लक्ष्मणशर्मविरचिता
श्रीलक्ष्मणशर्मणा विरचिता
मङ्गलं
अहंस्वरूपेण समस्तजन्तो-
र्विभान्तमन्तर्विभुमप्रमेयम् ।
गुरुं गुरूणामजमादिदेवं
वन्दामहे श्रीरमणं दयाब्धिम् ॥
ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥
॥१॥माण्डूक्यमुख्योपनिषत्सु दिष्टा
ज्ञानाभिधा या सहजात्मनिष्ठा ।
ससाधना तेन निजानुभूत्या
सन्दर्शिता सा प्रतिपाद्यतेऽत्र ॥
॥२॥समीक्ष्य सांसारिकजीवनस्य
दुःखात्मतां कामभयाश्रयत्वात् ।
द्वाभ्यां विमुक्तं गुरुमेत्य बुद्धं
विमुक्तिमार्गं प्रणिपत्य पृच्छेत् ॥
॥३॥ब्रूयात् स बुद्धः परमं रहस्यं
समस्तबुद्धानुभवप्रसिद्धम् ।
जानासि चेत् स्वं न तवास्ति दुःखं
दुःखी भवेस्त्वं यदि वेत्सि न स्वम् ॥
॥४॥यतः सुषुप्तौ न तवास्ति दुःखं
त्वयीदमारोपितमेव नान्यत् ।
जिज्ञासया स्वं समवेत्य सत्यं
निजस्वरूपे सुखरूप आस्स्व ॥
॥५॥अर्थोऽयमेवं गुरुणोपदिष्टः
सारः समस्तश्रुतिशीर्षवाचाम् ।
अस्योपदेशस्य हि विस्तरेण
व्याख्यैव सर्वा निगमान्तवाणी ॥
॥६॥ज्ञानस्वरूपं निजसत्यमेकं
स्वयम्प्रकाशं हृदि सत्यमस्ति ।
संशान्तचित्तेन हृदिस्थितिर्या
सा तस्य बोधोऽपि विमुक्तिभावः ॥
॥७॥आत्मस्वरूपा हृदि भासमाना
सदैकरूपा विमला चितिश्च ।
ब्रह्माभिधानं जगतोऽखिलस्या-
प्याधारसत्यं द्वयमेकमेव ॥
॥८॥आधारसत्ये विमले तु तस्मिन्
निजस्वरूपे मनसोपक्लृप्तम् ।
अविद्यया विश्वममुं निमील्य
भाति स्वयं सत्यवदज्ञतायाम् ॥
॥९॥निमील्य रज्जुं भुजगः स्वयं सन्
मन्दान्धकारे सति भाति यद्वत् ।
आत्मानमेवं भुवनं निमील्य
भाति स्वयं सत्यवदज्ञतायाम् ॥
॥१०॥अविद्ययाऽऽत्मा वपुषा मितश्च
सुखी च दुःखी भवपाशबद्धः ।
प्रतीयतेऽज्ञोऽपि पृथक् परस्मा-
दात्मा तु साक्षात्पर एव नान्यः ॥
॥११॥संसारिता स्वस्य ततो मृषैव
बुध्येत तन्निर्मनने पदे तु ।
"नह्यस्त्यविद्या मनसोऽतिरिक्ता
मनोह्यविद्या भवबन्धरूपा" ॥
॥१२॥वीक्ष्याहिमीक्षेत यथा न रज्जुं
विश्वं सजीवेश्वरमात्मरूपे ।
अविद्ययाऽऽरोपितमीक्षमाणो
न वीक्षते स्वं परमार्थसत्यम् ॥
॥१३॥निमीलतः स्वो भवितैव ताव-
द्यावत् स्वतः सत्यमिदं विभाति ।
तथा न भायान्मनसि प्रणष्टे
नाशाय तस्मान्मनसो यतेत ॥
॥१४॥निमीलितं स्वं मनसा तमेनं
मिथ्याप्रपञ्चप्रविकल्पनेन ।
स्वान्वेषणेनात्मनि निष्ठितः
सन्नुन्मील्य तस्मिन्प्रविलापयेद्यः ॥
॥१५॥मनोऽप्यविद्यामखिलं प्रपञ्चं
तेनानुभूयेत निजं स्वरूपम् ।
संसारहीनं निरुपाधिकं च
ब्रह्मात्मकं केवलमद्वितीयम् ॥
॥१६॥भीत्याऽथवा जन्ममृतिप्रवाहात्
प्रपद्यते चेच्छरणं महेशम् ।
नश्येदविद्या कृपयैव तस्य
तदा स्थितः स्यान्निजसत्यभावे ॥
॥१७॥भक्त्या परस्मै स्वनिवेदनं यत्
प्रपत्तिमेतां निगदन्ति सन्तः ।
तद्भक्तिरीशे नवधोपदिष्टा
कार्यामुमुक्षोः श्रवणादिरूपा ॥
॥१८॥Quote - Srimad Bhagavatam
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
निष्ठाचला सा निजसत्यभावे
ज्ञानं विमुक्तिः सहजा स्थितिश्च ।
स्थितोऽचलस्तत्र पदे परस्मिन्
निरस्तमोहो भवति प्रबुद्धः ॥
॥१९॥निष्ठां परं तामधिगत्य बुद्धो
जीवच्छरीरोऽपि विमुक्त एव ।
करोत्यहन्तां ममतां न देहे
बुद्धो ह्यतोऽसावशरीर एव ॥
॥२०॥यन्निर्मनस्कं पदमेवमुक्तं
सुखं तदात्यन्तिकमन्तहीनम् ।
सुखं समावृत्य मनः स्वयं हि
सदैव दुःखं विवृणोति जन्तोः ॥
॥२१॥ऋजुः शुचिः सत्यवचा अमानी
धीरो विरक्तश्च गुरौ सुभक्तः ।
शमादिषट्केन युतो मुमुक्षुः
स्थितिं परां तामचिराल्लभेत ॥
॥२२॥धीरक्षणं यद्विदधाति साधु-
र्निर्गृह्य वृत्तीर्निजमार्गणाय ।
तदेव धीरत्वमिहोपदिष्टं
नापेक्षतेऽन्या खलु धीरताऽत्र ॥
॥२३॥भजेत् प्रबुद्धं हि गुरुं मुमुक्षुः
स्वाज्ञाननिद्रोत्थितमस्तमोहम् ।
कथं नु मर्त्यः स्वयमप्रबुद्धः
प्रबोधयेदन्यनरानबुद्धान् ॥
॥२४॥ईशादभेदेन कृतैव बुद्धे
गुरौ सुभक्तिर्गदिताऽत्र साधोः ।
निर्मोहितामेत्यचिरात् तयैव
बुद्धः परस्मान्नहि कश्चिदन्यः ॥
॥२५॥शमो दमश्चोपरतिस्तितिक्षा
श्रद्धा गुरोर्वाचि समाहितत्वम् ।
विधीयते षट्कमिदं मुमुक्षोः
स्थिरं भवेद्येन मनो गवेषे ॥
॥२६॥Quote - tr. of Maharshi's Tamil work
विश्रान्तिं जठरस्य मे न वितरस्येकां च नाडीमहो
नानश्नन् दिवसे च तिष्ठसि कदाप्येकामहो नाडिकाम् ।
नो जानासि मदीयदुःखमतुलं हे दुर्विनीत त्वया ।
साकं जीवनमत्र देहनिलये मे दुर्घटं सम्प्रति ॥
निजस्वरूपानुभवैकवेद्यं
तन्नेति नेतीत्युदितं पदं हि ।
वाचाऽप्यनुक्तं मनसाऽमतं च
मौनोपदिष्टं गुरुणाऽऽदिमेन ॥
॥२७॥अतीत्य यज्जागरमुख्यभावां-
स्तन्निष्प्रपञ्चं भवति प्रशान्तम् ।
अतस्तुरीयं पदमव्ययं तद्-
इत्येष माण्डूक्यनिरूपितार्थः ॥
॥२८॥तिस्रो ह्यवस्थाः प्रभवन्ति जाग्रत्
स्वप्नः सुषुप्तिश्च समस्तजन्तोः ।
आधारभूता त्रितयस्य चास्य
स्वाज्ञानरूपाऽस्ति सुषुप्तिरन्या ॥
॥२९॥अस्मिन्नवस्थात्रितये समस्त-
मन्तर्भवत्येव हि विश्वमेतत् ।
अस्मादवस्थात्रितयात् परस्ता-
दलौकिकं ह्यस्ति तुरीयसत्यम् ॥
॥३०॥अस्वप्ननिद्रेति सुषुप्तिरुक्ता
सस्वप्ननिद्रेप्युभयं तदन्यत् ।
अनिद्रमस्वप्नकमस्तविश्वं
पदं तुरीयं हि विमुक्तिधाम ॥
॥३१॥सन्धौ सुषुप्तेरथ जागरस्य
चिद्रूपिणी निर्मनना स्थितिर्या ।
सा सुस्थिरा चेद् भविता कथञ्चित्
सैवोच्यते मुक्तिरिति प्रबुद्धैः ॥
॥३२॥Quote - from Yoga Vasishtha
निद्रादौ जागरस्यान्ते यो भाव उपजयते ।
तं भावं भावयन् साक्षादक्षयानन्दमश्नुते ॥
अज्ञाननिद्रापरिभूतभावाः
पश्यन्ति दुस्स्वप्नमिमं प्रपञ्चम् ।
परिभ्रमन्ति त्रितयेऽत्र जीवा
यावन्न निद्रेयमपैति बोधात् ॥
॥३३॥निद्रालुरेवं सकलोऽपि जन्तु-
र्न कोऽपि जागर्ति हि जीवलोके ।
तीर्णस्तिसृभ्योऽज्ञतया विमुक्तो
बुद्धस्तु जागर्ति तुरीयनिष्ठः ॥
॥३४॥जागर्ति बुद्धो निजसत्यभावे
समेत्य निष्ठां तमसा विहीने ।
निद्राति च स्वप्नमये प्रपञ्चे
स्वाज्ञानमूढैः परिदृश्यमाने ॥
॥३५॥तन्नक्तमुक्तं विदुषो हि विश्वं
नक्तं तथाऽऽत्माऽविदुषो जनस्य ।
निष्ठामतस्तां सहजां तुरीयां
जाग्रत्सुषुप्तिं निगदन्ति बुधाः ॥
॥३६॥Quote - from BhagavadGita
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥
सज्जाग्रदादित्रयमस्ति येषां
तेषां तुरीयाभिधया तदुक्तम् ।
सत् तुर्यमेवासदिदं त्रयं यत्
तुर्याभिधा तस्य भवत्यसाधु ॥
॥३७॥स्वप्नेऽपि जाग्रत्यपि चेष्टमानं
मनः प्रपञ्चं सृजति स्वयं हि ।
गत्वा सुषुप्तौ बत बीजभावं
भूयः प्रबोधे सृजति प्रपञ्चम् ॥
॥३८॥मनोऽन्ततो नश्यति नैव यावद्
भवेदवस्थात्रितयं हि तावत् ।
मनोविनाशाद्धि तुरीयनिष्ठा
यत्रान्ततः शाम्यति विश्वमेतत् ॥
॥३९॥ज्ञानाभिधा यद्यपि साऽऽत्मनिष्ठा
ज्ञात्रादिकेन त्रितयेन हीना ।
तत्किं विजानात्युत केन को वा
ज्ञानाभिधा स्वात्मतयैव निष्ठा ॥
॥४०॥आत्मैव यस्मिन्न भवत् समस्तं
जानाति तस्मिन् बत केन किं नु ।
इत्यात्मनः केवलतैव तुर्ये
सन्दर्शिताऽस्ति श्रुतिशीर्षवाचा ॥
॥४१॥स्थानं च तद्वानिति नास्ति तस्मिन्
भेदः पदे कश्चन वास्तवो यत् ।
आत्माऽद्वितीयः परिपूर्ण एकः
स्थानं स्वयं स्वस्य हि सन् स एकः ॥
॥४२॥Quote - Upanishad
स्वे महिम्नि प्रतिष्ठितः । अथवा न महिम्नि ॥
द्वैतं समस्तं खलु नीतमन्तं
बुद्धेन तुर्ये स्थितिमेत्य सत्ये ।
अद्वैतनिष्ठाऽधिगताऽस्ति तेने-
त्यद्वैतिनं तेन तमेव विद्यात् ॥
॥४३॥अनात्मनि स्वात्मतया प्रतीत्या
प्रतीयते द्वैतमिदं हि सद्वत् ।
एवंविधाज्ञानविमुक्तभाव-
मद्वैतनिष्ठां निगदन्ति बुद्धाः ॥
॥४४॥अद्वैतमेवं न मतं यथाऽन्य-
न्नास्ति प्रचारो मनसो हि तत्र ।
अद्वैतमुक्तं निजसत्यभावे
निष्ठैव चिन्तारहिताऽस्तलोका ॥
॥४५॥शास्त्रोदितार्थाधिगमेन यस्तु
बुद्ध्वाऽद्वयत्वं मतवद्धियैव ।
तुष्यत्यनेनैव विनाऽनुभूतिं
नाद्वैतनिष्ठाऽधिगताऽस्ति तेन ॥
॥४६॥न तेन दृश्यं प्रविलापितं हि
स्वचित्स्वरूपे परमार्थसत्ये ।
शास्त्रार्थबोधात् समवैति यः स्वं
न तस्य देहात्ममतिर्विनष्टा ॥
॥४७॥पश्वादिकेभ्योऽप्यविशेष एव
तस्योच्यते शङ्करदेशिकेन ।
पशुत्वमेतद् गदितं हि बुद्धै-
र्वपुर्मितं यत् स्वमवैति जन्तुः ॥
॥४८॥न व्येत्यतः शास्त्रविदो नरस्य
जगत् स्वतः सत्यमिति प्रतीतिः ।
तया प्रतीत्या सततं विमूढः
परिभ्रमत्येव भवे यथाऽन्ये ॥
॥४९॥वाग्यन्त्रतुल्योऽयमुदीर्यते च
बुद्ध्वाऽपि शास्त्रार्थमशान्तचेताः ।
अपण्डितादप्यवरोऽयमुक्तो
मदादिदोषैः परिभूतभावः ॥
॥५०॥बोधं परोक्षं तमिमं वदन्ति
परोक्ष आत्मा तु न कर्हिचित् स्यात् ।
नित्यापरोक्षस्य परोक्षबोधो
बोधो यथार्थो भविता कथं नु ॥
॥५१॥देहोऽहमस्मीत्यनुभूतिरूपो
भवत्यबोधः खलु बन्धहेतुः ।
बोधोऽहमस्मीति विनाऽनुभूतिं
कथं व्रजेन्नाशमबोध एषः ॥
॥५२॥धिया धृतोऽयं हि परोक्षबोधो
न धीप्रचारोऽस्ति तु सत्स्वरूपे ।
दैत्यं यथा पुण्यजनं वदन्ति
वदन्त्यबोधं बत बोधनाम्ना ॥
॥५३॥यदाऽर्कतप्तो मृगतृष्णिकायां
स्नात्वा नरस्तापविमुक्तिमेति ।
अन्नं पचेच्चित्रगताग्निना वा
परोक्षबोधेन तदाऽस्तु मुक्तिः ॥
॥५४॥तत्स्वानुभूत्या रहितोऽद्वयत्वं
वाचा वदन् द्वैतिसमान एव ।
न गच्छतो वाङ्मनसे हि तुर्यं
तत्र स्थितस्यास्ति मतं न किञ्चित् ॥
॥५५॥अद्वैतिनः स्वान् गणयन्त आहु-
र्जगन्मृषा दुःखमयं जडं च ।
अतोऽन्यथैवेत्यपरे वदन्ति
फले तु सर्वेऽपि समा भवन्ति ॥
॥५६॥विश्वं परो जीव इति त्रिरूपं
विभाति सत्यं परमेकमेव ।
ज्ञानं भवेनैव तु वाद एष
ज्ञानं त्वहङ्कारविनाश एव ॥
॥५७॥निजस्वरूपानुभवे विनेच्छां
मताग्रहेण प्रवदन्ति वादान् ।
अस्तीति नास्तीत्यपि रूप्यरूपी-
त्येकं द्विधा नोभयथेत्यनन्तान् ॥
॥५८॥भवत्यनन्ताः खलु तर्कवादाः
क्वचित्प्रतिष्ठां न हि याति तर्कः ।
अलौकिकोऽसौ खलु तुर्यनिष्ठा
ज्ञेया कथं तर्कधिया भवेत् सा ॥
॥५९॥मतं न किञ्चिद्विदुषोऽस्ति यस्मात्
सज्जेत वादेषु कदाऽपि नासौ ।
सर्वं मतं सम्मतमेव तस्य
मतिं न कस्याप्युत चालयेत् सः ॥
॥६०॥द्वेषं विनाऽन्येषु मतेषु तस्मा-
द्विहाय वादानपि शान्तचेताः ।
यतेत साधुः स्वमतोक्तरीत्या
मोक्षेच्छया साधनतत्परः सन् ॥
॥६१॥द्वैताद्वयत्वे भवतो मते द्वे
सत्यं च मिथ्या वदतां प्रपञ्चम् ।
वादावुभौ चापि विहाय शक्यो
लब्धुं स्वरूपानुभवो मुमुक्षोः ॥
॥६२॥अदुःखमिश्रं सुखमन्तहीनं
वाञ्छन्ति सर्वे खलु जन्तवोऽपि ।
सुखं स्वभावो हि समस्तजन्तो-
स्तादृक्सुखं क्वेति हि चिन्तनीयम् ॥
॥६३॥कस्मिन् पदे तत् सुखमस्त्यनन्तं
लभ्यं च तत् केन च साधनेन ।
द्वयं तदेतद् भगवान् मुमुक्षो-
रत्यन्तवैराग्यवतो ब्रवीति ॥
॥६४॥प्रिया सुषुप्तिर्हि समस्तजन्तोः
प्रियत्वहेतुः सुखरूपताऽस्याः ।
सुखाय तस्यां विषया न सन्ति
किं मूलकं स्यान्नु सुखं सुषुप्तेः ॥
॥६५॥सुषुप्तितुर्ये भवतः समाने
द्वयोर्मनो नास्ति हि नापि विश्वम् ।
आत्मा द्वयोरस्ति तु नित्यसत्यः
स एव मूलं ह्युभयो सुखस्य ॥
॥६६॥अनित्यमल्पं च सुखं सुषुप्तौ
मनोऽस्ति तस्यां खलु बीजभावे ।
तुर्ये प्रपूर्णं सुखमस्त्यनन्त-
मानन्दसंज्ञं श्रुतिषु प्रसिद्धम् ॥
॥६७॥तस्यैव मात्रां खलु जीवलोके
लब्ध्वा रमन्तेऽखिलजन्तवोऽपि ।
न स्याददीदं तु सुखस्य मूलं
लोके क्षणार्धं बत को नु जीवेत् ॥
॥६८॥प्रेष्ठः समस्तस्य ततस्तुरीये
विराजमानः सुखरूपकः स्वः ।
प्रेष्ठा च तस्मादखिलस्य जन्तो-
र्निष्ठा तुरीयैव न काचिदन्या ॥
॥६९॥तुर्यं पदं नित्यसुखस्य धामे-
त्येवं प्रबुद्धाद्विदितेऽथ साधोः ।
इतो विरक्तस्य तुरीयलिप्सो-
र्जगद्विचारेण फलं किमस्ति ॥
॥७०॥सन् वाऽन्यथा वा भवतु प्रपञ्चो
लब्धव्यमत्रास्ति किमस्य साधोः ।
सत् तुर्यमद्वैतमुतान्यथा वा-
ऽप्यास्तां तदेवेप्सितमस्य नान्यत् ॥
॥७१॥किमद्वयं सत् किमुनेति बोद्धुं
शक्ये हि तुर्ये स्थितिमेत्य सत्ये ।
शक्नोति कस्तत्त्वमदो निबोद्धुं
भ्राम्यन्नवस्थात्रितये विमुग्धः ॥
॥७२॥क्षेपो हि लोम्नां निकरस्य युक्तः
क्षुरापनीतस्य विना परीक्षाम् ।
तुच्छस्य तद्वज्जगतोऽस्य दानं
चर्चां विना युज्यत एव साधोः ॥
॥७३॥हेयं प्रपञ्चं स विहाय तूर्ण-
मन्तर्मुखत्वेन यतेत सिद्ध्यै ।
अन्तर्मुखत्वेन हि साधनं स्याद्
विश्वं तदर्थं ननु हेयमेव ॥
॥७४॥परं तु वैराग्यबलेन हीना
जगत् स्वतः सत्यमिति प्रतीत्या ।
न साधतेऽन्तर्मुखतां भजन्ते
तेषामपेक्ष्यो हि विचार एषः ॥
॥७५॥एते विचारेण गुरूक्तरीत्या
जगन्न सत्यं स्वत इत्यवेत्य ।
तथैव बुद्ध्याऽप्यनुसन्दधाना
अन्तर्मुखत्वं शनकैर्भजेयुः ॥
॥७६॥या लौकिकेनानुभवेन चर्चा
स्वबुद्धिशक्त्याऽपि वृथैव सा स्यात् ।
बुद्धं श्रयित्वैव गुरुं तु कुर्यात्
तद्दिष्टरीत्यैव जगद्विचारम् ॥
॥७७॥अज्ञानमूलोऽनुभवो हि सर्वः
सांसारिकः स्वप्नसमोऽज्ञपुंसाम् ।
मृषैव सर्वोऽयमतो मुमुक्षो-
र्न हि प्रमाणं सदसद्विवेके ॥
॥७८॥बुद्धानुभूतिर्हि परं प्रमाणं
साधोस्तुरीयस्य पदस्य लिप्सोः ।
स एव तत्त्वं जगतोऽप्यवैति
बोधात् तुरीयस्य सतः परस्य ॥
॥७९॥निजानुभूतिं च वदन् स बुद्धः
सन्दर्शयिष्यत्यमलाश्च युक्तीः ।
प्रश्नाननन्तांस्तु बुधो न कुर्यात्
साधोर्न शङ्कास्पदमाप्तवाक्यम् ॥
॥८०॥Quote - BhagavadGita
संशयात्मा विनश्यति
न संशयानां भविता विरामो
यावन्न तुर्ये स्थितिमेति बोधात् ।
अन्तोऽस्ति तत्रैव हि संशयाना-
मात्यन्तिकः संशयितुर्विनाशात् ॥
॥८१॥Quote - Upanishad
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
तर्कोऽप्रतिष्ठो हि ततो मुमुक्षुः
सद्योऽन्ततस्तर्कमतिं विहाय ।
श्रद्धां समालम्ब्य गुरोर्वचस्सु
तद्दिष्टमार्गेण यतेत सिद्ध्यै ॥
