे नमः
- ३८ॐ शृङ्खलाबन्धमोचकाय नमः
- ३९ॐ सागरोत्तारकाय नमः
- ४०ॐ प्राज्ञाय नमः
- ४१ॐ रामदूताय नमः
- ४२ॐ प्रतापवते नमः
- ४३ॐ वानराय नमः
- ४४ॐ केसरीसुताय नमः
- ४५ॐ सीताशोकनिवारणाय नमः
- ४६ॐ अञ्जनागर्भसम्भूताय नमः
- ४७ॐ बालार्कसदृशाननाय नमः
- ४८ॐ विभीषणप्रियकराय नमः
- ४९ॐ दशग्रीवकुलान्तकाय नमः
- ५०ॐ लक्ष्मणप्राणदात्रे नमः
- ५१ॐ वज्रकायाय नमः
- ५२ॐ महाद्युतये नमः
- ५३ॐ चिरञ्जीविने नमः
- ५४ॐ रामभक्ताय नमः
- ५५ॐ दैत्यकार्यविघातकाय नमः
- ५६ॐ अक्षहन्त्रे नमः
- ५७ॐ काञ्चनाभाय नमः
- ५८ॐ पञ्चवक्त्राय नमः
- ५९ॐ महातपसे नमः
- ६०ॐ लङ्किणीभञ्जनाय नमः
- ६१ॐ श्रीमते नमः
- ६२ॐ सिंहिकाप्राणभञ्जनाय नमः
- ६३ॐ गन्धमादनशैलस्थाय नमः
- ६४ॐ लङ्कापुरविदाहकाय नमः
- ६५ॐ सुग्रीवसचिवाय नमः
- ६६ॐ धीराय नमः
- ६७ॐ शूराय नमः
- ६८ॐ दैत्यकुलान्तकाय नमः
- ६९ॐ सुरार्चिताय नमः
- ७०ॐ महातेजसे नमः
- ७१ॐ रामचूडामणिप्रदाय नमः
- ७२ॐ कामरूपिणे नमः
- ७३ॐ पिङ्गलाक्षाय नमः
- ७४ॐ वर्धिमैनाकपूजिताय नमः
- ७५ॐ कबलीकृतमार्तण्डमण्डलाय नमः
- ७६ॐ विजितेन्द्रियाय नमः
- ७७ॐ रामसुग्रीवसन्धात्रे नमः
- ७८ॐ महिरावणमर्दनाय नमः
- ७९ॐ स्फटिकाभाय नमः
- ८०ॐ वागधीशाय नमः
- ८१ॐ नवव्याकृतिपण्डिताय नमः
- ८२ॐ चतुर्बाहवे नमः
- ८३ॐ दीनबन्धवे नमः
- ८४ॐ महात्मने नमः
- ८५ॐ भक्तवत्सलाय नमः
- ८६ॐ सञ्जीवननगाहर्त्रे नमः
- ८७ॐ शुचये नमः
- ८८ॐ वाग्मिने नमः
- ८९ॐ दृढव्रताय नमः
- ९०ॐ कालनेमिप्रमथनाय नमः
- ९१ॐ हरिमर्कटमर्कटाय नमः
- ९२ॐ दान्ताय नमः
- ९३ॐ शान्ताय नमः
- ९४ॐ प्रसन्नात्मने नमः
- ९५ॐ शतकण्ठमदापहृते नमः
- ९६ॐ योगिने नमः
- ९७ॐ रामकथालोलाय नमः
- ९८ॐ सीतान्वेषणपण्डिताय नमः
- ९९ॐ वज्रदंष्ट्राय नमः
- १००ॐ वज्रनखाय नमः
- १०१ॐ रुद्रवीर्यसमुद्भवाय नमः
- १०२ॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः
- १०३ॐ पार्थध्वजाग्रसंवासिने नमः
- १०४ॐ शरपञ्जरहेलकाय नमः
- १०५ॐ दशबाहवे नमः
- १०६ॐ लोकपूज्याय नमः
- १०७ॐ जाम्बवत्प्रीतिवर्धनाय नमः
- १०८ॐ सीतासमेतश्रीरामपादसेवाधुरन्धराय नमः
इति श्री-हनुमदष्टोत्तरशतनामावलिः सम्पूर्णा