- १ॐ सीतायै नमः
- २ॐ सीर-ध्वज-सुतायै नमः
- ३ॐ सीमातीत-गुणोज्ज्वलायै नमः
- ४ॐ सौन्दर्य-सार-सर्वस्व-भूतायै नमः
- ५ॐ सौभाग्य-दायिन्यै नमः
- ६ॐ देव्यै नमः
- ७ॐ देवार्चित-पदायै नमः
- ८ॐ दिव्यायै नमः
- ९ॐ दशरथ-स्नुषायै नमः
- १०ॐ रामायै नमः
- ११ॐ राम-प्रियायै नमः
- १२ॐ रम्यायै नमः
- १३ॐ राकेन्दु-वदनोज्ज्वलायै नमः
- १४ॐ वीर्य-शुल्कायै नमः
- १५ॐ वीर-पत्न्यै नमः
- १६ॐ वियन्मध्यायै नमः
- १७ॐ वर-प्रदायै नमः
- १८ॐ पति-व्रतायै नमः
- १९ॐ पङ्क्ति-कण्ठ-नाशिन्यै नमः
- २०ॐ पावन-स्मृतये नमः
- २१ॐ वन्दारु-वत्सलायै नमः
- २२ॐ वीर-मात्रे नमः
- २३ॐ वृत-रघूत्तमायै नमः
- २४ॐ सम्पत्-कर्यै नमः
- २५ॐ सदा-तुष्टायै नमः
- २६ॐ साक्षिण्यै नमः
- २७ॐ साधु-सम्मतायै नमः
- २८ॐ नित्यायै नमः
- २९ॐ नियत-संस्थानायै नमः
- ३०ॐ नित्यानन्दायै नमः
- ३१ॐ नुति-प्रियायै नमः
- ३२ॐ पृथ्व्यै नमः
- ३३ॐ पृथ्वी-सुतायै नमः
- ३४ॐ पुत्र-दायिन्यै नमः
- ३५ॐ प्रकृत्यै परस्यै नमः
- ३६ॐ हनूमत्-स्वामिन्यै नमः
- ३७ॐ हृद्यायै नमः
- ३८ॐ हृदय-स्थायै नमः
- ३९ॐ हताशुभायै नमः
- ४०ॐ हंस-युक्तायै नमः
- ४१ॐ हंस-गतये नमः
- ४२ॐ हर्ष-युक्तायै नमः
- ४३ॐ हताशरायै नमः
- ४४ॐ सार-रूपायै नमः
- ४५ॐ सार-वचसे नमः
- ४६ॐ साध्व्यै नमः
- ४७ॐ सरमा-प्रियायै नमः
- ४८ॐ त्रिलोक-वन्द्यायै नमः
- ४९ॐ त्रिजटा-सेव्यायै नमः
- ५०ॐ त्रिपथ-गार्चिन्यै नमः
- ५१ॐ त्राण-प्रदायै नमः
- ५२ॐ त्रात-काकायै नमः
- ५३ॐ तृणी-कृत-दशाननायै नमः
- ५४ॐ अनसूया-अङ्गरागाङ्कायै नमः
- ५५ॐ अनसूयायै नमः
- ५६ॐ सूरि-वन्दितायै नमः
- ५७ॐ अशोक-वनिका-स्थानायै नमः
- ५८ॐ अशोकायै नमः
- ५९ॐ शोक-विनाशिन्यै नमः
- ६०ॐ सूर्य-वंश-स्नुषायै नमः
- ६१ॐ सूर्य-मण्डलान्तस्स्थ-वल्लभायै नमः
- ६२ॐ श्रुत-मात्राघ-हरणायै नमः
- ६३ॐ श्रुति-सन्निहितेक्षणायै नमः
- ६४ॐ पुष्प-प्रियायै नमः
- ६५ॐ पुष्पक-स्थायै नमः
- ६६ॐ पुण्य-लभ्यायै नमः
- ६७ॐ पुरातन्यै नमः
- ६८ॐ पुरुषार्थ-प्रदायै नमः
- ६९ॐ पूज्यायै नमः
- ७०ॐ पूत-नाम्ने नमः
- ७१ॐ परन्तपायै नमः
- ७२ॐ पद्म-प्रियायै नमः
- ७३ॐ पद्म-हस्तायै नमः
- ७४ॐ पद्मायै नमः
- ७५ॐ पद्म-मुख्यै नमः
- ७६ॐ शुभायै नमः
- ७७ॐ जन-शोक-हरायै नमः
- ७८ॐ जन्म-मृत्यु-शोक-विनाशिन्यै नमः
- ७९ॐ जगद्-रूपायै नमः
- ८०ॐ जगद्-वन्द्यायै नमः
- ८१ॐ जय-दायै नमः
- ८२ॐ जनकात्मजायै नमः
- ८३ॐ नाथनीय-कटाक्षायै नमः
- ८४ॐ नाथायै नमः
- ८५ॐ नाथैक-तत्परायै नमः
- ८६ॐ नक्षत्र-नाथ-वदनायै नमः
- ८७ॐ नष्ट-दोषायै नमः
- ८८ॐ नयावहायै नमः
- ८९ॐ वह्नि-पाप-हरायै नमः
- ९०ॐ वह्नि-शैत्य-कृते नमः
- ९१ॐ वृद्धि-दायिन्यै नमः
- ९२ॐ वाल्मीकि-गीत-विभवायै नमः
- ९३ॐ वचोतीतायै नमः
- ९४ॐ वराङ्गनायै नमः
- ९५ॐ भक्ति-गम्यायै नमः
- ९६ॐ भव्य-गुणायै नमः
- ९७ॐ भात्र्यै नमः
- ९८ॐ भरत-वन्दितायै नमः
- ९९ॐ सुवर्णाङ्ग्यै नमः
- १००ॐ सुखकर्यै नमः
- १०१ॐ सुग्रीवाङ्गद-सेवितायै नमः
- १०२ॐ वैदेह्यै नमः
- १०३ॐ विनताघौघ-नाशिन्यै नमः
- १०४ॐ विधि-वन्दितायै नमः
- १०५ॐ लोक-मात्रे नमः
- १०६ॐ लोचनान्त-स्थित-कारुण्य-सागरायै नमः
- १०७ॐ कृताकृत-जगद्धेतवे नमः
- १०८ॐ कृत-राज्याभिषेककायै नमः
इदम् अष्टोत्तर-शतं सीता-नाम्नां तु या वधूः ।
भक्ति-युक्ता पठेत् सा तु पुत्र-पौत्रादि-नन्दिता ॥
धन-धान्य-समृद्धा च दीर्घ-सौभाग्य-दर्शिनी ।
पुंसाम् अपि स्तोत्रम् इदं पठनात् सर्व-सिद्धि-दम् ॥
इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-सीता-अष्टोत्तरशत-नामावलिः सम्पूर्णा