॥८२॥उदेति शङ्का यदि कस्य सेति
पृच्छन् स्वतत्त्वस्य गवेषणेन ।
लभेत निष्ठां यदि तुर्यभावे
शङ्का च तद्वानुभयं च नश्येत् ॥
॥८३॥बुद्धो गुरुर्वक्ति जगन्मृषात्वं
सहेतुकं स्वानुभवानुरूपम् ।
सत्योपदेशं तमिमं मुमुक्षुः
सच्छ्रद्धयाऽऽलम्ब्य यतेत सिद्ध्यै ॥
॥८४॥जीवेश्वरौ विश्वमिति त्रिरूपं
जगत् समस्तं च तुरीयसत्ये ।
अध्यस्तमेवात्मनि मानसेने-
त्यज्ञानकार्यं बत सर्वमेतत् ॥
॥८५॥सत्येवमज्ञानमिदं यदा तु
स्वज्ञानभास भजते विनाशम् ।
कार्यं तदीयं च सहैव नश्येत्
तमो यथाऽर्कप्रभया प्रभाते ॥
॥८६॥भातीदमज्ञानतमोविलासे
न भाति सुज्ञानमहाप्रकाशे ।
सच्चेदिदं भाति कुतो न तुर्ये
सत्यात्मनश्चित्प्रभया प्रदीप्ते ॥
॥८७॥शिष्येत यत् स्वानुभवे तुरीये
सत्यं तदेवान्यदसत्यमेव ।
सत्यत्वमिथ्यात्वविभाग एष
बुद्धोपदेशैर्भवति स्फुटो नः ॥
॥८८॥यतोऽज्ञतायामनुभूयमानं
तस्मादसद् द्वैतमिदं निरुक्तम् ।
अज्ञाननाशादनुभूयमाना
सत्या भवत्यद्वयताऽऽत्मनस्तु ॥
॥८९॥पदे परस्मिन् भुवने विनष्टे
यच्चिन्मयः स्वो लसति स्वभासा ।
शान्तः स एवाद्वय एककः स-
न्नित्यस्मदाचार्यनिरूपितार्थः ॥
॥९०॥स्वप्नः प्रबोधे निधनं प्रयाती-
त्यतो हि मिथ्येत्यवगम्यतेऽसौ ।
जाग्रत्प्रपञ्चोऽपि तथाऽऽत्मभावे
विनश्यतीत्यस्य मृषात्वसिद्धिः ॥
॥९१॥पराङ्मुखास्तुर्यपदस्य लाभाद्
वादांस्तु मुग्धाः प्रवदन्त्यनन्तान् ।
तज्जन्यशङ्काः शमयन्ति बुद्धा
मुह्येद्यथा तैर्न मुमुक्षुलोकः ॥
॥९२॥आत्मा शरीरं स्वयमेव येषां
सोऽयं शरीरी भविता च येषाम् ।
नोक्तं हि तान् प्रत्यनृतत्वमस्य
तेषां भवेद्विश्वमिदं सदेव ॥
॥९३॥जीवेश्वरौ विश्वमिति त्रयस्य
मिथ्यात्वमुक्तं ह्यविभक्तमेव ।
त्रिष्वेककं सत्यमवैति यस्तु
द्वयं तदन्यच्च सदेव तस्मै ॥
॥९४॥मुमुक्षुपुंसामुपदिश्यते तु
समानमेव त्रितयं मृषेति ।
ग्राह्यं तथैवेह यथोपदिष्टं
विमुक्तिमिच्छद्भिरबोधनाशात् ॥
॥९५॥ग्राह्यः समग्रोऽप्युपदेश एष
त्याज्योऽथवा बुद्धिमता समग्रम् ।
कः कुक्कुटीं कल्पयितुं समर्थः
पाकाय चार्धं प्रसवाय चार्धम् ॥
॥९६॥कुतो नु विश्वं सदिति प्रतीत-
मितीदमादौ परिशीलनीयम् ।
प्रपञ्चसत्ताप्रतिपादनस्य
भारोऽस्ति तद्वक्तृशिरस्थ एव ॥
॥९७॥यद्वीक्ष्यते विश्वमतोऽज्ञलोकः
सदेव विश्वं मनुते हि सर्वः ।
नैतत् प्रमाणं व्यभिचारदोषा-
न्मरीचिकारज्जुभुजङ्गमादौ ॥
॥९८॥यथा प्रतीतं भुवनं सदेवे-
त्येतन्न सिद्धं भवतीक्षणेन ।
किमप्यधिष्ठानसदस्ति यस्मि-
न्निदं विभातीत्यनुमेयमत्र ॥
॥९९॥यद्यद्यथा भाति न तत् तथेति
वैज्ञानिकैरेव निरूपितं हि ।
द्रव्यं सुनीरन्ध्रमिव प्रतीतं
चाकाशकल्पं गदितं यतस्तैः ॥
॥१००॥जानात्यधिष्ठानसदस्य यस्तु
तुरीयभावे समुपेत्य निष्ठाम् ।
बुद्धः स एव प्रभवेद्धि वक्तुं
किमस्य तत्त्वं भवतीति नान्यः ॥
॥१०१॥बहिर्मुखत्वे सति को नु विद्याद्
यथावदात्मानमुत प्रपञ्चम् ।
अन्तर्मुखत्वेन तु बोधदृष्ट्या
जानाति तत्त्वं ह्युभयोश्च बुद्धः ॥
॥१०२॥कथं नु मां ज्ञास्यसि तत्त्वतस्त्वं
ज्ञातुं स्वमात्मानमुतासमर्थः ।
इत्यज्ञमर्त्यं हसति प्रपञ्च
इत्येवमूचे भगवान् गुरुर्नः ॥
॥१०३॥आविद्यकत्वाज्जगदीक्षणस्य
वादं निराधारमिमं प्रदर्श्य ।
जगन्मृषात्वं प्रकटीकरोति
स्फुटं गुरुर्नो भगवान् प्रबुद्धः ॥
॥१०४॥शरीरमेवात्मतयाऽवगम्य
तत् सत्यमेवेत्यपि निश्चयेन ।
प्रत्येति सत्यं सकलं हि रूपं
सर्वोऽपि जन्तुः परिदृश्यमानम् ॥
॥१०५॥रूपाणि सर्वाणि मृषैव तस्मा-
न्न तानि सत्यानि हि बुद्धपुंसः ।
यदस्ति सत्यं तदरूपमेव
न रूपि किञ्चित् परमार्थदृष्ट्या ॥
॥१०६॥दृष्ट्यैकया पश्यति रूपिणं स्वं
सरूपकं विश्वमुताज्ञमर्त्यः ।
सा दृष्टिरज्ञानमयीति हेतोः
प्रमाणहीनैव हि विश्वसत्ता ॥
॥१०७॥वपुःप्रपञ्चाविति दृश्यमेकं
वीक्षाऽप्यवीक्षाऽप्युभयोः सहैव ।
विनाऽऽत्मनो रूपमिदं शरीरं
किं न्वीक्षते कश्चन विश्वमेतत् ॥
॥१०८॥स्वाप्नं प्रपञ्चं वपुषा विहीनाः
पश्याम इत्येवमुदीर्यते चेत् ।
तिसृष्ववस्थास्वपि चास्ति देहः
कदाऽप्यदेही न भवेद्धि जीवः ॥
॥१०९॥देहास्त्रयः सन्ति हि सर्वजन्तोः
स्थूलोऽपि सूक्ष्मोऽपि च कारणात्मा ।
मनोमयः सूक्ष्म उदीर्यते चा-
प्युक्तस्त्यविद्यैव च कारणाख्यः ॥
॥११०॥उक्तं शरीरत्रितयं यदेतत्
तत् पञ्चकोशात्मकमुच्यते च ।
मध्यं त्रयं सूक्ष्मशरीरमुक्तं
कोशोऽन्तिमः कारणदेह उक्तः ॥
॥१११॥यावन्न बोधात् त्रितयं विनश्येत्
स्याद् देहवानेव हि जीवनामा ।
तुरीयभावे ह्यशरीरताऽस्ति
सहैव यस्मिंस्त्रितयं विनश्येत् ॥
॥११२॥स्वाविद्यया कल्पयन्तेऽन्यदेहं
स्वप्ने मनोऽन्यद् भुवनं स्वयं हि ।
स्वाप्नेन देहेन सहैव सुप्तः
स्वाप्नं जगत् पश्यति न त्वरूपः ॥
॥११३॥देहं च विश्वं च समीक्षते हि
नेत्रेण देहावयवेन सर्वः ।
कथं प्रमाणं भवितेयमीक्षा
विश्वस्य सत्यत्वविचारणेऽस्मिन् ॥
॥११४॥दृक् स्याद्यथा तादृशमेव दृश्यं
दृगाश्रयोऽयं खलु दृश्यभावः ।
दृक् चेत् सरूपाऽस्ति तथैव दृश्यं
दृक् चेदरूपाऽस्ति न रूपवीक्षा ॥
॥११५॥भात्यज्ञतायां खलु सर्वजन्तोः
प्रपञ्च आत्मा द्वितयं सरूपम् ।
अज्ञाननाशे द्वयमप्यरूप-
मनन्त आत्मैव हि दृक् तदानीम् ॥
॥११६॥ज्ञानेक्षया ह्यात्मनि रूपहीने
यात्येकतां विश्वमिदं सजीवम् ।
द्रष्टाऽपि दृश्यं भवतो न यस्यां
तां ज्ञानवीक्षां निगदन्ति बुद्धाः ॥
॥११७॥चिद्रूप आत्मैव हि निष्प्रपञ्च
एकः पदे स्वे परिशिष्ट आस्ते ।
जन्मादिषड्भावविकारहीनः
स एव तस्माद् गदितः स्वतः सन् ॥
॥११८॥अनन्तदृङ्नाम निगद्यतेऽसौ
परः स आत्मा परिपूर्ण एकः ।
न तस्य दृक्त्वं तु यथार्थतोऽस्ति
सत्यात्मनो दृश्यविवर्जितत्वात् ॥
॥११९॥अचित्स्वरूपत्वनिवारणाय
कृतो दृगित्यत्र पदप्रयोगः ।
ज्ञानस्वरूपत्वमुताद्वयत्वं
तस्यैव मुक्ते भगवत्तमेन ॥
॥१२०॥अरूपिणः स्वस्य सरूपतां हि
मत्वेक्षते विश्वमिदं सरूपम् ।
अविद्ययाऽध्यस्तमिदं समस्तं
ह्यात्मन्यरूपे परसत्यनन्ते ॥
॥१२१॥अनामकेऽरूपिणि चित्स्वरूपे
तस्मिन्नविद्यापरिकल्पितानि ।
नामानि रूपाणि विभान्ति सद्वत्
स्वं रूपिणं पश्यत एव पुंसः ॥
॥१२२॥आविद्यकत्वं जगदीक्षणस्य
विस्पष्टमेवं गुरुणोपदिष्टम् ।
एवं निरस्ता जगतोऽस्य सत्ता
दिष्टाऽऽत्मनः केवलताऽपि सत्या ॥
॥१२३॥स्थिरीकरोत्यर्थमिमं गुरुर्नो
मनोमयत्वं जगतो निरूप्य ।
ततो मृषात्वं मनसोऽहमश्च
मूलाज्ञताया अपि चोपदिश्य ॥
॥१२४॥शब्दादिका ये विषयास्त एव
रूपं हि विश्वस्य न किञ्चिदन्यत् ।
प्रतीतयस्ते मनसो हि सर्वे
तद्विश्वमेतन्मन एव नान्यत् ॥
॥१२५॥यद्यस्ति विश्वं मनसो विभिन्न-
मभानमेतस्य कुतः सुषुप्तौ ।
चिद्रूप आत्माऽस्ति हि तत्र सत्यो
यदीयभासा मनसो मनस्त्वम् ॥
॥१२६॥Quote - Vivekachudamani
यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् ।
यन्नोप्लभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥
यदा मनश्चेष्टितमस्ति पुंसां
तदैव विश्वं खलु भाति तेषाम् ।
मनोमयं विश्वमिदं हि तस्मात्
स्वप्ने यथा जागरिते तथैव ॥
॥१२७॥यथैव जाग्रज्जगदेवमेव
स्वाप्नं स्वकाले प्रतिभाति सद्वत् ।
जाग्रत्प्रपञ्चो व्यवहारयोग्यो
यद्वत् तथा स्वाप्न उत स्वकाले ॥
॥१२८॥स्वाप्नं यथा दृश्यमभिन्नमेव
चित्ताद् भवेत् स्वप्नदृशो नरस्य ।
दृश्यं तथा जाग्रति वीक्षकस्य
चित्ताद् भवेत् सर्वमभिन्नमेव ॥
॥१२९॥मनोमयत्वे जगतः सुसिद्धे
सिद्धं मृषात्वं भवतीति भीताः ।
बहिःस्थितत्वं जगतोऽज्ञमर्त्या
अनेकधा साधयितुं यतन्ते ॥
॥१३०॥जगन्मृषात्वं गदितं तु बुद्धैः
स्वान्वेषणात् तुर्यपदस्य लिप्सोः ।
नान्यान् प्रतीदं ह्युपदिष्टमस्ति
ततो वृथैवेह तदीयवादाः ॥
॥१३१॥स्वाप्नस्य विश्वस्य मृषात्मकत्वं
स्वप्ने न शक्नोति हि कोऽपि बोद्धुम् ।
तथैव जाग्रद् भुवनं मृषेति
शक्नोति बोद्धुं न हि जागरेऽस्मिन् ॥
॥१३२॥न दोषहीनं भवति प्रमाणं
बहिःस्थितत्वे जगतोऽस्य किञ्चित् ।
साध्यं स्वपक्षं बत सिद्धवत्तु
कृत्वैव वादांस्त इमे वदन्ति ॥
॥१३३॥अन्तर्हि शब्दादिकबोधजन्म
बहिस्तु तत्कारणमस्ति विश्वम् ।
इत्युच्यते चेद् वद सन् कथं स्या-
दन्तर्बहिश्चेति विभाग एषः ॥
॥१३४॥लोकेऽनुभूतः सकलो विभागो
देहाश्रयेणैव हि भाति सद्वत् ।
देहस्य सत्तां प्रति न प्रमाणं
पृथक् किमप्यस्ति समर्पितं तैः ॥
॥१३५॥अल्पं मनो विश्वमिदं विशालं
स्यादन्तरेतन्मनसः कथं नु ।
इत्येष वादोऽप्युत मुग्धतैव
विशालमुक्तं मन एव बुद्धैः ॥
॥१३६॥आकाशतश्चापि बृहन्मनो हि
तस्मिन् हि खादीनि भवन्ति पञ्च ।
चिन्निश्चला ब्रह्म चला मनश्चे-
त्येवं मनो ब्रह्ममयं निरुक्तम् ॥
॥१३७॥सुप्तौ तवासीत् किमिदं न वेति
शङ्कास्ति चेत् पृच्छ नरानसुप्तान् ।
आसीदविच्छिन्नतयैव विश्व-
मित्येव तेषामवगच्छ वाचा ॥
॥१३८॥एवं स्वपक्षं बत सिद्धवत्तु
कृत्वैव वादोऽयमुदीर्यतेऽज्ञैः ।
अन्तर्भवन्त्येव हि तेऽप्यसुप्ता
नराः प्रपञ्चेऽत्र विचार्यमाणे ॥
॥१३९॥वीक्षामहे तान् मनुजानसुप्तान्
वयं प्रबुध्यैव हि नैव सुप्तौ ।
असुप्तपुंसां न हि सत्यतायाः
किञ्चित् प्रमाणं पृथगस्ति दत्तम् ॥
॥१४०॥ते चाप्यसुप्ता मनसैव विश्वं
जानन्ति नो तेन विना कदाऽपि ।
सर्वस्य तन्मानसमेव विश्वं
स्वप्ने यथा जागरितेऽपि तद्वत् ॥
॥१४१॥भात्येकरूपं हि जगद् बहूना-
मित्युच्यते चास्य बहिःस्थितत्वम् ।
नवीक्षकाणां बहुता यथार्थे-
त्युक्तैष वादो गुरुणा निरस्तः ॥
॥१४२॥अनेकतैषा मनसा कृतैव
स्वप्ने यथा जागरितेऽप्यबोधात् ।
नानेकता भाति हि वीक्षकानां
सुषुप्तिभावे मनसा विहीने ॥
॥१४३॥मनः प्रपञ्चं सृजति स्वयं हि
स्वप्ने यथा जागरिते तथैव ।
स्वसृष्टमेवेति मनो न वेत्ति
स्वप्ने यथा जागरितेऽपि तद्वत् ॥
॥१४४॥यथेप्सितं स्रष्टुमशक्तमेव
मनोऽवशं सत् सृजति प्रपञ्चम् ।
अतो हि विश्वं सदिति प्रतीत्या
भ्रान्तं भृशं संसरति स्वयं च ॥
॥१४५॥मनोरथे नाटकवीक्षणे च
तथा कथासंश्रवणेऽपि चित्तम् ।
प्रत्येति सत्यं सकलं स्वसृष्ट-
मेष स्वभावो मनसो हि नित्यः ॥
॥१४६॥दृष्टेर्न सृष्टिः पृथगस्ति काचिद्
दृष्टिश्च सृष्टिर्द्वयमेकमेव ।
दृष्टेर्विरामो निधनं हि नान्य-
न्नश्येद्धि विश्वं निजतत्त्वबोधात् ॥
॥१४७॥सिद्धे प्रपञ्चस्य मनोमयत्वे
सच्चेन्मनः सन् भविता प्रपञ्चः ।
असन् प्रपञ्चोऽपि मनस्त्वसच्चेत्
ततो विचार्या मनसोऽथ सत्ता ॥
॥१४८॥कैर्लक्षणैः स्यात् सदसद्विवेक
इत्यत्र पूर्वं परिशीलनीयम् ।
सल्लक्षणं लौकिकसम्मतं यत्
तन्न प्रमाणं खलु सद्विचारे ॥
॥१४९॥कीरो यथा शाल्मलिभूरुहस्य
लुब्धः फले वञ्चित एव याति ।
एवं स्वयं वञ्चयतः स्वमेव
मतं प्रमाणं भविता कथं नु ॥
॥१५०॥धीरिन्द्रियाण्यप्युत मानसं च
भवन्त्यविद्यापरिचारकाणि ।
अतः प्रमाणानि हि लौकिकानि
नैवोपकुर्वन्ति विचारणेऽस्मिन् ॥
॥१५१॥सल्लक्षणं लौकिकसम्मतं यत्
तदेतदाविद्यकमित्यसाधु ।
साधोः प्रमाणं गदितो हि बुद्धैः
सत्यत्वमिथ्यत्वविभाग एव ॥
॥१५२॥भासा स्वया यद्विलसत्यजस्रं
विना विकारं च लयोदयाभ्याम् ।
तदेव सत्यं हि ततोऽन्यथा तु
सर्वं मृषैवेति वदन्ति बुद्धाः ॥
॥१५३॥कदाऽप्यसत्यस्य भवेन्न सत्ता
भवेदसत्ता न सतः कदाऽपि ।
इत्येवमूचे सदसद्विवेकं
गीतासु कृष्णो भगवान् स्वयं हि ॥
॥१५४॥आद्यन्तयोर्भावविवर्जितं यन्-
मध्येऽपि तद् भावविहीनमेव ।
यद्देशकालप्रमितं विभाति
तत्सत्यताधीर्बत मुग्धतैव ॥
॥१५५॥सत्योपमानं गदितं सुवर्णं
मिथ्योपमानानि विभूषणानि ।
सत्यं सुवर्णं रुचकान्यपेक्ष्य
विनश्वरत्वाद्रुचकानि मिथ्या ॥
॥१५६॥सुवर्णमासन् रुचकानि पूर्वं
तदेव मध्येऽपि तदेव चान्ते ।
असन्ति सत्ये विलसन्ति सद्वत्
स्वर्णे यथा सन्ति विभूषणानि ॥
॥१५७॥रीत्याऽनया विश्वमिदं मनश्च
द्वयं च मिथ्यैव परीक्षमाणे ।
इत्येवमर्थो भगवत्तमेन
दिष्टो यथा तत्क्रम उच्यतेऽत्र ॥
॥१५८॥भास्यं जगद् भासकमस्य चेतो
लयोदयौ द्वे भजतः सहैव ।
न भात्यविच्छिन्नतया द्वयं चे-
त्यतो द्वयं चापि मृषेति विद्यात् ॥
॥१५९॥भवेत् तु यद्यद् विरलप्रकाशं
तत्तज्जडत्वेन परप्रकाश्यम् ।
जडस्य सर्वस्य च भासकं यत्
स्वयम्प्रभं तद्धि चितिस्वभावम् ॥
॥१६०॥स्वतत्त्वबोधादहमादिनाशे
यच्छिष्यते शान्तपदे परस्मिन् ।
सत्यं तदन्यन्निखिलं मृषेति
जानीमहेऽस्मद् गुरुदेववाग्भिः ॥
॥१६१॥मनोऽपि मिथ्या यदि शून्यतैव
प्राप्ता सुषुप्तौ न हि किञ्चिदस्ति ।
ये वादमेवं समुदाहरन्ति
स्वानेव तेऽज्ञा बत विस्मरन्ति ॥
॥१६२॥शून्यत्वमेतद्विदितं कथं नु
नैवास्य साक्षी यदि कश्चिदस्ति ।
निस्साक्षिका नैव हि शून्यतेय-
मतो न शून्यत्वमिदं यथार्थम् ॥
॥१६३॥शून्यत्ववादो भगवत्तमेन
निस्संशयं ह्यस्ति निरस्त एवम् ।
नास्माकमत्रास्ति हि काऽपि शङ्का
तुर्येऽस्ति शिष्टः खलु सत्य आत्मा ॥
॥१६४॥आत्मा स्वयञ्ज्योतिरहंस्वरूपो
भाति स्वभासा हृदि सर्वजन्तोः ।
सर्वोऽप्यतः स्वं समवैति सन्तं
नास्मीति को न्वस्ति वदन्नृलोके ॥
॥१६५॥मन्ये ततोऽस्मीत्यनुमीयते तु
वृत्त्या धियः कैश्चन नैजसत्ता ।
अमी गजं यान्तमुपेक्ष्य मन्दाः
पदानि वीक्ष्य प्रतियन्ति पश्चात् ॥
॥१६६॥सर्वानुभूताऽस्ति हि नैजसत्ता
सुषुप्तिभावे मनसा विहीने ।
सुखं मया सुप्तमिति ब्रुवाणः
सुखस्मृतिं च प्रकटीकरोति ॥
॥१६७॥अन्यानुभूतस्मरणं कुतः स्यात्
स्वेनानुभूतं हि सुखं सुषुप्तेः ।
अन्योऽहमन्यः पुरुषः सुषुप्तेः
पूर्वं य आसीदिति को नु वक्ति ॥
॥१६८॥लयोदयाभ्यां रहिते हि तस्मिन्
मनः सविश्वं लयमेति सुप्तौ ।
उदेति तस्माच्च पुनः प्रबोधे
शून्यत्ववादोऽयमतो मृषैव ॥
॥१६९॥आधारसद्वस्तु विना कथं नु
