- १ॐ श्रीसीतायै नमः
- २ॐ जानक्यै नमः
- ३ॐ देव्यै नमः
- ४ॐ वैदेह्यै नमः
- ५ॐ राघवप्रियायै नमः
- ६ॐ रमायै नमः
- ७ॐ अवनिसुतायै नमः
- ८ॐ रामायै नमः
- ९ॐ राक्षसान्तप्रकारिण्यै नमः
- १०ॐ रत्नगुप्तायै नमः
- ११ॐ मातुलुङ्ग्यै नमः
- १२ॐ मैथिल्यै नमः
- १३ॐ भक्ततोषदायै नमः
- १४ॐ पद्माक्षजायै नमः
- १५ॐ कञ्जनेत्रायै नमः
- १६ॐ स्मितास्यायै नमः
- १७ॐ नूपुरस्वनायै नमः
- १८ॐ वैकुण्ठनिलयायै नमः
- १९ॐ मायै नमः
- २०ॐ श्रियै नमः
- २१ॐ मुक्तिदायै नमः
- २२ॐ कामपूरण्यै नमः
- २३ॐ नृपात्मजायै नमः
- २४ॐ हेमवर्णायै नमः
- २५ॐ मृदुलाङ्ग्यै नमः
- २६ॐ सुभाषिण्यै नमः
- २७ॐ कुशाम्बिकायै नमः
- २८ॐ दिव्यदायै नमः
- २९ॐ लवमात्रे नमः
- ३०ॐ मनोहरायै नमः
- ३१ॐ हनुमद्वन्दितपदायै नमः
- ३२ॐ मुग्धायै नमः
- ३३ॐ केयूरधारिण्यै नमः
- ३४ॐ अशोकवनमध्यस्थायै नमः
- ३५ॐ रावणादिकमोहिन्यै नमः
- ३६ॐ विमानसंस्थितायै नमः
- ३७ॐ सुभ्रुवे नमः
- ३८ॐ सुकेश्यै नमः
- ३९ॐ रशनान्वितायै नमः
- ४०ॐ रजोरूपायै नमः
- ४१ॐ सत्त्वरूपायै नमः
- ४२ॐ तामस्यै नमः
- ४३ॐ वह्निवासिन्यै नमः
- ४४ॐ हेममृगासक्तचित्तायै नमः
- ४५ॐ वाल्मीक्याश्रमवासिन्यै नमः
- ४६ॐ पतिव्रतायै नमः
- ४७ॐ महामायायै नमः
- ४८ॐ पीतकौशेयवासिन्यै नमः
- ४९ॐ मृगनेत्रायै नमः
- ५०ॐ बिम्बोष्ठ्यै नमः
- ५१ॐ धनुर्विद्याविशारदायै नमः
- ५२ॐ सौम्यरूपायै नमः
- ५३ॐ दशरथस्नुषायै नमः
- ५४ॐ चामरवीजितायै नमः
- ५५ॐ सुमेधादुहित्रे नमः
- ५६ॐ दिव्यरूपायै नमः
- ५७ॐ त्रैलोक्यपालिन्यै नमः
- ५८ॐ अन्नपूर्णायै नमः
- ५९ॐ महालक्ष्म्यै नमः
- ६०ॐ धियै नमः
- ६१ॐ लज्जायै नमः
- ६२ॐ सरस्वत्यै नमः
- ६३ॐ शान्त्यै नमः
- ६४ॐ पुष्ट्यै नमः
- ६५ॐ क्षमायै नमः
- ६६ॐ गौर्यै नमः
- ६७ॐ प्रभायै नमः
- ६८ॐ अयोध्यानिवासिन्यै नमः
- ६९ॐ वसन्तशीतलायै नमः
- ७०ॐ गौर्यै नमः
- ७१ॐ स्नानसन्तुष्टमानसायै नमः
- ७२ॐ रमानामभद्रसंस्थायै नमः
- ७३ॐ हेमकुम्भपयोधरायै नमः
- ७४ॐ सुरार्चितायै नमः
- ७५ॐ धृत्यै नमः
- ७६ॐ कान्त्यै नमः
- ७७ॐ स्मृत्यै नमः
- ७८ॐ मेधायै नमः
- ७९ॐ विभावर्यै नमः
- ८०ॐ लघूदरायै नमः
- ८१ॐ वरारोहायै नमः
- ८२ॐ हेमकङ्कणमण्डितायै नमः
- ८३ॐ द्विजपत्न्यर्पितनिजभूषायै नमः
- ८४ॐ राघवतोषिण्यै नमः
- ८५ॐ श्रीरामसेवानिरतायै नमः
- ८६ॐ रत्नताटङ्कधारिण्यै नमः
- ८७ॐ रामवामाङ्गसंस्थायै नमः
- ८८ॐ रामचन्द्रैकरञ्जन्यै नमः
- ८९ॐ सरयूजलसङ्क्रीडाकारिण्यै नमः
- ९०ॐ राममोहिन्यै नमः
- ९१ॐ सुवर्णतुलितायै नमः
- ९२ॐ पुण्यायै नमः
- ९३ॐ पुण्यकीर्त्यै नमः
- ९४ॐ कलावत्यै नमः
- ९५ॐ कलकण्ठायै नमः
- ९६ॐ कम्बुकण्ठायै नमः
- ९७ॐ रम्भोरुवे नमः
- ९८ॐ गजगामिन्यै नमः
- ९९ॐ रामार्पितमनायै नमः
- १००ॐ रामवन्दितायै नमः
- १०१ॐ रामवल्लभायै नमः
- १०२ॐ श्रीरामपदचिह्नाङ्कायै नमः
- १०३ॐ रामरामेतिभाषिण्यै नमः
- १०४ॐ रामपर्यङ्कशयनायै नमः
- १०५ॐ रामाङ्घ्रिक्षालिन्यै नमः
- १०६ॐ वरायै नमः
- १०७ॐ कामधेन्वन्नसन्तुष्टायै नमः
- १०८ॐ मातुलुङ्गकरे धृतायै नमः
- १०९ॐ दिव्यचन्दनसंस्थायै नमः
- ११०ॐ श्रियै नमः
- १११ॐ मूलकासुरमर्दिन्यै नमः
इति श्री-आनन्दरामायणे श्री-सीताष्टोत्तरशतनामावलिः सम्पूर्णा