विश्वं मनश्चेत्युभयं च भायात् ।
रज्जुं विना कोन्विह वीक्षतेऽहिं
शुक्तिं विना पश्यति को नु रौप्यम् ॥
॥१७०॥अस्तित्वभाने भुवनस्य यच्छ-
दस्त्येव सत् किञ्चन चित्स्वरूपम् ।
नो चेत् कथं धीरुदियान्मृषेद-
मस्तीति भातीत्यपि लौकिकानाम् ॥
॥१७१॥तद्भास्यमेव द्वितयं च यस्मात्
स्वयम्प्रभं तच्चितिरूपमेव ।
नात्मस्वरूपात् पृथगस्ति सत्यं
स्वयम्प्रभं किञ्चन कुत्रचिद्वा ॥
॥१७२॥बोधोदये स्वात्मनि भासमाने
नार्केन्दुनक्षत्रगणा विभान्ति ।
तस्यैव भासा खलु भान्ति तानि
बहिर्मुखस्याज्ञजनस्य लोके ॥
॥१७३॥चिता यया भाति जगत् समस्तं
भासाऽपि यस्या मनसो मनस्त्वम् ।
सैवात्मरूपं भवतीति हेतो-
रात्मास्तितायां न हि काऽपि शङ्का ॥
॥१७४॥अस्मीति बोधं न रुणद्ध्यविद्या
बोधोऽहमस्मीति तु बोधमेव ।
स्वं वेत्ति सन्तं खलु सर्व एव
विहाय वैज्ञानिकवादमुग्धान् ॥
॥१७५॥नित्योऽव्ययः सन्ततभानकः स्वः
सर्वास्ववस्थास्वपि सत्य आस्ते ।
तस्मिन्नधिष्ठानसति ह्यशेष-
मारोपितं विश्वमिदं विभाति ॥
॥१७६॥पूर्णस्य तस्यैव चिदात्मकस्य
सत्यस्य सत्तामुपजीव्य सद्वत् ।
समानसं विश्वमिदं विभाति
स्वाविद्यया मोहितमानसानाम् ॥
॥१७७॥ब्रह्मैककं सत् सकलस्य जन्तोः
स्वयं सदैवाहमहन्तयाऽन्तः ।
भात्यात्मरूपेण नि नान्य आत्मे-
त्येषाऽस्ति वाणी भगवत्तमस्य ॥
॥१७८॥चैतन्यमस्मीति मदीयरूप-
मिति श्रुता मोससनामकेन ।
या देववाणी प्रथिताऽस्ति तस्या
भावोऽयमेवेत्यपि सोऽयमूचे ॥
॥१७९॥विज्ञाय सत्यात्मतया तमेव
ब्रह्मात्मकं तुर्यपदे लसन्तम् ।
लब्ध्वेव कामानखिलान् सहैव
सदैव तृप्ता हि लसन्ति बुद्धा ॥
॥१८०॥सैषा विशुद्धा चितिरात्मरूपा
स्वाज्ञस्य विश्वाकृतिका हि भाति ।
सत्यात्मनीत्थं विपरीतबुद्धि-
र्निजस्वरूपानवबोधमूला ॥
॥१८१॥आविद्यकं विश्वमिदं सदैव
समावृणोत्येव हि तत्स्वरूपम् ।
धीरिन्द्रियाण्यप्युत मानसं च
भवन्त्यविद्यापरिचारकाणि ॥
॥१८२॥अतः प्रमाणानि हि लौकिकानि
प्रत्यक्षमैतिह्यमुतानुमानम् ।
प्रतारणायैव भवन्ति जन्तो-
र्नैवोपकुर्वन्ति हि बोधलब्ध्यै ॥
॥१८३॥अतः किमाश्चर्यमिदं यदज्ञा
मत्वा स्वतः सत्यमिमं प्रपञ्चम् ।
संसारिणं च प्रतियन्ति पूर्णं
शिवं सदात्मानमसङ्गमेकम् ॥
॥१८४॥निरुक्तमेवं जगतो मृषात्वं
नैकोपमानेन सुबोधमस्ति ।
अतः स्फुटीकर्तुमिदं मुमुक्षो-
स्तिस्रो गुरुर्वक्त्युपमाः क्रमेण ॥
॥१८५॥भ्रमः प्रपञ्चस्य सदात्मरूपे
रज्ज्वां यथाऽहेरिति दर्शितेऽर्थे ।
उक्तोपमाया विषमत्वबुद्ध्या
शिष्यस्य शङ्का समुदेति काचित् ॥
॥१८६॥सर्पभ्रमः शाम्यति रज्जुबोधा-
न्नैवं जगद् भ्रान्तिरपैति साधोः ।
श्रुत्याऽपि युक्त्या विदितेऽपि तत्त्वे
पूर्वं यथा दृश्यत एव विश्वम् ॥
॥१८७॥जगद्भ्रमो नैति परोक्षबोधा-
न्निरास्पदेयं खलु तेन शङ्का ।
तथाऽपि सन्देहनिवारणाय
गुरुर्द्वितीयामुपमां ब्रवीति ॥
॥१८८॥भूयोऽपि वीक्षा मृगतृष्णिकाया
अस्त्येव तत्त्वे विदितेऽपि तस्याः ।
एवं निरस्तेऽपि च संशयेऽस्मि-
न्नुदेति भूयोऽपि च संशयोऽत्र ॥
॥१८९॥कार्योपयोगीनि हि जागतानि
वस्तूनि नैवं तु मरीचिकाम्भः ।
अत्रोच्यते स्वप्नसमीक्षितानि
कार्योपयोगीनि तथाऽपि मिथ्या ॥
॥१९०॥कार्योपयोगीन्यपि तद्वदेव
मिथ्यैव वस्तून्यपि जागतानि ।
स्वप्नो ह्ययं जागरिताभिधानः
स्वाज्ञाननिद्रावशगस्य जन्तोः ॥
॥१९१॥निद्रेयमज्ञानमयी न यावद्
व्यपैति साधोरपरोक्षबोधात् ।
स्वप्नोऽनुवर्तेत हि जागराख्यो
यस्मिञ्जगत्सत्यवदेव भाति ॥
॥१९२॥ज्ञेयं हि सत्यत्वमबाधितत्वं
बाध्यत्वमेवात्र मृषात्वलिङ्गम् ।
आत्मैव सन्नित्यमबाधितत्वा-
न्मृषा जगद् बाध्यतयाऽऽत्मबोधे ॥
॥१९३॥आत्मन्यधिष्ठानसति ह्यशेष-
मारोपितं विश्वमिदं विभाति ।
अतो न विश्वं नरशृङ्गतुल्यं
सत्यं स्वतो नेत्युपदिश्यते तु ॥
॥१९४॥भेदैरनन्तैः प्रविभक्तमेव
प्रतीयते विश्वमिदं हि सर्वम् ।
भेदा इमे चापि भवन्ति मिथ्ये-
त्यर्थं गुरुर्नो विशदीकरोति ॥
॥१९५॥भेदं च जीवेश्वरयोस्तथाऽन्यान्
प्रत्येति भेदान् मन एव सर्वान् ।
भेदप्रतीतिर्मनसो हि धर्मो
भावेऽमनस्के न हि सन्ति भेदाः ॥
॥१९६॥मनः प्रतीत्यामकमेव तस्मा-
दज्ञानुभूतं बत भेदजातम् ।
सर्वप्रतीतेर्मनसस्तु मूलं
भवत्यनात्मात्मभिदाप्रतीतिः ॥
॥१९७॥सैषा शरीरोऽहमिति प्रतीतिः
संसारवृक्षस्य निदानभूता ।
प्रतीतिरेषा गदिताज्ञतैवे-
त्याविद्यका एव समस्तभेदाः ॥
॥१९८॥जीवाभिधानं मन एव भेदा-
नविद्यया कल्पयतीक्षते च ।
सुषुप्तिभावेऽपि तुरीयभावे
जीवेश्वराद्या न हि सन्ति भेदाः ॥
॥१९९॥द्वन्द्वानि सर्वाण्यपि च त्रिपुट्यो
भवन्त्यसत्यान्यत एव हेतोः ।
सत्यात्मभावे न हि सन्ति तानि
न बाध्यते तुर्यपदस्थ एतैः ॥
॥२००॥अन्तर्बहिर्जन्ममृती समष्टि-
र्व्यष्टिर्जगत्सृष्टिलयौ तमो भाः ।
आत्माऽप्यनात्माऽप्युत बन्धमुक्ती
ज्ञाताज्ञते जीव उतेश्वरश्च ॥
॥२०१॥स्वेच्छा च दैवं च सुखं च दुःखं
दोषा गुणाश्चाप्युत पुण्यपापे ।
इत्याद्यहङ्कारनिदानकत्वात्
स्वप्नोपमं वक्ति गुरुः समस्तम् ॥
॥२०२॥ज्ञाताऽपि तज्ज्ञेयमनात्मसञ्ज्ञं
ज्ञानं तथा वैषयिकं तदीयम् ।
समस्तमेवं त्रिपुटिप्रकारं
चाविद्यकं स्वप्नसमं निरुक्तम् ॥
॥२०३॥आत्मन्यविद्यापरिकल्पितौ द्वौ
जीवेश्वराख्यौ भवतो न भिन्नौ ।
उपाधिसम्बन्धधिया भिदेयं
प्रतीयते सत्यवदज्ञतायाम् ॥
॥२०४॥ईशस्य माया गदिताऽस्त्युपाधि-
र्जीवस्य तूपाधिरबोध एव ।
मायाऽस्त्यधीना परमस्य तस्य
जीवस्त्वविद्यापरतन्त्र एव ॥
॥२०५॥मायाऽप्यविद्या गदिते तु शास्त्रे
जीवेशयोर्भेदनिरूपणाय ।
मिथ्यैव भेदोऽयमबोधमूल-
स्तथाऽपि सत्यो व्यवहारदृष्ट्या ॥
॥२०६॥द्वैतं भवेत् सत्यवदेव तावद्
यावन्न जीवत्वमपैति बोधात् ।
अतो भवेत् सत्यवदेव पुंसां
भेदो ह्ययं यद्वदिहान्यभेदाः ॥
॥२०७॥विश्वं परो जीव इति त्रयस्य
मृषात्वमुक्तं ह्यविभक्तमेव ।
न कुक्कुटी कल्पयितुं हि शक्या
पाकाय चार्धं प्रसवाय चार्धम् ॥
॥२०८॥स्वं देहिनं चाप्युत जीवभूतं
यो मन्यतेऽज्ञातनिजस्वरूपः ।
आत्मैव तस्मै भजतीशभावं
तमेव भक्त्या स भजेद्विमुक्त्यै ॥
॥२०९॥सत्यां विदित्वाऽद्वयतां धियैव
लब्धुं स्वरूपानुभवं त्वशक्तः ।
कुर्यात् प्रयत्नं भवबन्धमुक्त्यै
भक्त्या परस्मिन्नपि च प्रपत्त्या ॥
॥२१०॥धीरस्य पुंसो निजमार्गणं च
भीरोः प्रपत्तिः पुरुषे परस्मिन् ।
द्वावेव मार्गौ गदितौ मुमुक्षो-
रन्तर्भवन्त्यत्र समस्तमार्गाः ॥
॥२११॥अन्वेषयाहङ्कृतिमूलमन्त-
र्नाशाय तामर्पय वा परस्मै ।
मार्गो द्विधैवं भगवत्तमेन
मुमुक्षुपुंसां रमणेन दिष्टः ॥
॥२१२॥अद्वैतिनं स्वं गणयन्नधीरो
भक्तिं परस्मिन्नवरां च मत्वा ।
वृथैव जीवत्यभजन् य ईशं
मुग्धः स मर्त्यो मलिनन्तरङ्गः ॥
॥२१३॥कूपे यथा रज्जुनिबद्धकुम्भो
भक्तो भवेऽस्मिन् भविता तथैव ।
रज्जुं विना कूपनिमग्नकुम्भो
यथा तथा भक्तिविहीनमर्त्यः ॥
॥२१४॥य आसुरीं सम्पदमाश्रयन्ते
न भक्तिरच्छा भविता हे तेषाम् ।
दैवीमतः सम्पदमाश्रितः सन्
भक्तिं परस्मिन् विदधीत साधुः ॥
॥२१५॥लोकप्रसिद्धा परमस्य पुंसः
कृपेति शक्तिर्भवति त्रिरूपा ।
ईशस्वरूपा गुरुरूपिणी च
सत्यात्मरूपा च तुरीयभावे ॥
॥२१६॥कृपा तु सेयं स्थितिरेव तस्य
परस्य सत्यात्मतया हृदन्तः ।
कृपा स्वरूपं हि परस्य तस्य
कृपां विना नास्ति हि तस्य सत्ता ॥
॥२१७॥सदैव जागर्ति कृपा परस्य
कालो न कोऽप्यस्ति यदा न सा स्यात् ।
जीवत्यहन्ता तु नरस्य याव-
दपेक्षते सा पुरुषस्य यत्नम् ॥
॥२१८॥त्यजेन्न कञ्चित् करुणा परस्य
सर्वान् नयेत् सा हि विमुक्तिमेव ।
मुच्यन्त एके त्वचिरेण बन्धा-
दन्ये तु कालेन चिरेण जीवाः ॥
॥२१९॥मन्येत भक्तः स्वयमेव भक्त्या
परं भजामीति न तद्यथार्थम् ।
धावन्तमज्ञं भवकाननेऽस्मिन्
परो हि गृह्णात्यनुधाव्य मुग्धम् ॥
॥२२०॥दयालुरेवं हि पुमान् परोऽसौ
स्वमेव यद्यच्छति भक्तिभाजाम् ।
नाशेऽहमस्तत्कृपया हि साधु-
स्तस्मिन्न भेदेन लभेत निष्ठाम् ॥
॥२२१॥कान्ताचलोऽसौ हि विकृष्य जीवान्
कृत्वाऽचलांस्तानपि भक्षयित्वा ।
स्वस्मिन् पदे नित्यसुखे परस्मिन्
प्रेम्णा सदा रक्षति तुर्यभावे ॥
॥२२२॥यथाऽर्णवोत्थाम्बुदवृष्टिजाता
भूयोऽर्णवं याति नदी स्वयोनिम् ।
भ्रान्त्वा यथा खे सुचिरं च पक्षी
विश्रान्तिमाप्नोत्यवनिं निवृत्य ॥
॥२२३॥एवं परस्मादुदितोऽपि जीवो
भ्रान्त्वा भवेऽस्मिन् सुचिरं कदाचित् ।
यथा प्रवृत्तो विनिवृत्य भूयः
सङ्गच्छते तं पुरुषं स्वयोनिम् ॥
॥२२४॥भक्तिः परस्मिन् द्विविधोऽपदिष्टा
चित्तस्य पुंसः परिपाकभेदात् ।
आदौ तु कीशार्भकरीतिभक्तिः
पश्चाच्चमार्जारकिशोरभक्तिः ॥
॥२२५॥अभ्यस्य कीशार्भकभक्तिमेव
भवेष्वनेकेषु कथञ्चिदन्ते ।
क्षीणे त्वहङ्कारबले नितान्तं
भक्तिं बिडालार्भकवत् करोति ॥
॥२२६॥मार्जारडिम्भोपमभक्तिरेव
प्रपत्तिरप्यात्मनिवेदनं च ।
सेयं विशुद्धा मनसः प्रसादात्
कालेन बोधेन भवेत् समाना ॥
॥२२७॥पुंसः परस्मै स्वनिवेदनं तु
पुंसा भवेत् तेन कृतं यथार्थम् ।
जानाति यः स्वं निजमार्गणेने-
त्युक्ताऽस्ति वाणी भगवत्तमेन ॥
॥२२८॥पृथक्त्वमत्याऽप्यपृथक्त्वमत्याऽ-
प्येवं च भक्तिर्गदिता द्विरूपा ।
असंस्कृतानां प्रथमोपदिष्टा
सुसंस्कृतानामितरा प्रशस्ता ॥
॥२२९॥तमात्मभूतं पृथगेव मत्वा
रूपेऽपि नाम्नाऽपि च तं प्रपूज्य ।
बुद्धिप्रसादात् परमं च धाम
कालेन यात्येव न तत्र शङ्का ॥
॥२३०॥नाम्नाऽपि रूपेण विहीनमीशं
नाम्नाऽपि रूपे भजते नरश्चेत् ।
स नामरूपोद्भवबन्धमुक्तिं
भजेदिति श्रीरमणोपदेशः ॥
॥२३१॥यामेव निष्ठां लभते मुमुक्षु-
र्ध्यानादरूपस्य सतः परस्य ।
लभेत तामेव हि दैवसम्प-
द्युक्तः सरूपं तमुपास्य भक्त्या ॥
॥२३२॥भजेत् तमेकं पुरुषं यथेष्टं
केनापि नाम्ना क्वचनापि रूपे ।
परस्य रूपेषु न तारतम्यं
वीक्षेत धीमान् परिशुद्धचेताः ॥
॥२३३॥एकैव मूर्तिर्बिभिदे त्रिधा सा
सामान्यमेषां प्रथमावरत्वम् ।
एवं स्फुटं मूर्तिभिदामृषात्व-
मूचे कवीन्द्रः किल कालिदासः ॥
॥२३४॥सर्वोत्तमं रूपममुष्य बुद्धः
स्वस्मान्न यस्तं समवैति भिन्नम् ।
परात्मशक्तेः करुणाभिधाया
रूपं द्वितीयं हि गुरुः प्रबुद्धः ॥
॥२३५॥अहं स्वयं बुद्ध इति ब्रवीति
गीतासु कृष्णो भगवान् स्वयं यत् ।
ईशादभिन्नं गणयेत् प्रबुद्धं
शास्त्रोदितं तत्त्वममुष्य जानन् ॥
॥२३६॥अभ्यर्चयेदात्मविदं मुमुक्षु-
रित्यस्ति वाणी श्रुतिमस्तकेषु ।
मन्वीत चेद् भिन्नममुं परस्मात्
सा धीर्मुमुक्षोः प्रतिहन्ति मार्गम् ॥
॥२३७॥देवं त्वनात्मानमुपासते ये
ते सामरस्येन भवन्ति हीनाः ।
चिरेण कालेन मतिप्रसादा-
दपैति केषाञ्चन दोष एषः ॥
॥२३८॥यथा मतं स्वेन परस्य रूपं
रूपं तदेवेक्षितुमीहतेऽसौ ।
कदाचिदीक्षेत च रूपमेवं
वीक्षा त्वनित्येयमतो मृषैव ॥
॥२३९॥स एव साक्षात् पुरुषः परः सन्
स्वतः पृथक् तं गणयन्नबोधात् ।
भक्त्या तदीक्षां यतते च लब्धु-
मितोऽन्यदाश्चर्यतरं किमस्ति ॥
॥२४०॥रूपेक्षणं रूपविवर्जितस्य
कथं भवेत् तस्य यथार्थवीक्षा ।
तस्यात्मनोऽनात्मवदीक्षणं च
सत्येक्षणं तस्य भवेत् कथं नु ॥
॥२४१॥रूपं समस्तं च मनोमयं य-
दन्तर्भवेद् द्रष्टरि दृश्यरूपम् ।
द्रष्टुः स्वरूपं हि गवेषणीयं
तदेव तत्त्वं हि परस्य पुंसः ॥
॥२४२॥द्रष्टुः स्वरूपं य उपेक्ष्य देवं
स्वतोऽन्यवत् पश्यति भक्तियोगात् ।
स वीक्षते मानसरूपमेवे-
त्येषाऽस्ति वाणी भगवत्तमस्य ॥
॥२४३॥द्रष्टुः स्वरूपस्य गवेषणेन
द्रष्टुर्विनाशात् परिशिष्यते यत् ।
तदेकमेव स्वयमात्मरूपं
रूपं च सत्यं परमस्य पुंसः ॥
॥२४४॥जीवाभिधं यत्र मनो निगीर्णं
तेनान्नवद्याति तदात्मभावम् ।
सैवात्मवीक्षाऽपि परस्य वीक्षे-
त्येषा गुरोः श्रीरमणस्य वाणी ॥
॥२४५॥उपासनं स्वात्मतयैव तस्य
श्रुतेर्वचोभिर्विहितं मुमुक्षोः ।
मत्वा स्वतोऽन्यं तमुपासते ये
श्रुतिः पशूंस्तान् बत वक्ति पुंसः ॥
॥२४६॥हित्वाऽऽत्मदेवं भजते स्वतोऽन्यं
य एष हस्तस्थितकौस्तुभं सः ।
अपास्य रत्नं विचिनोति किञ्चि-
दित्येवमूचे भगवान् वसिष्ठः ॥
॥२४७॥वपुष्यहन्तैव हि पापमाद्यं
निरूपितं यद् भगवत्तमेन ।
पापादमुष्मादुदिता परस्य
स्वतोऽन्यताधीरपि पापमेव ॥
॥२४८॥पूर्णत्वमुक्तं श्रुतिभिः परस्य
सत्यं भवत्यात्मतयैव तस्य ।
तत्पूर्णताया बत भङ्ग एव
पृथक्त्वमत्या क्रियते हि मूढैः ॥
॥२४९॥अभेदमत्या रचिता तु भक्ति-
स्तत्पूर्णताङ्गीकरणस्य रीतिः ।
सुभक्तिमेतामतिपावनीं च
ब्रूते मुमुक्षोर्भगवान् गुरुर्नः ॥
॥२५०॥प्रदीपमादाय तमोऽनुधावन्
नरो यथा तद्वदुपासकोऽपि ।
पृथक्त्वयोपास्य परं न याती-
त्येवं च दिष्टं भगवत्तमेन ॥
॥२५१॥भिदाहमन्तारचितां मृषेति
बुद्ध्वा भजत्यात्मतया यदीशम् ।
अतो मुमुक्षोरनयैव भक्त्या
सिद्ध्येदहन्तानिधनं जवेन ॥
॥२५२॥स्वतोऽन्यमीशं बत मन्यते यो
मृषैव तेनात्मसमर्पणं हि ।
मृषैव चोलेषु यथा विवाहे
स्यान्नारिकेलस्य फलस्य दानम् ॥
॥२५३॥अनात्मतायां परमस्य पुंसः
प्रेष्ठेतरत्वं बत तस्य सिद्धम् ।
आत्मैव हि प्रेष्ठ इति प्रसिद्धः
श्रुत्याऽनुभूत्याऽपि हि सर्वजन्तोः ॥
॥२५४॥परं प्रपद्येत विहाय धर्मा-
नारोपितानात्मनि जीवताद्यान् ।
अवोचदेवं भगवान् गुरुर्नो
गीतान्तिमश्लोकनिगूढमर्थम् ॥
॥२५५॥पुंसे परस्मै स्वनिवेदनं यत्
सा भक्तियोगस्य परा हि निष्ठा ।
क्षीणे त्वहङ्कारबले तदेतद्
विशुद्धचित्तेन भवेत् तु साध्यम् ॥
॥२५६॥लघ्वी यथा कान्तशिला महत्या
विभिन्नकोट्याश्रयणात् तथैव ।
जीवोऽल्पको मस्तकपादयोगा-
दैक्यं भजेत् तेन परेण पुंसा ॥
॥२५७॥इष्टं यथा ते भवतात् तथैव
सर्वात्मनाऽहं त्वदधीन एव ।
एवं धिया तिष्ठति यः सदैव
तेनार्पणं स्वस्य भवेद्यथार्थम् ॥
॥२५८॥भूभारवोढा स इति प्रपन्न-
स्तस्मिन् भरं न्यस्य भजेत् प्रशान्तिम् ।
वहन् स्वयं गोपुरधारिबिम्बो
यथा तथा स्यात् परिहासपात्रम् ॥
॥२५९॥याने यथा स्वीयभरं निवेश्य
करोति यात्रामुपविश्य तत्र ।
एवं परस्मिन् स्वभरं निवेश्य
समापयेत् स्वामिह लोकयात्राम् ॥
॥२६०॥यथा निजां देहकुटुम्बचिन्तां
त्यजेद्भरं न्यस्य बुधः परस्मिन् ।
त्यजेत्तथा लोकहितार्थचिन्तां
तस्मिन् समस्तं च भरं निवेश्य ॥
॥२६१॥अनिष्टमिष्टं च सुखं च दुःखं
कालोपनीतं सहमान एव ।
शोकं मुदं चाप्यभजन् सुभक्तः
कालं नयेत् तत्परवाधियैव ॥
॥२६२॥यदा निगीर्णा कृपया परस्य
नश्येदहन्ता सहजात्मभावे ।
निवेदनं स्वस्य तदा परस्मै
सत्यं च पूर्णं च भवेद्धि साधोः ॥
॥२६३॥गणेशमूर्तेर्गुडनिर्मितस्य
यथाऽंशमादाय निवेदनं स्यात् ।
तथा परस्मै स्वनिवेदनं स्यात्
स्वो नाम तस्मान्न हि कश्चिदन्यः ॥
॥२६४॥आत्मा स्वयं यत् परमः स एव
निवेदनं केन कथं च कस्मै ।
येनाहमा भेदमवैति तस्मात्
तन्नाश एवात्मनिवेदनं हि ॥
॥२६५॥पुंसे परस्मै यदि दित्ससि स्व-
मन्विष्य पूर्वं स्वमवेहि साक्षात् ।
एवं स्वदानं कृतमेव तस्मा
इत्यस्ति वाणी भगवत्तमस्य ॥
॥२६६॥अहङ्कृतेरेव नितान्तहानं
नमस्कृतेस्तत्त्वमुदीर्यते च ।
ज्ञानं प्रपत्तिश्च नमस्कृतिश्चे-
त्येतत् त्रयं तत्त्वत एकमेव ॥
॥२६७॥यथा न वीक्षाविषयः परात्मा
बोधस्य तद्वद्विषयो न सोऽयम् ।
अगोचरत्वान्मनसः परस्य
विद्यान्मनस्तं ह्ययथावदेव ॥
॥२६८॥चिद्रूप आत्मैव हि सन् परो य-
न्नैवास्ति चित् काचन तद्विभिन्ना ।
ज्ञाता न तस्यास्ति हि कश्चिदन्यो
ज्ञानस्य नासौ विषयो हि तस्मात् ॥
॥२६९॥चैतन्यदीप्तिर्मनसो भवेद्या
तस्या निदानं स हि सत्य आत्मा ।
अतो विभिन्नं भविता न तस्मात्
किञ्चिन्मनोनामकमत्र सत्यम् ॥
॥२७०॥चैतन्यमात्माकृतिकं हृदन्त-
र्भासा स्वया भास्करवद्विभाति ।
भासाऽऽत्मनस्तस्य शशाङ्कवत्तु
जडं मनश्चेतनवद्विभाति ॥
॥२७१॥चितिस्वभावं न मनोऽस्ति यस्मात्
ततो मनो याति लयं सुषुप्तौ ।
चितिस्वभावः खलु सत्य आत्मा
न यात्यसौ तेन लयं कदाऽपि ॥
॥२७२॥निमीलयत्येव मनो हि नित्यं
स्वप्नेऽपि जाग्रत्यपि तत्स्वरूपम् ।
लीनं सुषुप्तौ च मृतं तुरीये
मनो विबुध्येत कथं तमेकम् ॥
॥२७३॥स्वमूलमन्विष्य मनः परस्मिन्
यात्येकतां यत् सहजात्मभावे ।
स एव सत्यः परमस्य बोध
इत्यस्ति वाणी भगवत्तमस्य ॥
॥२७४॥भिन्नौ भवेतां न हि तत्त्वदृष्ट्या
जीवेश्वरौ द्वाविति निश्चयेन ।
भक्त्याऽथवा स्वात्मगवेषयोगात्
तस्मिन्नभेदेन लभेत निष्ठाम् ॥
॥२७५॥ज्ञानाज्ञते भिन्नपदेऽज्ञते द्वे
सांसारिके स्वाज्ञजनानुभूते ।
द्वाभ्यां विमुक्तो भवति प्रबुद्धो
द्वन्द्वं मृषेदं खलु यद्वदन्यत् ॥
॥२७६॥उभेऽपि चैते भवतः सहैव
नैकं विनाऽन्येन भवेत् कदाऽपि ।
स्वाज्ञानमूलं द्वयमित्यतश्चा-
प्यज्ञानमेव द्वितयं समानम् ॥
॥२७७॥ज्ञातृस्वरूपावगतिं विनैव
ज्ञातुं स्वतोऽन्यद्यतते हि सर्वः ।
अज्ञानजं ज्ञानमिदं हि तस्मा-
दज्ञानमेवेति गुरूपदेशः ॥
॥२७८॥ज्ञाताऽहमस्मीत्युदियाद्य एष
तदीयतत्त्वावगतिं विनैव ।
यद्यद्विजानाति धियेन्द्रियैर्वा
तत्तद्विजानात्ययथावदेव ॥
॥२७९॥अविद्यमानं बत विश्वमेतत्
सद्वद्विजानाति हि बोधहीनः ।
अलौकिकं चापि निजं स्वरूपं
जानाति लोके बत जीवभूतम् ॥
॥२८०॥धीरिन्द्रियाण्यप्यपि मानसं च
भवन्त्यविद्यापरिचारकाणि ।
अतः प्रमाणानि हि लौकिकानि
सम्मोहनायैव भवन्ति जन्तोः ॥
॥२८१॥ज्ञाताज्ञते द्वे भवतोऽनुभूते
येनाहमा तस्य कुतो नु जन्म ।
इति स्वतत्त्वस्य गवेषणेन
नष्टेऽहमाख्ये द्वितयं च नश्येत् ॥
॥२८२॥ज्ञानं यथार्थं त्वहमो विनाशो
निजस्वरूपे सहजा स्थितिर्हि ।
शिष्टे न तस्यां भवतोऽज्ञते द्वे
सांसारिके द्वैतविवर्जितायाम् ॥
॥२८३॥तां ज्ञाननिष्ठां निगदन्ति बुद्धा
ज्ञानाज्ञते द्वे भवतो न यस्याम् ।
निष्ठा परा सा विदुषो हि यस्यां
नास्ति स्वतोऽन्यच्चिदचित्स्वरूपम् ॥
॥२८४॥अपण्डितः पण्डित आत्मविच्च
त्रयोऽपि चाज्ञा हि समानमेव ।
अज्ञस्तृतीयोऽपि यतो न तस्य
स्वस्मात् पृथक्किञ्चन वेद्यमस्ति ॥
॥२८५॥निष्ठां गतोऽसौ निजधाम्नि सत्ये
वन्द्यः समस्तैर्मनुजैः सुरैश्च ।
पुंसः परस्मादपृथक्तयाऽसौ
मुमुक्षुपुंसां भजनीय एव ॥
॥२८६॥अज्ञानमन्तं भजतां तुरीये
नश्येत् कुतो ज्ञानमुतेति केचित् ।
पृच्छन्त्यबोधात्मकतामबुद्ध्वा
ज्ञानाभिधस्यास्य हि लौकिकस्य ॥
॥२८७॥नैवास्ति बोध्यं न च कोऽपि बोद्धा
न चास्ति बोधोऽपि तुरीयभावे ।
द्वन्द्वानि यद्वन्न भवन्ति तुर्ये
तथा त्रिपुट्योऽपि न तत्र सन्ति ॥
॥२८८॥एकः स आत्मैव हि तुर्यभावे
ज्ञानाज्ञताभ्यां रहितश्चकास्ति ।
ज्ञानस्वरूपः स्वयमव्ययो य-
च्छून्यं कथं तत् परमं पदं स्यात् ॥
॥२८९॥चैतन्यभासा निजयैव तस्मिन्
भात्यात्मरूपं शिवमद्वितीयम् ।
न भासकं तस्य न तेन भास्यं
सत्यं किमप्यस्ति तुरीयभावे ॥
॥२९०॥नोदेति नाप्यस्तमुदेति तस्य
चैतन्यदीप्तिः सततैकरूपा ।
आदाय तस्यैव चिदंशलेशं
प्रतीयते चेतनवन्मनो हि ॥
॥२९१॥मत्वाऽऽत्मनाशस्य पदं तुरीयं
बिभ्यत्यमुष्मादविवेकिनो ये ।
वाञ्छन्ति ते नित्यसुखाय गन्तुं
लोकान्तरं दिव्यमबुद्धशिष्याः ॥
॥२९२॥लोको यथाऽयं भविता मृषैव
तथैव लोका अनृताः परे च ।
आत्मैव लोकः खलु बुद्धपुंसः
स एव तस्माद् गदितः स्वयं सन् ॥
॥२९३॥किं नो धनेन प्रजयाऽपि येषां
आत्मैव लोको भवतीति बुद्धाः ।
नापि प्रवृत्तिं न च वा निवृत्तिं
वाञ्छन्ति संशान्तसमस्तकामाः ॥
॥२९४॥एकः स बोधात्मक एव सत्यो
बोधः प्रपञ्चाकृतिरज्ञतैव ।
बोधात् प्रपञ्चाकृतिकात् प्रपञ्चो
भिन्नो यतो नास्त्यत एव मिथ्या ॥
॥२९५॥अज्ञानमेतत् तमसा समानं
न शक्यमस्तीति तु वक्तुमेतत् ।
तमो न यद्वत् सहते प्रकाश-
मज्ञानमेवं सहते न बोधम् ॥
॥२९६॥प्रतीयतेऽज्ञानमिदं परस्मिन्
प्रपञ्चरूपं सदिवाज्ञमर्त्यैः ।
सत्ये सुवर्णे रुचकान्यसन्ति
सद्वत् प्रतीतानि यथा भवन्ति ॥
॥२९७॥सत्यं सुवर्णं रुचकान्यसन्ती-
त्येतत् कथं स्यादिति चेद् गुरोर्नः ।
दार्ष्टान्तिकं विश्वमिदं मृषेति
सन्दर्शनायात्र पदप्रयोगः ॥
॥२९८॥दार्ष्टान्तिकस्य स्फुटबोधनाय
सर्वोऽपि दृष्टान्त उदीर्यते यत् ।
विवक्षितार्थावगतिर्यथा स्यात्
तथैव दृष्टान्तनिवेदनानि ॥
॥२९९॥सुवर्णमासन् रुचकानि पूर्वं
तदेव मध्येऽपि तदेव चान्ते ।
सत्यं सुवर्णं रुचकान्यपेक्ष्य
विनश्वरत्वाद्रुचकानि मिथ्या ॥
॥३००॥अनित्यतैवात्र मृषात्वलिङ्गं
सत्यत्वमुक्तं खलु नित्यतैव ।
अतोऽज्ञता तज्जमिदं च विश्वं
रज्ज्वामहिर्यद्वदसत्यमेव ॥
॥३०१॥पटे प्रकाशेन युते यथा वा
मृषैव चित्राण्यचले चलन्ति ।
तद्वज्जगच्चित्रततिश्च सेय-
मायाति संयाति मृषैव सत्ये ॥
॥३०२॥द्रष्टा चलच्चित्रततेर्विभिन्नो
द्रष्टा जगच्चित्रततावभिन्नः ।
विशेष एवं जगतोऽस्ति यस्मात्
सद्रष्टृकस्यास्य मृषात्वसिद्धिः ॥
॥३०३॥यथा चलच्चित्रततेर्विरामे
पटप्रकाशोऽस्ति विशुद्ध एवम् ।
मृषा जगच्चित्रततेर्विरामे
शिष्येत शुद्धा चितिरात्मरूपा ॥
॥३०४॥प्रतिक्षणं नूतनमेव चित्रं
वीक्ष्यापि सर्वं मनुते यथैकम् ।
तथैकमज्ञो मनुते हि वीक्ष्य
प्रतिक्षणं नूतनमेव विश्वम् ॥
॥३०५॥आधारवस्त्रेऽपि तदीयभासा
यथा चलच्चित्रततिर्विभाति ।
एवं प्रपञ्चोऽपि सदात्मरूपे
तदीयसंवित्प्रभयैव भाति ॥
॥३०६॥आत्मा स्वतः सन्नत एव हेतो-
र्नैव स्वतः सत्यमिदं हि विश्वम् ।
विज्ञेयमेवं जगतो मृषात्वं
सत्ताऽऽत्मनश्चापि चिदात्मकस्य ॥
॥३०७॥देशेन कालेन विभक्तमेव
स्वप्ने मनो जागरिते समानम् ।
अवैति देहादिसमस्तदृश्य-
मतो विचार्याऽस्त्यनयोश्च सत्ता ॥
॥३०८॥त्रयं मनोमात्रमिदं प्रदिष्टं
देशोऽपि कालोऽपि निमित्तयोगः ।
पाश्चात्यदेशीयविपश्चिताऽस्ति
कान्ताभिधानेन सुयुक्तिवादैः ॥
॥३०९॥सर्वानुभूत्याऽपि सुषुप्तिभावे
बुद्धानुभूत्याऽपि तुरीयभावे ।
मृषात्वमेतत् प्रकटीकरोति
स्फुटं मुमुक्षोर्भगवान् गुरुर्नः ॥
॥३१०॥सुषुप्तिभावे मनसि प्रलीने
तुरीयभावे मनसि प्रणष्टे ।
न कोऽपि जानाति हि देशकालौ
मनोमयं तद्द्वितयं हि तस्मात् ॥
॥३११॥मनः सविश्वं सृजति द्वयं च
स्वप्ने यथा जागरिते तथैव ।
ताभ्यां विना वेत्ति मनो न किञ्चि-
देष स्वभावो मनसो हि नित्यः ॥
॥३१२॥देहोऽहमित्यज्ञतयैव मर्त्यो
देशेऽपि कालेऽस्म्यहमित्यवैति ।
देशे भवामो न हि नापि काले
देहा वयं चेदुभयोर्भवेम ॥
॥३१३॥देहा वयं नो न च देहिनो वा
जीवा वयं नैव कदाऽप्यभूम ।
अस्मासु तौ द्वौ मनसोपक्लृप्तौ
ह्यविद्यया यद्वदिदं समस्तम् ॥
॥३१४॥मनोऽहमो जन्मभुवं विमृग्य
लभेत शान्तिं यदि तुर्यभावे ।
तदा निगीर्येत सदात्मनैव
सहाहमा तद्द्वितयं सविश्वम् ॥
॥३१५॥मायामयं कारणकार्यरूपं
सदेशकालं बत विश्वमेतत् ।
न विक्रियामेति कदाचिदात्मा
देशेन कालेन निमित्ततो वा ॥
॥३१६॥सदैकधैवाच्युत एक आत्मा
कालातिगो देशविवर्जितश्च ।
पूर्णः प्रबुद्धैरनुभूयते यत्
स एव सत्यो न तु किञ्चिदन्यत् ॥
॥३१७॥भूतोऽपि भावी च भवन्नितीमे
कालस्य भेदा अपि नैव सत्याः ।
भूतोऽपि भावी भवदाश्रयौ च
भवन् स्वकाले भवतो ह्युभौ च ॥
॥३१८॥अतो भवन्नेव समस्तकालो
वाचैव कुर्वन्ति विभागमेवम् ।
आत्मस्वरूपं खलु नित्यसत्य-
मतो भवन्नाम तदेव नान्यत् ॥
॥३१९॥इच्छेदतस्तत्त्वममुष्य बोद्धुं
तुरीयभावाधिगमेन साधुः ।
चर्चेह भूतस्य च भाविनोऽपि
विनैकसङ्ख्यां गणनेति दिष्टा ॥
॥३२०॥अस्त्येकसङ्ख्यैव न काचिदन्या
सङ्ख्याः समस्ताश्च तदात्मिका हि ,
अस्त्येवमात्माकृतिका चिदेव
तदात्मकं सर्वमिदं च विश्वम् ॥
॥३२१॥यथैकसङ्ख्यामवगम्य सम्यक्
सङ्ख्यां समस्तामवगन्तुमीष्टे ।
ज्ञात्वैवमेकं निजतत्त्वमेव
जानन्ति बुद्धा जगतोऽपि तत्त्वम् ॥
॥३२२॥बोधः स्वतोऽन्यस्य विना स्वबोध-
मबोध एवेति गुरुर्ब्रवीति ।
स्वस्मिन्नबुद्धे सति वेत्ति यद्यत्
तत्तद्विजानात्ययथावदेव ॥
॥३२३॥स्वस्मिन् विबुद्धे निजमार्गणेन
बोद्धुं स्वतोऽन्यन्न हि किञ्चिदस्ति ।
बुद्धस्य भात्यात्मतयैव सर्व-
मात्मा ततः सर्व इति प्रसिद्धः ॥
॥३२४॥सत्यात्मभावे स्थितिमेव तस्मात्
सर्वज्ञतां श्रीरमणो ब्रवीति ।
सर्वज्ञतां यां गणयन्त्यबुद्धाः
सैषाज्ञतैवेत्यपि वक्ति सोऽयम् ॥
॥३२५॥नेदं शरीरात् पृथगस्ति विश्वं
नेदं शरीरं मनसोऽस्ति भिन्नम् ।
सत्यात्मनो नास्ति मनो विभिन्न-
मात्मैव तस्मादखिलं च विश्वम् ॥
॥३२६॥अहं पुरा जन्मनि कीदृगास-
मितः परं चापि कथं भवेयम् ।
ईदृग्विचारा बत मुग्धतैव
न जन्म लेभे हि कदाचिदात्मा ॥
॥३२७॥व्यष्टेः समष्टेरपि चिन्तनानि
निरर्थकान्येव मुमुक्षुपुंसाम् ।
चिन्ताः समस्ताः प्रभवन्ति यस्य
तन्मूलचिन्तैव हि मुक्तिदात्री ॥
॥३२८॥प्रश्नाः क्रियन्तेऽत्र मुधैव मर्त्यैः
सृष्टं जगत् केन कथं च पूर्वम् ।
का नाम माया कथमाऽप्यविद्या
कथं न्वभूज्जीव इति प्रमादात् ॥
॥३२९॥दृष्टेर्न सृष्टिः पृथगस्ति काचिद्
दृष्टिश्च सृष्टिर्द्वयमेकमेव ।
सा दृष्टिरज्ञानमयीति हेतो-
स्तस्याः प्रहाणं निधनं हि सत्यम् ॥
॥३३०॥मायाभिधाना परशक्तिरेव
मनस्सु बुद्धीन्द्रियबोधरूपम् ।
विचित्रमेतं सृजति प्रपञ्चं
स सत्यवद् गृह्यत एव मुग्धैः ॥
॥३३१॥सद्वद्विचारेण मृषात्मकस्य
सत्यात् प्रमादो भविता ध्रुवं हि ।
न च प्रमादादपरोऽस्ति मृत्युः
स्वो नष्टकल्पोऽस्ति हि तेन साधोः ॥
॥३३२॥अस्मिन्नवेदीद्यदि जन्मनि स्वं
तदैव सत्यं पुरुषस्य सत्यम् ।
न चेदवेदीदिह जन्मनि स्वं
तस्यावृतं स्यादनृतेन सत्यम् ॥
॥३३३॥तद्देशकालवनृतौ विदित्वा
विहाय विश्वं च समस्तमेव ।
इच्छेदधिष्ठानसदेव बोद्धुं
स्वात्मस्वरूपं निजमार्गणेन ॥
॥३३४॥कर्ताऽस्म्यहं कर्मफलस्य भोक्ते-
त्येवं नरो यो मनुते स एव ।
धीदैवयोर्भेदमवैति सत्यं
कर्ताऽपि भोक्ता न तु सत्य आत्मा ॥
॥३३५॥इष्टं यदा कर्मफलं तदानीं
बलीयसीं बुद्धिमवैति दैवात् ।
यद्यन्यथा कर्मफलं भवेत्तु
दैवं बलीयो मनुते तदानीम् ॥
॥३३६॥दैवं भवेत् पूर्वकृतं हि कर्म
धिया कृतं कर्म समस्तमेव ।
धीदैवयोर्द्वन्द्वमतो मृषैव
तयोर्विरोधः कथमस्तु सत्यः ॥
॥३३७॥धीदैवयोर्मूलमहङ्कृतिर्यत्
स्वान्वेषणात् सा यदि नाशमीयात् ।
धीदैवयोर्द्वन्द्वमिदं विनश्ये-
न्न वेत्ति धीदैवभिदं प्रबुद्धः ॥
॥३३८॥बुद्धोऽमनस्को गलिताभिमानः
सङ्कल्पशून्योऽपि भवेन्न कर्ता ।
भोक्ताऽपि नासौ भविता कदाऽपि
न वेत्ति धीदैवभिदामतोऽसौ ॥
॥३३९॥स्वोऽबुद्धमर्त्यस्य च नित्यबुद्धो
न सज्जते कर्मसु नैति मोहम् ।
तत्सन्निधानेन तु लब्धसञ्ज्ञा
प्रवर्तते धीः स्वगुणानुरूपम् ॥ ३४० ,,
चिन्तामतो दैवधियोर्विहाय
सांसारिकीं चापि समस्तचिन्ताम् ।
ब्रह्मात्मकं केवलमात्मतत्त्वं
यतेत बोद्धुं निजमार्गणेन ॥
॥३४१॥जीवाभिधानो जगदीक्षको य-
स्तस्मिन्निगूढं जगतोऽस्य तत्त्वम् ।
उदेत्ययं चेदुदियाच्च विश्वं
लीयेत विश्वं लयमेत्ययं चेत् ॥
॥३४२॥तत्तत्त्वमस्यैव निजानुभूत्या
जानन् प्रबुद्धः समवैति विश्वम् ।
अन्ये तु देहात्मधियाऽभिभूता
विश्वं विजानन्त्ययथावदेव ॥
॥३४३॥जीवोऽज्ञतायाः प्रथमं स्वरूपं
जीवोऽङ्कुरः संसृतिदुर्द्रुमस्य ।
विभूतिरस्यैव जगत् समस्तं
नाशोऽन्ततश्चास्य विमुक्ति भावः ॥
॥३४४॥तमेनमर्थं सुगतो गुरुश्चा-
प्यूचे तथा शङ्करदेशिकेन्द्रः ।
ब्रूतेऽपि चास्मद्गुरुरर्थमेनं
वेदान्तसारोऽप्ययमर्थ एव ॥
॥३४५॥विश्वं स्वदृश्यं न विना कदाऽपि
द्रष्टाऽस्य जीवो भवति प्रतीतः ।
जीवो न कोऽप्यस्ति सुषुप्तिभावे
मनोमनोऽयं हि यथाऽस्य दृश्यम् ॥
॥३४६॥सहैव देहेन भवेत् प्रतीतो
जीवाभिधोऽयं खलु सर्वदाऽपि ।
मृतौ च देहस्य न पूर्वदेहं
जहात्यनादाय हि देहमन्यम् ॥ ३४७ ।
जीवोऽयमेवं वपुषोऽपृथक्त्वा-
दन्तर्भवत्येव जगत्स्वरूपे ।
नित्यत्वमस्यैव तु कल्पयन्ति
शिष्या अबुद्धस्य गुरोरबुद्धाः ॥
॥३४८॥विना विचारं बत जीवमेनं
देहीति चात्मेत्यपि मन्यमानाः ।
संसारिताद्यानपि चास्य धर्मा-
नारोपयन्त्यात्मनि नित्यमुक्ते ॥
॥३४९॥अतो मतानि प्रभवन्ति नाना
सत्यात्मनः सर्वमतातिगस्य ।
बद्धं तमेनं बत मन्यमाना-
श्चरन्त्यनेकानपि योगमार्गान् ॥
॥३५०॥कर्तृत्वभोक्तृत्वशरीरिताद्याः
संसारिता चाप्युत जीवधर्माः ।
धर्मा न ते शुद्धचिदात्मकस्य
सत्यात्मनः सङ्गविवर्जितस्य ॥
॥३५१॥स्वं जीवभूतं बत मन्यते यो
देहात्मभावो न हि तस्य नष्टः ।
बोधात्मतां स्वस्य न बुध्यते य-
स्तस्यानिवार्यो वपुरात्मभावः ॥
॥३५२॥आत्मा सुषुप्तो च सुखस्वरूपो
लोकैः समस्तैरनुभूयते यत् ।
देहात् पृथक् स्वो भवतीति बोद्धुं
शक्नोति धीमान् खलु सूक्ष्मबुद्ध्या ॥
॥३५३॥नाङ्गीकरोति ह्यत एव धीमान्
देहात्मतां स्वस्य विचारणायाम् ।
तथाऽप्यविज्ञातनिजस्वरूपो
भूयोऽपि देहात्ममतिं करोति ॥
॥३५४॥यावन्न जीवत्वमतिव्यपैति
देहात्मधीर्नैव विनाशमीयात् ।
नश्येत्तु सा तुर्यपदस्व लाभा-
द्यत्रानुभूयेत परं स्वतत्त्वम् ॥
॥३५५॥जानाति यः स्वं परमद्वितीयं
तुरीयभावे स्थितिमेत्य नित्याम् ।
न तस्य जीवोऽहमिति प्रतीतिः
स एव देहात्मधिया विमुक्तः ॥
॥३५६॥देहात्मभावं मन आत्मभावं
जीवात्मभावं च मृषेति बुद्ध्वा ।
बोधात्मतां स्वामवगन्तुमिच्छन्
यतेत साधू रमणोक्तरीत्या ॥
॥३५७॥विचार्यमाणे सति जीवतत्त्वे
बुद्धोपदेशैः परिशुद्धबुद्ध्या ।
आविद्यकोऽयं बत जीवनामा
न तत्त्वतोऽस्तीति सुबोधमेव ॥
॥३५८॥मन्यन्त आत्मद्वितयं च केचिद्
भेदेन जीवात्मपरात्मनश्च ।
जीवस्य चात्मेति परं वदन्ति
जीवः शरीरं परमस्य चेति ॥
॥३५९॥जीवात्मतैवं चलमध्रुवं य-
दात्मा यथार्थः पर एव नान्यः ।
जीवाभिधोऽसन् पर एव सत्य
इत्युच्यतेऽस्मद्गुरुणा स्फुटं च ॥
॥३६०॥मृषात्ववाची खलु जीवशब्दः
सत्यत्ववाची परशब्द एव ।
जीवो मृषेत्येवमवेत्य साधु-
र्जीवात्मभावं प्रयतेत हातुम् ॥
॥३६१॥जैवेन रूपेण तमेव देहे-
ष्वनुप्रविष्टं श्रुतयो वदन्ति ।
अतो न जीवोऽस्ति पृथक् परस्मा-
दित्येवमर्थो भवति स्फुटं नः ॥
॥३६२॥उदेति जीवो न विलीयते च
सत्यात्मनो नैव लयोदयौ स्तः ।
जीवा अनेके च स एक एव
सत्येवमात्मा कथमस्तु जीवः ॥
॥३६३॥विशुद्धचिन्मात्रतया स्वतः सन्
न लीयते स्वो हि सुषुप्तिभावे ।
असन् स्वतोऽज्ञानसमुत्थितोऽयं
प्रयाति जीवस्तु लयं सुषुप्तौ ॥
॥३६४॥सुषुप्तिभावे सुखरूपको यो
लोकैः समस्तैरनुभूयते च ।
तुरीयभावे परिशिष्यते च
शुद्धोऽद्वयः सन् स हि सत्य आत्मा ॥
॥३६५॥सुषुप्तिभावेऽप्यहमि प्रलीने
तुरीयभावेऽप्यहमि प्रणष्टे ।
विभात्यविच्छिन्नतयेत्यसौ स्वो
निगद्यतेऽहम्पदलक्षितार्थः ॥
॥३६६॥ब्रह्मात्मकोऽसावहमित्यजस्रं
स्वयं विभात्यात्मतया हृदन्तः ।
वपुर्मितं जीवमिमं तु तस्मिन्
पूर्णे परेऽध्यस्यति हन्त मोहात् ॥
॥३६७॥अस्मीति बोधं न रुणद्ध्यविद्या
बोधोऽहमस्मीति तु बोधमेव ।
जानाति सर्वोऽपि हि नैजसत्तां
जानाति न स्वं निरुपाधिकं तत् ॥
॥३६८॥नाहन्तयोदेति चिदात्मकः स्वो
जडो न देहोऽहमिति ब्रवीति ।
मध्ये तयोः कश्चिदुदेत्यबोधे
वपुः प्रमाणस्त्वहमित्यसत्यः ॥
॥३६९॥अहंस्वरूपा चितिरात्मनो या
जडं वपुश्चेत्युभयोश्च योगात् ।
उदेति देहोऽहमिति प्रतीतिः
प्रतीतिरेषैव हि जीवरूपम् ॥
॥३७०॥देहात्मनोरेकतयाऽवगत्या
प्रतीयते सत्यवदेष यस्मात् ।
तच्चिज्जडग्रन्थिरिति प्रथाऽस्य
भवत्यविद्यापरिकल्पितस्य ॥
॥३७१॥जडेन देहेन कदाऽपि सङ्गः
सत्यात्मनो नास्ति यथार्थतस्तु ।
नैवोदभूत् कश्चन जीवनामा
नैवाप जीवत्वमसौ च पूर्णः ॥
॥३७२॥स्वयम्प्रकाशं निरपेक्षमेकं
चैतन्यमात्माकृतिकं हि सत्यम् ।
चैतन्यमन्यन्न हि किञ्चि-
दस्तीत्यचित्स्वरूपः खलु जीव एषः ॥
॥३७३॥प्रतीयते चेतनवत्तु जीव
आत्मस्वरूपस्य चिदंशयोगात् ।
अतो हि वेदान्तिन आहुरेनं
जीवं चिदाभासमसत्स्वरूपम् ॥
॥३७४॥स्वयं समागत्य यथा विवाहे
वदन् वरस्यास्मि सखेति मिथ्या ।
वधूगृहिभ्यो लभते सपर्यां
जीवोऽयमङ्गीक्रियते तयाऽज्ञैः ॥
॥३७५॥कोऽयं कुतो वेति विचार्यमाणो
वधूगृहिभ्यः स्वयमेष धावेत् ।
धावेत् तथैव स्वयमेष जीवः
कोऽयं कुतो वेति विचार्यमाणः ॥
॥३७६॥न रूपमस्यास्ति यथार्थतो यत्
पिशाचवद् देहगृहे स्थितस्य ।
तद् देहरक्षार्थमयं नियुक्तः
पिशाच एवेति गुरुर्ब्रवीति ॥
॥३७७॥न शिष्यते किञ्चन रूपमस्य
तुरीयभावाधिगमे गवेषात् ।
एवं प्रबुद्धो भगवान् गुरुर्नो
मृषात्वमस्य प्रकटीकरोति ॥
॥३७८॥आद्या मनोवृत्तिरियं ह्यहन्धी-
रतोऽन्यधीवृत्तय उद्भवन्ति ।
अतो मनः सूक्ष्मवपुः प्रपञ्चो
भवोऽपि बन्धोऽप्यमेव नान्यत् ॥
॥३७९॥बन्धोऽपि बद्धोऽप्ययमेक एव
बद्धोऽस्ति नास्मादितरोऽत्र कश्चित् ।
स्वो नित्यमुक्तप्रकृतिर्हि सत्यः
स बन्धमापेति कथं नु वाच्यम् ॥
॥३८०॥अस्मिन्नहन्नामनि जातमात्रे
सञ्जायते विश्वमिदं सहैव ।
अस्मिन् विलीने लयमेति विश्वं
तद्विश्वमस्यैव हि रूपमुक्तम् ॥
॥३८१॥नित्यापरोक्षोऽपि सदैव पुंस
आत्मा महान् प्रेष्ठ उरुप्रकाशः ।
दुरात्मनाऽहङ्कृतिरूपकेण
हृतप्रभो यद्वदलं न भाति ॥
॥३८२॥आच्छादयत्येष मृषात्मकोऽपि
सत्यात्मरूपं खलु जीवनामा ।
अतोऽज्ञपुंसा बहुभिर्विकल्पै-
र्विकल्पितः स्वोऽस्ति हि नष्टकल्पः ॥
॥३८३॥भानुप्रभासञ्जनिताभ्रपङ्क्ति-
स्तिरोदधात्येव हि भानुरूपम् ।
तिरोदधात्येव तथाऽऽत्मरूपं
तस्यैव संवित्प्रभयोदितोऽयम् ॥
॥३८४॥किं तेन चोरेण कृतं न पाप-
मात्मापहर्त्रेत्यपि वेदवाणी ।
निन्दत्यहन्धीमुषितात्मतत्त्वं
पापेन तेनैव च दूयमानम् ॥
॥३८५॥यदादिमं पापमूदीरयन्ति
क्रीस्तानुगा मृत्युकरं नराणाम् ।
कर्माद्यपुंसो न हि तत् परं तु
वपुष्यहन्तेति गुरुर्ब्रवीति ॥
॥३८६॥इदं नरस्यैव हि पापमुक्तं
न ह्यस्ति पुंसां नरता सुषुप्तौ ।
देहात्ममत्यैव नरत्वधीर्यत्
देहात्मधीरेव हि पापमाद्यम् ॥
॥३८७॥नष्टिः समस्ताऽप्यगुणः समस्तो
दुःखं समस्तं च वपुष्यहन्धीः ।
लाभः समस्तोऽपि गुणः समस्तः
सुखं समस्तं च तदीयनाशः ॥
॥३८८॥आत्माऽज्ञपुंसोऽप्यहमा विनष्टो
लब्ध्वाऽपि सर्वं कृपणो हि सोऽयम् ।
स्वमेव लब्ध्वा त्वहमो विनाशा-
ल्लब्धव्यमन्यन्न हि वीक्षते ज्ञः ॥
॥३८९॥सत्यं शरीरं बत मन्यमाना
आत्मेति मत्वाऽप्युत जीवमेव ।
वेदान्तवाक्यानयथावदेव
बुद्ध्वाऽऽत्मनानात्वमुदीरयन्ति ॥
॥३९०॥यद्येक आत्मा द्विविधोऽस्ति दोष
एकस्य मुक्तौ सकलस्य मुक्तिः ।
मुच्येत नो कोऽप्यथवेति मुग्धा
मुधा वदन्त्यश्रुततुर्यतत्त्वाः ॥
॥३९१॥जीवा भवेऽस्मिन् बहवो भवन्तु
सत्यात्मनो नैव बहुत्वमिष्टम् ।
नाना मृषैवाप्युत जीवरूप-
मेकं च सत्यं शिवमात्मरूपम् ॥
॥३९२॥अंशां न सत्या हि चितः परस्य
अविद्ययाऽंशाः परिकल्पिता हि ।
पदे तुरीये विदुषो विभाति
पूर्णाऽविभक्ता च निरंशका सा ॥
॥३९३॥चिदेकका सर्वगता समा च
तस्या विभागो विषमोऽज्ञतैव ।
देशो न सत्यो ह्यत एव तस्याः
समो विभागोऽपि च नास्ति सत्यः ॥
॥३९४॥विस्पष्टमेवं गुरुणोपदिष्टा
चितः परस्या अविभक्ततैव ।
मुह्यन्त्वबुद्धस्य गुरोस्तु शिष्या
अस्माकमत्रास्तु कथं नु मोहः ॥
॥३९५॥सिद्धे मृषात्वे सति जीवनाम्न-
श्चिन्त्ये कथं बन्धविमोचनेऽस्य ।
न बन्धमुक्ती भवतोऽच्युतस्य
पूर्णस्य सत्यात्मन एककस्य ॥
॥३९६॥देहस्य दिक्कालमितस्य चास्य
तयोरतीतस्य चिदात्मनश्च ।
परस्पराध्यासकृताविवेकात्
प्रतीयते सत्यवदेष जीवः ॥
॥३९७॥क्वचिच्छरीरेऽहमिति प्रतीत्या
तत्सत्यमेवेत्यपि निश्चयेन ।
पश्यन्ननेकानि वपूंशि सद्व-
ज्जीवान् पृथक् पश्यति तत्र तत्र ॥
॥३९८॥एकः शरीरेष्वनृतेषु सत्यो
विभक्तवद्भात्यविभक्त आत्मा ।
पूर्णं तमात्मानमरूपमज्ञो
मत्वा सरूपं समवैत्यनेकम् ॥
॥३९९॥प्रतिक्षणं नूतनमेव चित्रं
पश्यन् यथैकं मनुते तथैव ।
प्रतिक्षणं वीक्ष्य नवं शरीरं
तत्सर्वमेकं मनुतेऽज्ञमर्त्यः ॥
॥४००॥एवं सदा नूतन एव देहे
जीवं नवं कल्पयतेऽस्य चित्तम् ।
अतो हि बुद्धा निगदन्ति जीवं
तमेनमेव क्षणिकं च मिथ्या ॥
॥४०१॥देहोऽहमित्युत्तमपूरुषं च
देहान्तरे मध्यमपूरुषं च ।
अन्यत्र देहे प्रथमं पुमांसं
पश्यत्यविज्ञातनिजस्वरूपः ॥
॥४०२॥भिन्नास्त्रिधैवं पुरुषा न सत्या
देहोऽहमित्यज्ञतया प्रतीताः ।
नष्टेऽहमि स्वात्मगवेषणेन
चिद्रूप आत्मैकक एव भायात् ॥
॥४०३॥प्रत्येति यः स्वं बत जीवभूतं
जीवा अनेके विलसन्ति तस्य ।
एवंविधा ज्ञानविवर्जितस्य
भायान्न बुद्धस्य तु कोऽपि जीवः ॥
॥४०४॥स्त्रियः पुमांसो बहवश्चरन्ति
पटप्रकाशे खलु चित्रमात्राः ।
एवं चरन्त्यात्मनि चित्स्वरूपे
जीवा अनेके बत चित्तमात्राः ॥
॥४०५॥पटप्रकाशोपममात्मतत्त्वं
चित्रोपमा एव भवन्ति जीवाः ।
आत्माद्वयत्वं परमार्थमेवं
न बाध्यते जीवबहुत्वभानात् ॥
॥४०६॥आत्मेति जीवस्य विनिश्चयेन
प्रत्येति नानात्वमिहात्मनां च ।
सत्यं तु नात्मानमवैति पूर्णं
मुह्यत्यतो भेदधियाऽपकृष्टः ॥
॥४०७॥यथा शरावेषु पृथग् जलेषु
विभान्त्यनेके प्रतिबिम्बचन्द्राः ।
तथैव देहेषु मनस्सु भान्ति
जीवा अनेके प्रतिबिम्बमात्राः ॥
॥४०८॥यथार्थ चन्द्रो भविता यथैक
आत्मा यथार्थोऽपि तथैक एव ।
यथा च नाना प्रतिबिम्बचन्द्राः
विभान्ति नानेव तथैव जीवाः ॥
॥४०९॥पृथग् जलेन्दोर्निधने विभान्ति
यथैव पूर्वं हि जलेन्दवोऽन्ये ।
पृथक् चिदाभासमृतौ तथान्ये
पूर्वं यथा भान्ति मृषैव सन्तः ॥
॥४१०॥यो यो विजानाति निजं स्वरूपं
तस्मै भवोऽयं विरतिं प्रयाति ।
अन्ये यथापूर्वमिह भ्रमन्ति
यावद्विजानन्ति निजं न तत्त्वम् ॥
॥४११॥एषोपमा मन्दमतिभ्य उक्ता
तेषां मृषाज्ञानमनूद्य बुद्धैः ।
जीवो मृषैवेत्यवयन्ति ये तु
निरर्थकोऽयं भविता विवादः ॥
॥४१२॥स्वप्ने यथा मानसमोहजाता
जीवा अनेके विलसन्ति सद्वत् ।
तथाऽज्ञपुंसां विलसन्त्यनेके
जीवा इमे जागरितेऽप्यसन्तः ॥
॥४१३॥स्वानां बहुत्वं वदतां प्रमाणं
निरस्तदोषं न हि किञ्चिदस्ति ।
आत्माद्वयत्वेऽस्त्युभयं प्रमाणं
बुद्धानुभूतिश्च तदुक्तयुक्तिः ॥
॥४१४॥अहंस्वरूपेण सदैकधाऽन्त-
रात्मा शरीरेषु विभाति यस्मात् ।
तत् सर्वदेहेषु स एक एवे-
त्यस्मद्गुरुः श्रीरमणो ब्रवीति ॥
॥४१५॥ध्येया सदैवाद्वयता प्रयत्नाद्
वर्तेत नाद्वैतधिया क्रियासु ।
मन्येत लोकत्रितयेऽद्वयत्वं
मन्वीत नैवं गुरुणा तु साकम् ॥
॥४१६॥यथाऽज्ञपुंसां भुवनं विभाति
भायात् तथेदं विदुषः कथं नु ।
येन प्रकारेण विभाति विश्वं
बुद्धस्य तं चापि गुरुर्ब्रवीति ॥
॥४१७॥ईशोऽपि जीवा जडवस्तुजात-
मिति प्रतीतं जगदज्ञमर्त्यैः ।
बुद्धस्य भात्यात्मतया समस्तं
ह्यारोपितांशप्रविलापनेन ॥
॥४१८॥तत् तुर्यनिष्ठां सहजामवाप्य
जीवन् विमुक्तो विनिवृत्तमोहः ।
नात्मेतरत् किञ्चन वीक्षते यत्
किमप्यसत् तस्य भवेत् कथं नु ॥
॥४१९॥तत् स्वम् शरीरं भुवनं च सत्यं
वदेत् प्रबुद्धोऽपि च यद्वदज्ञः ।
भावे द्वयोरस्ति महांस्तु भेदो
नारोपितांशो विदुषो हि भाति ॥
॥४२०॥मुमुक्षुपुंसे हि विवेकदृष्टि-
र्विधीयते नैव विमुक्तपुंसः ।
भवेन्मुमुक्षोरविवेकदृष्टि-
र्न सम्भवेत् सा खलु बुद्धपुंसः ॥
॥४२१॥देहात्ममत्याऽज्ञजनः सरूपं
वपुर्मितं चापि हि मन्यते स्वम् ।
ज्ञो वेत्त्यनन्तं स्वमरूपमेकं
भावे भिदैवं भवति द्वयोश्च ॥
॥४२२॥शरीरमित्यज्ञजनेक्षितं यद्
बुद्धस्य भात्यत्मतयैव तद्धि ।
तदेव बुद्धोऽहमिति ब्रवीति
ह्युपेक्ष्य बोधेन शरीररूपम् ॥
॥४२३॥सत्यं प्रपञ्चं वदतोर्द्वयोश्च
वाक्ये समानेऽपि भिदाऽस्ति भावे ।
अज्ञस्य भेदैर्हि निमीलितं सत्
सत्यं यथावद्विदुषस्य भाति ॥
॥४२४॥आधारसत्यं जगतोऽविदित्वा
समीक्ष्य चारोपितवस्तुजातम् ।
मन्वान एतत् स्वत एव सत्यं
ब्रवीति सत्यं जगदित्यविद्वान् ॥
॥४२५॥विभात्यधिष्ठानसदेव शुद्ध-
मनामरूपं विदुषो हि साक्षात् ।
नारोपितं भाति हि तस्य सद्वत्
वदेन्मृषा विश्वमसौ कथं नु ॥
॥४२६॥आच्छादकं विश्वमिदं परस्य
स्वाज्ञानसन्दूषितलोचनस्य ।
आच्छाद्यते तेन सता परेण
स्वज्ञानसंशोधितलोचनस्य ॥
॥४२७॥तत्त्वं विजानन् मृगतृष्णिकाया
भूयो यथा पश्यति ताममूढः ।
पश्यंस्तथा विश्वमिदं प्रबुद्धो
न मन्यते सत्यमिदं यथाऽज्ञः ॥
॥४२८॥विश्वं यथाऽज्ञैः सदिति प्रतीतं
नैवं हि सत्यं तदिदं कथञ्चित् ।
सत्यं यथेदं विदुषो विभाति
जनन्त्यबुद्धा न हि तं प्रकारम् ॥
॥४२९॥यदज्ञपुंसां बहुभेदभिन्नं
सरूपकं स्वान्यदिवावभाति ।
तदेतदात्मैव हि बुद्धपुंसो
निरस्तभेदोऽप्युत रूपहीनः ॥
॥४३०॥अत्यन्तमिथ्या न हि विश्वमुक्तं
नेदं नराश्वादिविषाणतुल्यम् ।
अत्यन्तमिथ्या यदि नैव भायाद्
भाति त्वधिष्ठानसदंशयोगात् ॥
॥४३१॥मिथ्या ह्यधिष्ठानसता विहीनं
वन्ध्यासुताद्यं न विभाति किञ्चित् ।
मिथ्य त्वधिष्ठानसति प्रतीतं
रज्ज्वां यथाऽहिः सदिवावभाति ॥
॥४३२॥सत्ताऽप्यसत्ताऽप्युभयं च वाच्यं
विश्वस्य नास्त्यत्र विरोधलेशः ।
सत्ताऽस्त्यधिष्ठानसदंशयोगा-
न्मिथ्यात्वमारोपितनामरूपैः ॥
॥४३३॥सत्यत्वमङ्गीकृतमेवमस्य
किं त्वेतदस्तीत्युचितं न वक्तुम् ।
सत्तास्तिते द्वे भवतो विभिन्ने
तदुच्यतेऽस्तीति यत् स्वतः सत् ॥
॥४३४॥वदन्ति विश्वं व्यवहारसत्यं
प्रातीतिकं स्वप्नसमीक्षितं च ।
ब्रह्माद्वितीयं परमार्थसत्यं
मुधा विकल्पास्त इमे हि भेदाः ॥
॥४३५॥एकस्वरूपैव हि सत्यताऽस्ति
न सन्ति भेदाः खलु सत्यतायाम् ।
अतो ह्यसत्यं द्वितयं समानं
स्वप्नेक्षितं जागरितेक्षितं च ॥
॥४३६॥विश्वस्य मिथ्यात्वमिहोपदिष्टं
स्वान्वेषणात् तुर्यपदस्यलिप्सोः ।
सत्यं प्रपञ्चं बत मन्यमानो
विद्यात् कथं स्वं परमार्थसत्यम् ॥
॥४३७॥यत् सत्यवत् स्यादनृतस्य भानं
ज्ञानेन तस्यस्ति विराम एव ।
संविद्धिवस्वान् खलु सत्य आत्मा
तत्सन्निधाने कथमस्त्वविद्या ॥
॥४३८॥अस्त्यज्ञता चेदथ कस्य सेति
प्रश्नोऽत्र जागर्ति हि साधकस्य ।
तेनात्मतत्त्वं परिमृग्यते चे-
दज्ञोऽज्ञता द्वे व्रजतो विनाशम् ॥
॥४३९॥अज्ञानमङ्गीक्रियतेऽत्र शास्त्रे
जीवाभिधस्यैव हि कल्पितस्य ।
नैवात्मनोऽङ्गीकृतमेतदस्ति
स नित्यबुद्धप्रकृतिर्हि तुर्यः ॥
॥४४०॥सम्बध्यते नैव सहानृतेन
द्वैतप्रपञ्चेन कदाचिदात्मा ।
देशेन कालेन निमित्ततो वा
यथेह रज्जुर्भुजगेन साकम् ॥
॥४४१॥उक्ता जगत्कारणता परस्य
भवत्यसत्यैव हि तत्त्वदृष्ट्या ।
परस्य शक्तिस्त्रिगुणात्मिका या
मायाभिधा कारणमुच्यते सा ॥
॥४४२॥द्वे ब्रह्मणी हि श्रुतिषु प्रसिद्धे
निर्बीजकं चापि सबीजकं च ।
निर्बीजकं ब्रह्म तुरीयसञ्ज्ञं
सबीजकं शक्तिमदीशरूपम् ॥
॥४४३॥स्वभावतो निश्चल एक आत्मा
नृत्यं करोतीव तयाऽऽत्मशक्त्या ।
लीना यदा सा त्वचलस्वरूपे
भायादसौ निश्चल एककः सन् ॥
॥४४४॥मायेयमुक्ता व्यवहारदृष्ट्या
मिथ्याजगत्कारणपृच्छकानाम् ।
मायाऽपि तत्कार्यमिदं जगच्च
द्वयं च मिथ्या परमार्थदृष्ट्या ॥
॥४४५॥का नाम माया कतमाऽस्त्यविद्या
सृष्टं जगत्केन कथं च पूर्वम् ।
कथं न्वभूज्जीव इति स्म मोहात्
प्रश्नाः क्रियन्तेऽत्र मुधैव मर्त्यैः ॥
॥४४६॥मायेदृशी यन्निधनान्मुमुक्षु-
र्लभेत निष्ठां निजसत्स्वरूपे ।
न वेत्ति बुद्धोऽपि तदीयरूपं
सा प्रेक्ष्यमाणैव हि नाशमेति ॥
॥४४७॥Quote - Yoga Vasishtha
ईदृशी राम मायेयं या स्वनाशेन हर्षदा ।
न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥
मनस्तया ब्रह्म न पर्यणंसीत्
जगत्तया ब्रह्म न प्रयणंसीत् ।
ब्रह्मास्ति नैजामलचित्स्वरूपा-
दप्रच्युतं कालदिगाद्यतीतम् ॥
॥४४८॥नाभूज्जगन्न प्रलयं व्रजेद्वा
नैवोदभूत् कश्चन जीवनामा ।
न बद्धमुक्तौ न च साधको वा
सर्वोत्तमं सत्यमिदं निरुक्तम् ॥
॥४४९॥यथा चलच्चित्रतिप्रसृत्या
नाधारवस्त्रं भजते विकारम् ।
न विक्रियामेति तथा परात्मा
प्रतीयमाने सति च प्रपञ्चे ॥
॥४५०॥श्रीशङ्कराचार्यवरेण सोऽयं
सिद्धान्त उक्तोऽस्त्यसकृत् स्फुटं च ।
अनेकधा स्पष्टमिमं ब्रवीति बुद्धो
गुरुः श्रीरमणोऽपि साधोः ॥
॥४५१॥उक्तं हि नेतास्ति तुरीयमेव
सत्यं तदन्यत् त्रितयं मृषेति ।
उक्तं च सत्यस्य सदाद्वयत्वं
द्वैतं च नित्यं च मृषात्वमेव ॥
॥४५२॥न किञ्चनेह त्वदृतेऽस्ति सत्यं
त्वमेककः कालदिगाद्यतीतः ।
अपास्य मिथ्याभ्रममास्स्व शान्त
इत्यात्मनिष्ठा गदिताऽस्ति तेन ॥
॥४५३॥मत्स्थानि भूतानि न तत्त्वदृष्ट्या
मदीयमायैव समस्तमेतत् ।
इत्यात्मनोऽजातिमुवाच सत्यां
गीतासु कृष्णो भगवान् स्वयं च ॥
॥४५४॥पूर्णात्मतां स्वामजहत् परं सत्
स्वमायया पूर्णमिदं बभूव ।
बुद्धस्य पूर्णात्मतयैव भाती-
त्यजातिरुक्ता श्रुतिशीर्षवाचा ॥
॥४५५॥विस्मृत्य यत् स्वं वपुरात्ममत्या
भ्रान्त्वाऽप्यसङ्ख्येषु भवेषु चान्ते ।
स्वतत्त्वबोधात् भवति स्व एव
स स्वप्नलोकाटनतः प्रबोधः ॥
॥४५६॥यथा मनुष्यो मधुपानमत्तः
कोऽहं नु कुत्राहमिति पपृच्छन् ।
आत्मैव सन्नेवमिहाज्ञमर्त्यः
कोऽहं कुतोऽहं न्विति पृच्छति स्वम् ॥
॥४५७॥अस्त्यात्मनोऽन्तर्वपुरित्यबुद्ध्वा
तस्मिञ्जडेऽस्मीत्यभिमन्यते यः ।
मन्येत चित्रस्थमसौ तदीय-
माधारभूतं बत वस्त्रमेव ॥
॥४५८॥स्वर्णात् पृथग् भूषणमस्ति किं नु
स्वस्मात् पृथक् किं नु शरीरमस्ति ।
शरीरमेव स्वमवैत्यबुद्धः
शुद्धं स्वमेव स्वमवैति बुद्धः ॥
॥४५९॥तमेकमात्मानमनादिसत्यं
मौनोपदेशाद् गुरुरादिमोऽपि ।
निबोधयामास कथं नु कोऽपि
वाचा वदन् बोधयितुं समर्थः ॥
॥४६०॥इत्यात्मतत्त्वं बहुधोदितं चा-
प्यनुक्तमेवानु भवैकवेद्यम् ।
ताम् स्वानुभूतिं निरुणद्धि चित्तं
निरूढदेहात्मधिया मुमुक्षोः ॥
॥४६१॥श्रुत्यैव चैवं विमलान्तरङ्गाः
सद्योऽपि निष्ठां सहजां लभेरन् ।
अन्यैस्त्वहङ्कारविनाशनाय
सुसाधनं किञ्चिदनुष्ठितव्यम् ॥
॥४६२॥अन्तर्हृदि स्वं विमलं विशोकं
जिज्ञासयाऽन्विष्य लभेत शान्तिम् ।
इति श्रुतिर्वक्ति गुरुश्च मार्गं
ऋजुं स्वरूपानुभवाय साधोः ॥
॥४६३॥जिज्ञासनं नाम निगद्यतेऽत्र
निजस्वरूपानुभवस्य लिप्सा ।
तयैव हि स्वात्मगवेषणेऽस्मि-
न्नन्तर्मुखत्वं भविता मुमुक्षोः ॥
॥४६४॥श्रुतिप्रसिद्धं भवनं परस्य
सत्यात्मभूतस्य हृदाख्यमस्ति ।
स एव सर्वं हि कथं नु तस्य
निर्दिश्यते स्थानमिदं हृदाख्यम् ॥
॥४६५॥प्रज्ञास्वरूपं हृदयं हि सत्यं
प्रज्ञास्वरूपः स च सत्य आत्मा ।
अतः स आत्मा हृदयं हि सत्यं
प्रतिष्ठितं सर्वमिदं हि तस्मिन् ॥
॥४६६॥तथाऽपि बुद्धा निगमान्तवाचो
विधातुमन्तर्मुखतां गवेषे ।
अन्तः शरीरे निलयं हृदाख्यं
दिशन्ति तस्यानिलयस्य पुंसः ॥
॥४६७॥बहुर्मुखान्येव किलेन्द्रियाणि
यतः प्रपञ्चेन निमील्यते स्वः ।
उपाय उन्मीलयितुं स्वरूपं
स्वान्वेषणेऽन्तर्मुखतैव साधोः ॥
॥४६८॥Quote - Katha Upanishad
पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥
बन्धस्य मुक्तेरिदमन्तरं हि
सन्दर्शितं स्वानुभवेन बुद्धैः ।
बद्धस्य पुंसः समुदेत्यहन्ता
नोदेत्यहन्ता तु विमुक्तपुंसः ॥
॥४६९॥नित्यापरोक्षोऽपि सदैव जन्तो-
रात्मा महान् प्रेष्ठ उरुप्रकाशः ।
दुरात्मनाऽहङ्कृतिरूपकेण
हृतप्रभो यद्वदलं न भाति ॥
॥४७०॥देहोऽहमस्मीत्यनुभूतिरूपो
भवत्यबोधः खलु बन्धरूपः ।
बोधोऽहमस्मीति विनाऽनुभूतिं
कथं नु नीयेत विनाशमेषः ॥
॥४७१॥देहोऽहमस्मीति समुद्भवन्ती
धीरेवरूपं खलु जीवनाम्नः ।
सत्यांशमस्यैव विविच्य साधु-
र्गवेषयेज्जन्मभुवं तदीयम् ॥
॥४७२॥नात्यन्तमिथ्या खलु जीव एष
नायं हि वन्ध्यातनयस्य तुल्यः ।
आत्माह्यधिष्ठानतयाऽस्ति तस्मा-
न्मृषाऽपि सन् सत्यवदेव भाति ॥
॥४७३॥सत्यांश एतस्य हि जीवनाम्नः
सत्यात्मचैतन्यमहंस्वरूपम् ।
आदाय सत्यांशमिमं मुमुक्षुः-
र्भवेत् समर्थो निजमार्गणाय ॥
॥४७४॥अस्यासदंशं वपुरादिसर्वं
विहाय शिष्टां निरुपाधिकां ताम् ।
सत्यात्मनो दीधितिवत् सुसूक्ष्मा-
महंस्वरूपां चितिमाददानः ॥
॥४७५॥श्वा स्वामिनं स्वं समुपैति यद्वत्
तद्गन्धमादाय गवेषयित्वा ।
लभेत यत्किञ्चन मग्नवस्तु
निमज्ज्य यद्वत् सलिले तथा वा ॥
॥४७६॥अस्याहमो जन्मभुवं स्वतत्त्वं
विमृग्य कोऽहं नु कुतोऽहमेषः ।
इति स्वतत्त्वानुबुभूषयाऽन्त-
र्निमज्ज्य निष्ठां सहजां लभेत ॥
॥४७७॥बहिर्मुखत्वं निजमार्गणेऽस्मिन्
व्रजेन्मनश्चेद्विषयाभिमुख्यात् ।
पुनर्मनोऽन्तर्मुखमेव कुर्यात्
साधुः प्रयत्नात् प्रविलापदृष्ट्या ॥
॥४७८॥तरङ्गफेनादिकमब्धिमात्रं
स्वाप्नं जगत् स्वप्नदृगेव यद्वत् ।
सर्वं जगच्चाप्यहमेव नान्य-
दिति प्रतीतिः प्रविलापदृष्टिः ॥
॥४७९॥कस्येदमेवं विषयाभिमुख्य-
मिति स्वतत्त्वस्य दिदृक्षया वा ।
अन्तर्मुखीकृत्य पुनः पुनश्च
मनो नियुञ्जीत गवेषयोगे ॥
॥४८०॥कदा नु निष्ठां सहजां लभेये-
त्येवं निरुत्साहमना विषीदन् ।
भक्तोऽथवा स्वात्मगवेषयोगी
स्वयं विमुक्तेर्निरुणद्धि मार्गम् ॥
॥४८१॥उत्साहसन्तोषयुतेन भाव्यं
मुमुक्षुणा सात्त्विकमानसेन ।
अनुस्मरन् कालमृषात्वमुक्तं
मनो नियुञ्जीत गवेषयोगे ॥
॥४८२॥प्रश्नस्य कोऽस्मीति सदैव साधो-
र्द्वाराणि सर्वत्र च सम्भवन्ति ।
द्वारेण केनापि गवेषणेऽस्मिन्
मनो नियुञ्जीत पुनः पुनश्च ॥
॥४८३॥नास्योत्तरं काचनबुद्धिवृत्ति-
र्न वेत्ति धीस्तं खलु तुर्यसत्यम् ।
अस्योत्तरं स्वानुभवस्तुरीये
नष्टेऽहमि प्रष्टरि जीवनाम्नि ॥
॥४८४॥यो निर्विकल्पः सहजः समाधि-
स्तत्रैव भायात् स्फुटमात्मतत्त्वम् ।
अन्यत्र धीवृत्तिविमिश्रितत्वाद्
भायाद्यथावन्न हि सत्य आत्मा ॥
॥४८५॥नियुक्तमेवं तु मनो गवेषे
लीयेत चेन्निष्फल एव यत्नः ।
लयात् प्रबोध्याथ पुनश्च साधु-
र्मनो नियुञ्जीत मनोगवेषे ॥
॥४८६॥नाशो लयश्चेत्युभयप्रकारो
मनोनिरोधो गुरुणाऽस्ति दिष्टः ।
मनोलयस्यानिलरोधनाद्या
भवन्त्युपाया हठयोगमार्गे ॥
॥४८७॥मनो विलीनं सह वासनाभि-
र्भवाय पश्चात् पुनरुद्भवेद्धि ।
नष्टं मनश्चेन्निजमार्गणेन
निर्वासनं भर्जितबीजवत् स्यात् ॥
॥४८८॥बध्नात्यविद्या बत वासनाभिः
स्वाज्ञं हि ता एव मनः स्वरूपम् ।
गवेषणे स्याद्यदि जागरूकं
मनस्तु तासां भविताऽथ नाशः ॥
॥४८९॥ज्ञानोदयः स्यान्मनसो विनाशा-
न्नष्टासु सर्वास्यपि वासनासु ।
मुक्तिर्निरुक्ताऽखिलवासनाना-
मात्यन्तिको नाश इति प्रबुद्धेः ॥
॥४९०॥क्षुरस्य धारा निशिता यथैवं
मार्गो ह्ययं स्वात्मविचारनामा ।
रागो लयश्चेत्युभयं विहाय
तिष्ठेत् सदैकाग्रधिया गवेषे ॥
॥४९१॥अन्येषु योगेषु हि जीवनामा
सन् कोऽपि कर्मादिकदोषयुक्तः ।
अस्तीति मत्वैव च दोषहीनं
विधातुमेनं यतते हि योगी ॥
॥४९२॥कर्मित्वनाशाय च कर्मयोगो
विभक्तिनाशाय च भक्तियोगः ।
वियोगनाशाय च राजयोगो-
ऽप्यबोधनाशाय च बोधयोगः ॥
॥४९३॥स एव साक्षात् पुरुषः परः सन्
स्वस्मात् पृथक् स्वं गणयन्नबुद्धः ।
तेनैक्यमिच्छन् यतते च योगै-
र्हास्यं हि तस्मादितरत् किमस्ति ॥
॥४९४॥आदाय जीवस्य चिदंशमेव
तन्मूलभूतात्मगवेषणेन ।
निर्दोष आत्मैव हि भात्यनन्तो
न शिष्यते कश्चन तत्र जीवः ॥
॥४९५॥अतो महायोगसमाख्यकोऽयं
नान्योऽस्य योगस्य समोऽधिको वा ।
अन्तर्भवन्त्यत्र समस्तयोगा
अङ्गानि ते ह्यस्य यथोचितं स्युः ॥
॥४९६॥जीवोदयस्थानगवेषणं यत्
स एक एवाखिलयोगमार्गाः ।
स कर्मयोगोऽप्युत भक्तियोगः
स राजयोगोऽप्युत बोधयोगः ॥
॥४९७॥प्रश्नस्वरूपो हि गवेष एव
न ध्यानवत् साधनमेतदुक्तम् ।
हृन्मज्जनं सम्भवति ह्यनेन
प्रश्नेन न ध्यानपरम्पराभिः ॥
॥४९८॥केचिन्निदिध्यासनमाचरन्ति
श्रुत्वाऽपि मत्वाऽपि निजं स्वरूपम् ।
अन्यो हि मार्गोऽयमुतान्य एव
स्वान्वेषरूपो रमणोपदिष्टः ॥
॥४९९॥ब्रह्मात्मनोस्तत् त्वमसीत्यभेद-
श्छान्दोग्यवेदान्तनिरूपितोऽस्ति ।
अभेद एष प्रतिपाद्यते च
वाच्यार्थलक्ष्यार्थविवेचनेन ॥
॥५००॥वाक्येऽत्र तच्छब्दनिवेदितस्य
चर्चां विना त्वम्पदलक्षितस्य ।
सत्यात्मनस्तत्त्वगवेषणस्य
कर्तव्यतां श्रीरमणो ब्रवीति ॥
॥५०१॥एवं गवेषेण भवेन्मुमुक्षो-
र्हृन्मज्जनात् स्वानुभवस्तुरीये ।
न स्यान्निदिध्यासनमस्य कार्यं
नानेन कार्यं मननं च दीर्घम् ॥
॥५०२॥श्रुत्योदिते तत्त्वमसीति वाक्ये
ध्यानं न किञ्चिद्विहितं हि साधोः ।
उक्ता परस्यैव तुरीयभावे
बुद्धेन सत्यात्मतयाऽनुभूतिः ॥
॥५०३॥तत्त्वं स्वकं यन्निरुपाधिकं तद्
ब्रह्मेति वेदान्तगिरा सुसिद्धे ।
ब्रह्मात्मनोरेकतयाऽनुभूत्यै
स्वान्वेषणात् किं करणीयमन्यत् ॥
॥५०४॥विहाय देहात्ममतिं विमृग्य
स्वमेव बुद्ध्वा हृदि निष्ठितस्य ।
भात्यात्मरूपः पर एव साक्षा-
दित्यर्थको हि श्रुतिशीर्षवाणी ॥
॥५०५॥निजस्वरूपस्य गवेषणं यत्
साक्षाद् भवेत् साधनमेतदेव ।
उक्तं निदिध्यासनमङ्गस्य
देहात्मधीनिर्मथनाय साधोः ॥
॥५०६॥हृन्मज्जनं स्वात्मगवेषणेऽस्मिन्
न सम्भवेद् दुर्बलमानसस्य ।
वृत्तिष्वनेकासु विभज्यमानं
नितान्तमल्पं मनसो बलं हि ॥
॥५०७॥एकाग्रता या मनसो गवेषे
मनोबलं नाम तदेव नान्यत् ।
ईदृग् बलं यस्य भवेत् स एव
धीरः स्वधीरक्षणकौशलेन ॥
॥५०८॥ध्यानेन वर्धेत मनोबलं यत्
तद् ध्यानमङ्गं निजमार्गणस्य ।
ध्यानान्मनो निश्चलतां प्रसाध्य
ततः स्वतत्त्वं मृगयेत धीरः ॥
॥५०९॥अहंस्वरूपा चितिरात्मनो या
सर्वोत्तमं ध्येयमिदं मुमुक्षोः ।
मज्जेदनेनैव मनो हृदन्त
इत्यस्मदाचर्यवरोपदेशः ॥
॥५१०॥शान्तिं नयन् केवलकुम्भकेन
चित्तं विना पूरकरेचकाभ्याम् ।
सज्जेत चेत् स्वात्मगवेषयोगे
हृन्मज्जनं स्यान्मनसो मुमुक्षोः ॥
॥५११॥देहं पृथक्कृत्य निजस्वरूपे
विश्रम्य तिष्ठेद्यदि चित्स्वरूपे ।
अहम्मतिस्तस्य विनाशमेती-
त्येवं वसिष्ठो भगवानवोचत् ॥
॥५१२॥आत्मानमन्विष्य मनः कयाऽपि
शक्त्या गृहीतं हृदये निमज्जेत् ।
तत्रात्मनश्चित्प्रभया निगीर्णं
मनोऽहमा साकमुपैति नाशम् ॥
॥५१३॥शक्तिः कृपाख्या खलु सा परस्य
सत्यात्मभूतस्य हृदि स्थितस्य ।
विद्यामयी सा हि समर्प्य तस्यै
स्वमेव साधुर्भविता कृतार्थः ॥
॥५१४॥ज्ञानाग्निना विश्वमिदं प्रदग्धं
सहाहमा यत्र महाश्मशाने ।
चिद्व्योम्नि तत्राहमहन्तयाऽऽत्मा
सदाशिवो नृत्यति केवलः सन् ॥
॥५१५॥तदेव चिद्व्योम हि तत्स्वरूपं
नृत्येदसौ तत्र कथं न्वरूपः ।
आनन्दरूपत्वममुष्य दिष्ट-
मेवं हि तन्निश्चलनृत्यमेव ॥
॥५१६॥न तत्र मायाऽस्ति न काऽप्यविद्या
न देशकालौ न च कोऽपि जीवः ।
तस्मिन् पदे निर्मलचित्स्वरूप
आत्मैक एवास्ति न किञ्चिदन्यत् ॥
॥५१७॥मायाभिधाना परमेशशक्तिः
सर्वं जगद्यत्परिणाम एव ।
नष्टैव सेयं ह्यचले परस्मिन्
साकं स्वकार्यैरपि तुर्यभावे ॥
॥५१८॥विभात्यतस्तुर्यपदे प्रशान्ते
सत्यात्मरूपं प्रतिबन्धहीनम् ।
तस्मिन् पदे स्वात्मतयाऽवशिष्टो
निगद्यते मुक्त इति प्रबुद्धैः ॥
॥५१९॥सुदुःखिता स्त्री श्वशुरस्य गेहे
मातुर्गृहे शान्तिमुपैति यद्वत् ।
एवं मनः संसृतिदुःखतप्तं
निवृत्य मूलं निजमेव शान्तम् ॥
॥५२०॥यथा नरः स्वप्नसमुत्थितः सन्
स्वाप्नं जनं पश्यति नैव कञ्चित् ।
अज्ञाननिद्रोत्थित एवमेको
न वीक्षते कञ्चिदपि स्वतोऽन्यम् ॥
॥५२१॥यस्तन्मयानन्दनिमग्न आस्ते
स्वान्यस्य बोधेन विनाऽद्वयत्वे ।
पदं तदीयं सहजं प्रशान्तं
धीगोचरत्वं भजतां कथं नु ॥
॥५२२॥विनष्टचित्तं निजसत्यभावे
विनष्टदेहं च विनष्टलोकम् ।
ज्ञातुं प्रबुद्धं भविता समर्थः
स्वबुद्धिशक्त्यैव कथं नु मर्त्यः ॥
॥५२३॥अलक्षणं तन्न मनोऽपि मन्तुं
शक्नोति तुर्यं न वचोऽपि वक्तुम् ।
अतन्निरासेन तु बोधयन्ति
वेदान्तवाचोऽपि हि तत्स्वरूपम् ॥
॥५२४॥वाचाऽपि वक्तुं मनसाऽपि मन्तुं
शक्यं यदल्पं खलु तत्समस्तम् ।
अगोचरत्वान्मनसो धियोऽपि
भूमेति जानन्ति तमात्मनिष्ठाः ॥
॥५२५॥यद्यत् प्रबुद्धैर्निगमान्तवाक्यैः
सत्यं परं प्रत्युपदिष्टमस्ति ।
तत्तत्फलं शिष्यमृषाग्रहाणां
निरास एवेति वदन्ति बुद्धाः ॥
॥५२६॥सीता यथा दाशरथिं दिदेश
निषेधनादन्यनृपात्मजानाम् ।
तथात्मनो रूपमतन्निरासै-
र्वेदान्तवाचः प्रतिपादयन्ति ॥
॥५२७॥अर्थो न वेद्यो न च वेदनीयः
स्वयम्प्रभः केवल एक आत्मा ।
तमो निरासेन विना न किञ्चित्
गुरूपदेशैः क्रियते हि साधोः ॥
॥५२८॥ज्ञानात्मकः स्वो हि तिरोहितोऽज्ञैः
प्रापञ्चिकज्ञानमयैस्तमोभिः ।
तमांसि तान्येव गुरूपदेशा
निरस्य साधुं हि कृतार्थयन्ति ॥
॥५२९॥यथाऽवकाशं जनयेन्न कोऽपि
निरोधकापाकरणं विहाय ।
तथाऽऽत्मलाभाय न कार्यमन्य-
द्धित्वा मृषाज्ञाननिरासमस्ति ॥
॥५३०॥लब्धव्य आत्मा भविता कथं नु
नासौ विनष्टः खलु तत्त्वदृष्ट्या ।
येनाहमाऽऽत्माऽस्ति तु नष्टकल्पो
नाशस्तदीयो भविताऽऽत्मलाभः ॥
॥५३१॥परा च पश्यन्त्युत मध्यमा च
वाग् वैखरी चेति चतुःप्रकारा ।
सा वाक् परा नाम तु मौनमेव
तदेव रूपं च सतः परस्य ॥
॥५३२॥वाग् वैखरी मध्यमवाक्प्रसूता
वाग् वीक्षमाणाऽस्ति तदीयमाता ।
तस्याः परा वागिति सुप्रसिद्धा
वाक् सैव मौनं पर चित्स्वरूपम् ॥
॥५३३॥व्याख्या यथार्थाऽप्युत मौनमेव
स्थितस्य बुद्धस्य पदे तुरीये ।
वाग् वैखरी भेदमतिप्रसूता
वदेत् परं तं कथमस्तभेदम् ॥
॥५३४॥अतो हि मौनेन दिदेश रूप-
मात्मस्वरूपस्य गुरुः पुराणः ।
मौनेन वाचो मनसोऽपि पूर्वे
शिष्या अबुध्यन्त तदीयरूपम् ॥
॥५३५॥गुरोः प्रबुद्धस्य हि मौनभावात्
स्वयं प्रबुद्धाश्च भवन्ति सन्तः ।
वाचोपदेशाः प्रभवन्ति नैव
तत्त्वं परं बोधयितुं यथावत् ॥
॥५३६॥गुरोः प्रबुद्धस्य यदस्ति मौनं
शक्तिस्तदीया न हि मानमेति ।
मौनोपदेशः परमो हि तस्मात्
तेनैव साधोर्हि मनःप्रशान्तिः ॥
॥५३७॥दीक्षा त्रिधोक्ता गुरुणा प्रयोज्या
निरीक्षणध्यानकराभिमर्शाः ।
गुरोस्तु मौनस्थितिसम्प्रयुक्तां
ब्रवीति दीक्षां परमां गुरुर्नः ॥
॥५३८॥मौनोपदेशादपि मौनभावे
स्थित्वैव लभ्या भवतीत्यतश्च ।
मौनं पदं तं निगदन्ति बुद्धा
मौनी वदन्नेव स सम्प्रबुद्धः ॥
॥५३९॥सकृद्विभातं पदमव्यं त-
च्चैतन्यभानोः प्रभयैव तस्य ।
अतः प्रमादाच्च्युतिरात्मभावा-
न्न बुद्धपुंसो भविता कदाचित् ॥
॥५४०॥अत्ता समस्तस्य चराचरस्या-
प्यात्मेति वेदान्तगिरा यदुक्तम् ।
निर्दिश्यते तेन तदीयभासा
ग्रासोऽस्य विश्वस्य तमोमयस्य ॥
॥५४१॥निगीर्य सर्वं घनविश्वरूपं
चैतन्यभासा निजया परात्मा ।
एकोऽद्वयो भात्यरुणाचलेश
इति स्वरूपं गुरुणाऽस्ति गीतम् ॥
॥५४२॥ब्रह्मात्मभावं प्रतिपद्य तुर्ये
विमुच्यते स्वो भवबन्धपाशात् ।
इत्येष वादो न भवेद्यथार्थो
नहि स्वरूपाच्च्युतिरात्मनोऽभूत् ॥
॥५४३॥न श्वेतिमानं नवमेति धौतं
वस्त्रं स्वभावो ह्ययमस्य यद्वत् ।
ब्रह्मत्वमात्मा नहि याति बोधाद्
ब्रह्मत्वमात्मप्रकृतिर्हि नित्यः ॥
॥५४४॥ब्रह्मज्ञ आत्मज्ञ इति प्रसिद्धे
बुद्धस्य पुंसो भवतोऽभिधे द्वे ।
ब्रह्मैव चात्मैव यतः स बुद्धो
ज्ञाते उभे तेन कथं भवेताम् ॥
॥५४५॥अब्रह्मताधीरहितत्वमेव
ब्रह्मज्ञतोक्ता न तु काचिदन्या ।
आत्मज्ञता नाम भवेदनात्म-
न्यात्मत्वमत्या रहितत्वमेव ॥
॥५४६॥तत्त्वं स्वमन्विष्य परस्य तस्य
सत्यात्मनोऽन्नत्वमुपेत्य तुर्ये ।
कथं नु तस्मान्निजसत्स्वरूपात्
तिष्ठेत् पृथक् कश्चन बुद्धनामा ॥
॥५४७॥अद्वैतनिष्ठामनुभूय तुर्ये
जीवेत् पृथक्त्वेन कथं परस्मात् ।
तद् ब्रह्मनिर्वाणमुदीरितं हि
कृष्णेन साक्षात् परमेण पुंसा ॥
॥५४८॥निर्दिश्यते ब्रह्म यथैव शास्त्रे
निर्दिश्यते बुद्धपुमांस्तथैव ।
ब्रह्मस्वरूपं खलु संविदेव
बुद्धस्वरूपं न ततोऽस्ति भिन्नम् ॥
॥५४९॥नात्मद्वयं कस्यचिदस्ति यस्मात्
तद् वेद्मि मामित्यपि नेति हास्ये ।
वेद्यत्वमात्मा न कदाऽपि याती-
त्येषाऽस्ति वाणी भगवत्तमस्य ॥
॥५५०॥अद्वैतनिष्ठेत्युदिताऽस्ति सेय-
मुपाधिनिर्मुक्तनिजस्वरूपे ।
यतो न तस्मात् पृथगस्ति पूर्णं
ब्रह्माभिधानं परसत्यमेकम् ॥
॥५५१॥अद्वैतता सा विदुषाऽनुभूता
सत्यात्मनस्तुर्यपदाधिगत्या ।
न साधनाभ्यासबलेन सिद्धा
सत्यात्मनः सा खलु नित्यसिद्धा ॥
॥५५२॥द्वैतं भवेत् सत्यमिदं हि तावद्
यावद् भवेत् साधनतत्परत्वम् ।
सिद्धौ भवेदद्वयतोद्भवस्तु
द्वैतप्रणाशादिति केचिदाहुः ॥
॥५५३॥नेमे विजानन्ति तु तुर्यतत्त्वं
कालातिगं चानुदितप्रपञ्चम् ।
अद्वैतमाद्यन्तविवर्जितं हि
द्वैतं सदिक्कालमसत् सदैव ॥
॥५५४॥मिथ्याभ्रमस्यैव विराम उक्तः
शास्त्रे मुमुक्षोरहमो विनाशात् ।
सत्यं न बोधेन विनाशमीया-
न्न भासते किञ्चिदसत् तुरीये ॥
॥५५५॥द्वैतं भवेत् सत्यमिदं सदैव
ज्ञानेऽपि नैवास्य भवेद्विनाशः ।
अद्वैतसिद्धिर्न भवेत् कदाऽपी-
त्येष मतिर्दूरतरैव साधोः ॥
॥५५६॥सत्या सदैवाद्वयताऽऽत्मनोऽसौ
स्वान्वेषणे सत्यपि चात्मलाभे ।
लब्ध्वोऽभवद्यो दशमो गवेषात्
पूर्वं च सोऽयं दशमो हि नान्यः ॥
॥५५७॥जानन्त्यजातिं परवस्तुनो ये
माण्डूक्यवेदान्तनिरूप्यमाणाम् ।
तत्त्वे परे निश्चितबुद्धयस्ते
मुह्यन्ति नैतादृशमुग्धवादैः ॥
॥५५८॥न भीतिकामौ भवतोऽद्वयत्वे
स्थितस्य बुद्धस्य यथाऽज्ञपुंसः ।
द्वैतेक्षया मोहितमानसानां
नृणामुभे कामभयेऽनिवार्ये ॥
॥५५९॥भीतिर्द्वितीयाद्धि भवेदितीदं
भीत्यास्पदं द्वैतमिदं प्रदिष्टम् ।
भेदप्रतीत्या मुषितात्मभावो
नात्येति भीतिं खलु कोऽपि जन्तुः ॥
॥५६०॥विद्वानगम्ये मनसोऽपि वाचा-
मानन्दरूपात्मनि मोदमानः ।
बिभेत्यसौ नैव कुतश्चनेति
श्रुत्योदिता निश्चलता तुरीये ॥
॥५६१॥नोदेति कामोऽपि हि कोऽपि तुर्ये
मृतो ह्ययं कामयिताऽहमाख्यः ।
सर्वांश्च कामान् समकालमेव
लब्ध्वेव बुद्धोऽस्ति हि नित्यतृप्तः ॥
॥५६२॥आत्मैव सर्वं हि तदीयलाभे
लब्धव्यमन्यन्न हि किञ्चिदस्ति ।
तदाप्तकामो गदितोऽप्यकामः
शास्त्रे प्रबुद्धोऽस्ति हि यद्वदीशः ॥
॥५६३॥साक्षात्कृतं येन निजं स्वरूपं
स कस्य कामाय च किं समिच्छन् ।
तप्येत देहात्मधियेति वक्ति
बुद्धस्य कामानुदयं श्रुतिर्हि ॥
॥५६४॥देहात्मना संस्थित एव कामी
बुद्धस्तु देहात्मधिया विमुक्तः ।
स्वकं शरीरं समवैति बुद्धः
शरीरमन्यस्य यथा तथैव ॥
॥५६५॥सुखस्य नास्वादनमस्ति तुर्ये
सुखित्वदुःखित्वमती न तत्र ।
सुखस्य दुःखस्य विलक्षणं तत्
तुर्यं पदं द्वन्द्वविवर्जितत्वात् ॥
॥५६६॥न शिष्यते कश्चन तत्र कोशः
स्वरूपसङ्कोचकरोऽज्ञपुंसाम् ।
अखण्ड आत्मा निरुपाधिको हि
विराजते तत्र वियत्समानः ॥
॥५६७॥निर्वाणसञ्ज्ञां सुगतो गुरुर्यां
दिदेश निष्ठां भवदुःखहन्त्रीम् ।
कोशे समस्ते गलिते तुरीये
पदे स्थितिः सेति गुरुर्जगाद ॥
॥५६८॥न संशयानामुदयोऽस्ति तत्र
पुमान् प्रबुद्धः स्थितधीर्हि नित्यम् ।
आस्ते स सङ्कल्पविकल्पहीनः
प्रशान्तगम्भीरतयाऽस्तचेताः ॥
॥५६९॥Quote - Upanishad
भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥
आद्यन्तहीनं स्वमवेत्य बोधात्
स मृत्युमत्येत्यपि सम्प्रबुद्धः ।
पुमानबुद्ध्वाऽमृतमात्मतत्त्वं
नात्येति मृत्युं बत कोऽपि लोके ॥
॥५७०॥लेभे जनिं यः परमे स्वमूले
विचार्य कस्मादहमित्युदारः ।
स एव जातः स च नित्यजातो
नवो नवोऽयं सततं मुनीन्द्रः ॥
॥५७१॥इत्येवमाचार्यवरेण दिष्टा
ब्रह्मात्मभावे सहजे स्थितस्य ।
निष्ठा परा सर्वविकारहीना
निरामया कालदिगाद्यतीता ॥
॥५७२॥अज्ञस्य लोके मरणाय जन्म
मृतिस्तदीया जननाय भूयः ।
तस्मादिमे जन्ममृती मृषैवे-
त्यस्मभ्यमुक्तं भगवत्तमेन ॥
॥५७३॥मृतिर्यथार्था त्वहमो विनाशो
जनिर्यथार्था सहजात्मनिष्ठा ।
द्वन्द्वैर्विमुक्तं पदमव्यं तद्
यत्रैकतां जन्ममृती भजेते ॥
॥५७४॥अद्वैतभावे स्थितिमेत्य नित्यां
भेदान् कथं पश्यतु सम्प्रबुद्धः ।
भेदाकुलं भाति यदज्ञपुंसां
विश्वं तदात्मैव हि बुद्धपुंसः ॥
॥५७५॥अभेददृष्टिः समदर्शनं चे-
त्येतद् द्वयं यद् विदुषो वदन्ति ।
तद् भेददृष्ट्या रहितत्वमेव
न केवलत्वे खलु वीक्षणानि ॥
॥५७६॥स्वमेव सर्वत्र च नित्यबुद्धं
बुद्धः पुमान् पश्यति न स्वतोऽन्यम् ।
तन्मन्यतेऽज्ञं कमपीह नासौ
सर्वे प्रबुद्धा हि तदीयदृष्ट्या ॥
॥५७७॥यथा चरेत् कश्चन सुप्त एव
तथैव बुद्धो जगति क्रियासु ।
दृश्येत जानन्निव लोकभेदान्
भेदानजानन्नपि सर्वदैव ॥
॥५७८॥बुद्धस्य चाज्ञस्य भिदा स्फुटास्या-
न्निन्दा नुतिश्चेत्युभयोश्च दृश्या ।
द्वयोर्न भेदं समवैति बुद्धो
द्वन्द्वं मृषेदं खलु यद्वदन्यत् ॥
॥५७९॥विज्ञाय वेदान्तनिगूढमर्थं
विहाय विश्वं तृणवत् समस्तम् ।
अप्राप्य निष्ठां निजसत्यभावे
स्वस्यैव तत्त्वस्य गवेषणेन ॥
॥५८०॥अलुप्तदेहात्ममतिर्विमुह्यन्
यः सत्यवज्जीवभिदामवैति ।
यात्येव सोऽयं ह्यवशोऽपि दास्यं
वाराङ्गनाया नुतिनामिकायाः ॥
॥५८१॥कमप्यजानन् पुरुषं स्वतोऽन्य-
मप्रच्युतः स्वीयपदात् प्रबुद्धः ।
निन्दानुतिभ्यां न विकारमेति
निन्दा नुतिर्वा स्वकृतेव तस्मै ॥
॥५८२॥देहीव मर्त्यः परिदृश्यमानो
नासौ शरीरी निरहङ्कृतिर्यत् ।
सूक्ष्मं वपुस्तस्य न देहपाते
निर्याति किन्तु प्रविलीयतेऽत्र ॥
॥५८३॥सत्यं प्रपञ्चं बत मन्यमाना
रूपं प्रबुद्धस्य वदन्ति केचित् ।
तस्येच्छयाऽरूपिण एव रूपं
कदाचन स्यादिति केचिदाहुः ॥
॥५८४॥रूपस्य सर्वस्य निदानभूता
नष्टा ह्यहन्ता निजतत्त्वबोधात् ।
रूपाण्यतोऽसन्ति हि बुद्धपुंस-
स्तन्मुग्धतैषा बत रूपवार्ता ॥
॥५८५॥अभूदिदं पूर्वमथ प्रणष्ट-
मित्येवमुक्तिश्च न युज्यते यत् ।
रूपी न कोऽप्यस्ति हि तत्त्वदृष्ट्या
रूपी प्रबुद्धो भविता कथं नु ॥
॥५८६॥भावे तुरीये सहजे स्थितस्य
बुद्धस्य देहत्रितयं विनैव ।
इच्छाऽपि रूपग्रहणे कथं स्यात्
सेयं वृथा पामररञ्जनी वाक् ॥
॥५८७॥नदी यथा वारिधिमेत्य तस्मिन्
हित्वा नदीरूपमुपैत्यभेदम् ।
एवं प्रबुद्धोऽपि विहाय रूपं
परात्परे पुंसि भजत्यभेदम् ॥
॥५८८॥एवं श्रुतिर्वक्ति हि रूपहाना-
दैक्यं परस्मिन् विदुषस्तुरीये ।
जीवन्विमुक्तोऽप्यशरीर एव
शरीरिणं स्वं न हि मन्यतेऽसौ ॥
॥५८९॥बुद्धस्य रूपं प्रति योऽहमाख्यो
वादी भवेत् तस्य विनाश एव ।
ब्रवीति मुक्तिं भगवान् गुरुर्य-
न्निरर्थकोऽयं बत रूपवादः ॥
॥५९०॥अतो न निर्याति हि देहपाते
सूक्ष्मं वपुस्तस्य यथाऽज्ञपुंसाम् ।
विलीयतेऽत्रैव हि तत् स्वमूले
न शिष्यते किञ्चन निर्गमाय ॥
॥५९१॥प्रबुद्धपुंसां बहुताऽपि मर्त्यैः
प्रतीयमाना न भवेद्यथार्था ।
प्रापञ्चिका एव हि सर्वभेदा
न निष्प्रपञ्चे खलु ते भवन्ति ॥
॥५९२॥बुद्धः पुमानेष मयाऽद्य दृष्टो
द्रक्ष्याम्यतोऽन्यानपि बुद्धपुंसः ।
इति ब्रुवाणो विदुषां स्वरूपं
न वेत्ति सच्चित्सुखरूपमेकम् ॥
॥५९३॥अजानतः स्वं बत बुद्धमन्त-
र्विभान्ति बुद्धा बहवो विभिन्नाः ।
तं स्वात्मभूतं समवैति यस्तु
न तस्य नानात्वमिदं यथार्थम् ॥
॥५९४॥आद्यो गुरुर्यो मुनिसत्तमानां
दिदेश मौनेन परं पदं स्वम् ।
पश्चाच्च यः शङ्करदेशिकेन्द्रः
स एव हि श्रीरमणो गुरुर्नः ॥
॥५९५॥यन्नित्यसिद्धं निजतत्त्वमन्त-
स्तदात्मना सुस्थितिरेव तुर्ये ।
सिद्धिर्यथार्था न तु काचिदन्ये-
त्यस्मद्गुरुः श्रीरमणो ब्रवीति ॥
॥५९६॥लब्धव्य आत्मेति मतिर्न सत्या
नासौ विनष्टः खलु तत्त्वदृष्ट्या ।
वदन्ति बुद्धा अत एव सत्यं
तं नित्यसिद्धं निखिलस्य जन्तोः ॥
॥५९७॥भूमानमात्मानमतोऽन्यदल्पं
श्रुतिर्वदन्ती दिशतीममर्थम् ।
विक्रीय तं विश्वमिदं समस्तं
क्रीत्वाऽपि मर्त्यः कृपणो हि शोच्यः ॥
॥५९८॥अतो ह्यकार्पण्यपदं तुरीयं
कार्पण्यमन्यच्छ्रुतयो वदन्ति ।
पूर्णो हि सम्राडिव सम्प्रबुद्धो
भिक्षामटंश्चापि न दैन्यमेति ॥
॥५९९॥वदन्ति सिद्धीरणिमादिकांस्तु
बहिर्मुखा भोगपरा विमूढाः ।
वक्तिश्रुतिर्मन्दधियां कथञ्चित्
प्ररोचनार्थं बत ताश्च सिद्धीः ॥
॥६००॥आविद्यकाः स्वप्नसमाः यतस्ता
न तासु मोहं भजते विवेकी ।
पूर्णस्तुरीये स्थितिमेत्य सत्ये
बुद्धो न मुह्येदनृतासु तासु ॥ ६०१ ।
इत्यात्मलाभस्य समोऽन्यलाभो
नास्तीति बुद्धैः प्रकटीकृतेऽपि ।
मत्वाऽऽत्मनाशस्य पदं तुरीयं
बिभ्यत्यमुष्मादविवेकिनस्तु ॥ ६०२ ॥।
प्रयान्ति वृद्धिं विदुषस्तुरीये
स्थितस्य तेजो धिषणा बलं च ।
यथा वसन्तस्य समागमेन
सौन्दर्यमुख्याः सुगुणास्तरूणाम् ॥
॥६०३॥शमादिका ये सुगुणा मुमुक्षो-
र्यत्नेन सम्पाद्य च रक्षणीयाः ।
स्वाभाविकास्ते विदुषो भवन्ति
स निर्गुणः सद्गुणशेवधिश्च ॥
॥६०४॥नाशेऽहमस्तन्न हि काऽपि नष्टि-
र्नैवात्मनाशस्य पदं तुरीयम् ।
अहन्तयाऽऽत्माऽस्ति तु नष्टकल्पो
नाशेऽहमो नश्यति नष्टिरेषा ॥
॥६०५॥एषोऽन्ततोऽहङ्कृतिनाश एव
धर्मार्थकामा अपि सत्यवाणी ।
सन्न्यासमौने च तपोऽपि योगः
सत्यं परस्मै स्वनिवेदनं च ॥
॥६०६॥भवन्त्यसत्यानि तदाख्यकानि
वपुष्यहन्तामलिनीकृतानि ।
स्वाभाविकान्येव भवन्ति तानि
स्थितस्य सत्यात्मतया तुरीये ॥
॥६०७॥अलङ्कृती द्वे विदुषो निरुक्ते
कर्तव्यहानिः कृतकृत्यता च ।
अज्ञानमूलं ह्युभयं नरस्य
कर्तव्यता चाप्यकृतार्थता च ॥
॥६०८॥न कर्मसाध्यं विदुषोऽस्ति यस्मात्
किञ्चिन्न कर्तव्यमिहास्ति तस्य ।
कर्तव्यमत्रास्ति तु यस्य किञ्चित्
स मोहपाशैर्बत बद्ध एव ॥
॥६०९॥पृच्छन्ति केचित् किमु बुद्धपुंसो
ध्यानं न कार्यं भवतीति मुग्धाः ।
गत्वा विदेशान् ननु शिक्षणीया
बुद्धेन मर्त्या इति पृच्छ्यतेऽन्यैः ॥
॥६१०॥अहं तदस्मीत्यनुसन्दधानो
भवेन्न बुद्धः खलु साधकोऽसौ ।
ध्यानं तदस्मीति तु बुद्धपुंसा
ध्यानं नरोऽस्मीति यथा नरेण ॥
॥६११॥यद्विस्मृतं तत्स्मृतिरेव युक्ता
नाविस्मृतस्य स्मृतिरस्ति लोके ।
न विस्मृतं यद् विदुषाऽऽत्मतत्त्वं
तस्य स्मृतिस्तेन कथं घटेत ॥
॥६१२॥ध्यानं यथार्थं तु सतः परस्य
निष्ठैव चिन्तारहितात्मभावे ।
निरन्तरं ध्यानमिदं न हातुं
शक्यं न कर्तुं विदुषा कदाऽपि ॥
॥६१३॥क्वचित् प्रदेशे स्थितवत् प्रबुद्धः
सन्दृश्यमानोऽपि वियत्समोऽसौ ।
तिष्ठन् सदा स्वे सहजे समाधौ
व्याप्नोति शक्त्या भुवनं समस्तम् ॥
॥६१४॥अवत्यसौ स्वानतिदूरतश्चा-
प्यचिन्त्यशक्त्या निजया प्रबुद्धः ।
विनैव चिन्तां सहजे समाधौ
स्थितोऽपि सन् सन्ततमस्तचित्तः ॥
॥६१५॥करोति चिन्तां किमु कोऽपि नॄणां
स्वप्नेक्षितानां मनुजः प्रबुध्य ।
तथाऽज्ञनॄणां न करोति चिन्तां
स्वाज्ञाननिद्रोत्थित आत्मबोधात् ॥
॥६१६॥गुणानसौ त्रीनतिवर्तते य-
दतो न दोषाः प्रभवन्ति तस्मिन् ।
कर्मात्र यद्यत् कुरुते प्रबुद्ध-
स्तत्तद् भविष्यत्यनवद्यमेव ॥
॥६१७॥अत्येति शास्त्राण्यत एव बुद्धो
निबध्यते तैर्न हि निर्मनस्कः ।
भवन्त्यविद्वद्विषयाणि तानि
ते ह्येव कर्तृत्वधिया विधेयाः ॥
॥६१८॥प्रतिष्ठितो यत्र पदे प्रबुद्धो
भवन्त्यवेदाः खलु तत्र वेदाः ।
देवा अदेवा इति तस्य भावो
निर्दिश्यते हि श्रुतिशीर्षवाचा ॥
॥६१९॥बुद्धोपदेशान् मनुजोऽनुतिष्ठेद्
बुद्धैः कृतं कर्म तु नानुतिष्ठेत् ।
बुद्धोपदेशाः परमं प्रमाणं
न कर्म तेषां तु तथा प्रमाणम् ॥
॥६२०॥सर्वांश्च योगानतिगत्य तिष्ठन्
तुर्येऽच्युतो बुद्धपुमान् भवेऽत्र ।
योगीव वा भोगिवदेव वा स्यात्
तौ योगभोगौ भवतो न सत्यौ ॥
॥६२१॥शिष्योपदेशे समुदीरिते द्वे
बन्धो विमुक्तिर्भवतो न सत्ये ।
द्वन्द्वानि सर्वाणि मृषेति सिद्धे
द्वन्द्वं तदेतत् कथमस्तु सत्यम् ॥
॥६२२॥आत्मा स्वयं नित्यविमुक्त एव
बद्धस्त्वविद्योदित जीव एव ।
तत् तत्त्वतो नास्ति हि काऽपि मुक्ति-
र्बन्धप्रतीत्यैव हि मुक्तिचिन्ता ॥
॥६२३॥कस्यास्ति बन्धोऽयमिति स्वतत्त्वं
मुमुक्षुरन्विष्यति चेत् तदन्ते ।
आत्माऽनुभूयेत हि नित्यमुक्त
इत्यस्ति वाणी भगवत्तमस्य ॥
॥६२४॥अजातिरेव प्रकटीकृता हि
श्रुत्याऽपि बुद्धैश्च सतः परस्य ।
तस्यैव सत्यात्मतया स्थितत्वात्
स बन्धमापेति कथं नु वाच्यम् ॥
॥६२५॥सत्यो हि बन्धो यदि नान्तमीया-
दनादिरङ्गीक्रियते हि बन्धः ।
सान्तादिमत्वाच्च भवेद्विमुक्ति-
र्बन्धस्य मिथ्यात्वमतोऽनिवार्यम् ॥
॥६२६॥बद्धोऽभवं पूर्वमथास्मि मुक्त
इत्येवमुक्तिं शृणुमो न बुद्धात् ।
कालातिगा सा पदवी हि तुर्या
चिन्त्यं भवेज्जन्म कथं तदीयम् ॥
॥६२७॥नैवागतं किञ्चन मत्स्वरूपे
सदैकधैवास्मि विकारहीनः ।
इत्येवमूचे भगवान् हि पृष्टो
लब्धा विमुक्तिर्भवता कदेति ॥
॥६२८॥पुर्यां सतां पण्ढरिनामिकायां
यामः कदा तामिति गीतमादौ ।
प्राप्ता वयं तामिति गीतमन्ते
यद्वत् तथैवेह विमुक्तिवार्ता ॥
॥६२९॥स्वप्ने भ्रमित्वा स्वगृहं निवृत्य
भूयोऽपि तत्रैव गतः सुषुप्तिम् ।
प्रबुध्य पश्येत् स्वगृहे यथा स्वं
मुक्तिस्तथैवेति गुरुर्जगाद ॥
॥६३०॥नित्यानुभूते मम सत्स्वरूपे
स्थितोऽस्मि मिथ्या ह्यनुभूतयोऽन्याः ।
इति प्रबोधेन मतिप्रसादो
भवेद्विमुक्तिर्न किमप्यपूर्वम् ॥
॥६३१॥बुद्धस्य नित्यो महिमाऽस्ति सोऽयं
वृद्धिक्षयौ तस्य न कर्मणेति ।
अनिष्टमिष्टं च फलं कृतस्य
न कर्मणः स्याद्विदुषः कदाऽपि ॥
॥६३२॥यथा कथासंश्रवणे सुदूरं
धिया गतो नैव कथां शृणोति ।
कर्माणि कुर्वन्नपि बुद्ध एवं
निर्वासनत्वान्मनसो न कर्ता ॥
॥६३३॥सवासनत्वान्मनसस्तु कर्ता
भवत्यकुर्वन्नपि चाज्ञमर्त्यः ।
स्वप्ने यथाऽद्रेः शिखरादधस्तात्
पतेच्छरीरे सति निश्चलेऽपि ॥
॥६३४॥शरीरमात्रेण कृतं न कर्म
मनःकृतं यत् तु तदेव कर्म ।
नाचेतनं कर्तृ भवेच्छरीरं
मनो भवेत् कर्तृ तु चेतनत्वात् ॥
॥६३५॥प्रारब्धवेगेन चरन्ति कर्म
देहेन्द्रियप्राणमनांसि यद्यत् ।
न लिप्यते तेन पुमान् प्रबुद्ध
इत्युक्तवान् श्रीभगवान् गुरुर्नः ॥
॥६३६॥न लिप्यते सृष्ट्यवनादि कर्म
कुर्वन्नपीशः खलु तद्वदेव ।
न लिप्यते कर्मभिरत्र बुद्धो
भिदा तयोर्नास्ति हि तत्त्वदृष्ट्या ॥
॥६३७॥अश्नंश्च गच्छंश्च वदन् स्मरंश्च
कर्माणि कुर्वन्निव लक्ष्यतेऽज्ञैः ।
कर्ताऽपि भोक्ता न तु तत्त्वतोऽसौ
स हीश्वराधीनसमस्तवृत्तिः ॥
॥६३८॥कर्ता यदि स्वः स भवेद्धि भोक्ता
कर्तृत्वनाशे निजमार्गणेन ।
साकं विनश्येत् त्रिविधं च कर्म
विमुक्तिमेतां समवेहि नित्याम् ॥
॥६३९॥भुङ्क्ते यथा निद्रितबालकोऽन्नं
स्वमातृदत्तं न तु वेत्ति भुक्तम् ।
एवं प्रबुद्धोऽपि हि कर्मजन्यं
भुङ्क्ते फलं भोक्तृतया विनैव ॥
॥६४०॥कर्ता न कोऽप्यस्ति हि तत्त्वदृष्ट्या
स्वज्ञाज्ञयोरस्ति भिदेयमेव ।
कर्ताऽहमस्मीत्यभिमन्यतेऽज्ञो
बुद्धस्य नोदेति तु कर्तृताधीः ॥
॥६४१॥आगामिकर्माण्यपि सञ्चितानि
नश्यन्ति बुद्धस्य पुनर्न जन्म ।
प्रारब्धकर्म त्ववशिष्टमस्ती-
त्युक्तिर्न सत्या परमार्थदृष्ट्या ॥
॥६४२॥यथा मृते भर्तरि सत्यमुष्य
शिष्येत भार्याऽविधवा न काऽपि ।
एवं मृते कर्तरि नैव कर्म
फलप्रदं किञ्चन शिष्टमस्ति ॥
॥६४३॥यथा प्रबोधे सति नैव कर्म
स्वप्ने कृतं किञ्चन शिष्टमस्ति ।
कर्माज्ञतायां चरितं तथैव
सत्यात्मबोधे सति नास्ति शिष्टम् ॥
॥६४४॥प्रारब्धमस्तीति वचः श्रुतीनां
भवेदिदं त्वज्ञधियोऽनुरोधः ।
तदीयदृष्ट्या फलमस्ति तस्य
बुद्धः शरीरी बत तन्मतेन ॥
॥६४५॥प्रियाप्रिये न स्पृशतो हि बुद्धं
देहं विनैव स्थितमात्मभावे ।
नैष्फल्यमेवं विदुषः कृतीनां
वेदान्तवाचैव निरुक्तमस्ति ॥
॥६४६॥कृत्तेऽपि दग्धे विदुषः शरीरे
च्युतिर्न तस्यास्ति निजस्वरूपात् ।
यथा गुडं चूर्णितमग्नितप्तं
त्यजेन्न माधुर्यरसं स्वकीयम् ॥
॥६४७॥सदेहमुक्तिश्च विदेहमुक्ति-
रुक्ते उभे ह्यज्ञधियोऽनुवृत्या ।
देही भवेन्नैव हि कोऽपि मुक्तो
भवेद्धि मुक्तिः सकलैकरूपा ॥
॥६४८॥प्रारब्धशक्तिर्भविता हि देहे
नात्मस्वरूपेऽस्ति तु शक्तिरस्य ।
तस्मै स्वदेहो विदुषाऽर्पितो यत्
कथं नु बाध्येत स तेन बुद्धः ॥
॥६४९॥प्रारब्धकर्मार्पित देहकोऽसौ
बुद्धोऽस्ति देहे ममता विनैव ।
एवं स्फुटं शङ्करदेशिकेन
दिष्टं मनीषाभिधपञ्चकेऽस्ति ॥
॥६५०॥सूक्ष्मं शरीरं विदुषोऽस्ति शिष्ट-
मित्युच्यते चेदिह कारणाख्यम् ।
अज्ञानरूपं निधनं गतं यत्
सूक्ष्मेण सङ्गो विदुषः कथं स्यात् ॥
॥६५१॥ब्रह्मास्त्यसङ्गं हि तथैव बुद्धो
भवत्यसङ्गो हि भवे यथा खम् ।
वपुर्विकारा उत मानसाश्च
बुद्धं कथञ्चिन्न हि संस्पृशन्ति ॥
॥६५२॥जागर्ति यो नैजपदे प्रबुद्धो
याने सुषुप्तस्य समः स उक्तः ।
यानस्य तुल्यं गदितं शरीरं
तुरङ्गवच्चापि दशेन्द्रियाणि ॥
॥६५३॥गतिं स्थितिं वाजिवियोजनं च
यानस्य नो वेत्ति हि तत्र सुप्तः ।
एवं सुषुप्तश्च शरीरयाने
न वेत्ति बुद्धो हि शरीरभावान् ॥
॥६५४॥बुद्धस्तु तिष्ठन् सहजे समाधौ
कर्माणि कुर्वन्निव लक्ष्यतेऽज्ञैः ।
नानाऽप्यवस्था भजतीव भाति
ता वीक्ष्य मुह्यन्त्यविवेकिनस्तु ॥
॥६५५॥सुप्तिः समाधिश्च शरीरचेष्टा
इति त्रिधा भान्ति हि तस्य भावाः ।
एनांश्च भिन्ना इति मन्यतेऽज्ञो
विलोक्य बुद्धस्य शरीरमात्रम् ॥
॥६५६॥सदैकधैवास्ति तु सम्प्रबुद्ध-
स्तस्य स्थितिर्नित्यसमाधिरेव ।
न कर्मभिस्तस्य विरोधलेशो
न कर्मणां तेन विरोधलेशः ॥
॥६५७॥द्वे निर्विकल्पे हि समाधिनिष्ठे
स्यात् केवलैका सहजाभिद्याऽन्या ।
न केवलां प्राप्य भवेत् प्रबुद्धः
स एव बुद्धः सहजस्थितो यः ॥
॥६५८॥यः केवलो नाम समाधिरुक्तः
स योगिनः स्यान्मनसो लयेन ।
समाधिरुत्थानमिति प्रसिद्धे
स्थिती विभिन्ने भवतोऽस्य लोके ॥
॥६५९॥मनः समाधौ बत योगिनोऽस्य
सवासनं ह्येव भवेद्विलीनम् ।
स्थित्वा समाधौ सुचिरं च सोऽयं
व्युत्थाप्यते वासनया भवाय ॥
॥६६०॥यदा समाधेरयमुत्थितः स्यात्
पूर्वोज्झितां संसृतिमाददाति ।
सम्मोहनद्रव्यविनष्टबोधः
कर्मासमाप्तं प्रतिबुध्य यद्वत् ॥
॥६६१॥संसारमेवं प्रतिपद्य योगी
भूयः समाधिं प्रविशेत् प्रयत्नात् ।
बुद्धस्त्वयत्नः सहजस्थितत्वा-
न्न तं विमुञ्चत्यपि नाददाति ॥
॥६६२॥न संसृतिं याति कदाऽपि बुद्धः
समाधिरेव प्रकृतिर्हि तस्य ।
विना समाधिं स कदाऽपि नास्ती-
त्यतः समाधिः सहजाभिधोऽयम् ॥
॥६६३॥अप्रच्युतोऽसौ निजसत्यभावात्
स्थितः सदा स्वे सहजे समाधौ ।
जीवन् विमुक्तो व्यवहर्तुमीष्टे
लोके यथा शङ्करदेशिकाद्याः ॥
॥६६४॥योगी यदा केवलभावमग्न-
स्तदा न शक्नोति हि कर्म कर्तुम् ।
यदोत्थितोऽसौ भविता समाधेः
करोति कर्माज्ञतया तदानीम् ॥
॥६६५॥तत्त्वोपदेशेऽपि मुमुक्षुपुंसां
भवेत् समर्थो न स योगिमर्त्यः ।
तिष्ठान् सदैवाच्युत एव तुर्ये
शास्ता समर्थोऽस्ति तु बुद्ध एव ॥
॥६६६॥नाङ्गीकृताऽसौ सहजा स्थितिश्चेद्
गीतादिशास्त्राणि मृषेति सिद्ध्येत् ।
बुद्धोपदेशैर्भरितत्वहेतोः
शास्त्रं प्रमाणं हि मुमुक्षुपुंसाम् ॥
॥६६७॥परम्पराऽसौ खलु बुद्धपुंसां
मुमुक्षुलोकोद्धरणार्थमेव ।
रक्षत्यविच्छिन्नतया सदैव
सुज्ञानशास्त्रस्य सुसम्प्रदायम् ॥
॥६६८॥अन्त्यं प्रमाणं हि निजानुभूति-
र्न संशयानामुदयोऽस्ति यत्र ।
तावत् प्रमाणानि हि बुद्धवाचो
लभ्येत यावन्न तथानुभूतिः ॥
॥६६९॥गत्वाऽम्बुधिं तन्मयतां गताया
नद्याः समो बुद्ध उदीरितोऽस्ति ।
कूपे निमग्नस्य घटस्य तुल्यो
रज्ज्वा निबद्धस्य तु केवलस्थः ॥
॥६७०॥घटः सरज्जुर्हि विकृष्यमाणो
रज्ज्वा बहिर्याति पुनश्च कूपात् ।
एवं मनः केवलभावमग्नं
विकृष्यते वासनया भवाय ॥
॥६७१॥नैष्कर्म्यमेवं सहजस्थितस्य
स्फुटीकृतं नो भगवत्तमेन ।
विद्वानकर्ताऽपि भवन् स्वभावात्
कर्ता महांश्चापि भवत्यसङ्गः ॥
॥६७२॥सत्सङ्गतिर्नाम निगद्यते या
बुद्धस्य पुंसः खलु सङ्गतिः सा ।
अर्थो भवेद् ब्रह्म हि सत्पदस्य
तदात्मकोऽसौ भविता हि बुद्धः ॥
॥६७३॥ब्रह्मैव सर्वोऽपि हि को विशेषः
प्रबुद्धपुंसीति न शङ्कनीयम् ।
अहन्तयाऽन्यत्र हृतप्रभं सत्
पूर्णप्रभं तत्तु विभाति बुद्धे ॥
॥६७४॥सङ्गं प्रबुद्धस्य भजन् मुमुक्षुः
सङ्गात् समस्तादपि मुक्तिमेति ।
निस्सङ्गभावेन निरस्तमोहो
यात्येकतां निश्चलचित्स्वरूपे ॥
॥६७५॥सत्सङ्गसञ्जातनिजस्वरूपा-
न्वेषेण लभ्यं परमं पदं यत् ।
शास्त्रार्थबोधाच्छ्रवणादिभिर्वा
साध्यं न तन्नेतरसाधनैर्वा ॥
॥६७६॥सत्सङ्गतिं चेद् भजते मुमुक्षु-
श्चरेत् किमर्थं नियमान् यथाऽन्ये ।
शीतो वहेद् दक्षिणमारुतश्चेत्
किमर्थमिच्छेद् व्यजनं तदानीम् ॥
॥६७७॥तापं शशी कल्पतरुश्च दैन्यं
हरेच्च गङ्गा बत पापमात्रम् ।
वीक्षा सतां नाशयति त्रयं च
न तत्समं किञ्चन विद्यतेऽन्यत् ॥
॥६७८॥समानि सद्भिर्न जलात्मकानि
तीर्थानि देवाश्च मृदादिमात्राः ।
पुनन्ति तानि ह्यतिदीर्घकालात्
सन्दर्शनादेव पुनन्ति बुद्धाः ॥
॥६७९॥गङ्गाम्भसि स्नानफलं विनाशः
पापस्य पुंसो न तु पापकर्तुः ।
सङ्गात् सतां नश्यति पापकर्ता
न तत्समं पावनमस्ति लोके ॥
॥६८०॥मृत्युञ्जयोऽसौ त्रिपुरान्तकोऽसौ
स्मरान्तकोऽसौ नरकान्तकश्च ।
स हीश्वराणामपि चात्मभूत-
स्तमेव सर्वेऽपि हि पूजयन्ति ॥
॥६८१॥नीतं यदन्तं वपुषां त्रयं च
ज्ञानेन तेन त्रिपुरान्तकोऽसौ ।
नीतोऽहमाख्यो निधनं च तेने-
त्यतः स बुद्धो नरकान्तकश्च ॥
॥६८२॥अहं स्वयं बुद्ध इति ब्रवीति
गीतासु कृष्णो भगवान् स्वयं यत् ।
न कोऽपि तस्यास्ति समोऽधिको वा
न मीयते तन्महिमा कथञ्चित् ॥
॥६८३॥यतः प्रबुद्धः पर एव साक्षात्
तस्योपदेशाः परमं प्रमाणम् ।
ततः परं तस्य वचोभिरेव
प्रामाण्यमस्ति श्रुतिशीर्षवाचाम् ॥
॥६८४॥परात्मशक्तेः करुणाभिधाया
रूपं द्वितीयं हि गुरुः प्रबुद्धः ।
अतः सुभक्त्या स्वगुरुं प्रबुद्धं
भजन् मुमुक्षुर्भविता कृतार्थः ॥
॥६८५॥शक्तिः शुभा काचन सन्निधाने
बुद्धस्य पुंसोऽस्ति सुदूरतश्च ।
त्यजेत नो कोऽपि तया गृहीतः
परं तु नीयेत विमुक्तिमेव ॥
॥६८६॥व्याघ्रेण यद्वद्धरिणो गृहीतो
तदन्नतामेति तथैव साधुः ।
ध्रुवं प्रबुद्धेन दृशा गृहीत-
स्तद्भावमेतीति गुरुर्जगाद ॥
॥६८७॥बहिः स्थितोऽन्तर्मुखतां विधाया-
प्यन्तः स्थितोऽन्तश्च विकृष्य चित्तम् ।
परे पदे स्वे विदधाति निष्ठां
साधोः प्रबुद्धो हि गुरुः स्वशक्त्या ॥
॥६८८॥अगोचरोऽसौ वचसो धियोऽपि
निष्ठा हि बुद्धस्य पदे परस्मिन् ।
बोधाय साधोस्तु यथाकथञ्चित्
किञ्चित् प्रबुद्धैरिदमुक्तमस्ति ॥
॥६८९॥व्याख्यात एवं सहजात्मभावः
ससाधनोऽसौ गुरुणोपदिष्टः ।
अथोपदेशेष्विह सार एष
निरुच्यते साध्ववधारणाय ॥
॥६९०॥विश्वं स्वदृश्यं च तदीक्षकं स्वं
जानाति लोके सकलोऽपि जन्तुः ।
स्वतश्च सत्यं द्वयमप्यवैति
मोहस्त्वयं संसृतिहेतुरस्य ॥
॥६९१॥सत्यं स्वतश्चेदुभयं तदेतत्
भायाद्विच्छिन्नतया सदैव ।
कदाऽपि भातं च कदाप्यभातं
भवेत् तु यत् तत् कथमस्तु सत्यम् ॥
॥६९२॥प्रकाशते मानसचेष्टयैव
स्वप्नेऽपि जाग्रत्युभयं तदेतत् ।
भाति द्वयं नैव सुषुप्तिभावे
ततो मनोमात्रमिदं द्वयं च ॥
॥६९३॥यस्मिन् मनो याति लयं च यस्मा-
दुदेति भूयोऽपि तदेव सत्यम् ।
लयोदयाभ्यां रहितं तदेतत्
सत्यं स्वतो मुक्तिपदं मुमुक्षोः ॥
॥६९४॥सत्ताप्रदं तज्जगतोऽखिलस्य
ब्रह्माभिधानं परिपूर्णमेकम् ।
चैतन्यदीप्तिं मनसे तदेव
ददाति चैतन्यविवर्जिताय ॥
॥६९५॥अन्तर्हृदि स्वात्मतया तदेव
साक्षीव निश्चिन्तनमस्त्यसङ्गम् ।
आच्छाद्यते तत्तु बहिर्मुखत्वे
मृषाप्रपञ्चेन मनोमयेन ॥
॥६९६॥अतो न तं कश्चन वेत्ति लोके
पश्यन्निदं सत्यवदेव मोहात् ।
शरीरमेवात्मतयाऽपि मत्वा
भ्राम्यत्यसङ्ख्येषु भवेषु दुःखी ॥
॥६९७॥तेनात्मरूपेण परेण विश्व-
माच्छादनीयं तु मनोविनाशात् ।
भायात् तदैव प्रतिबन्धहीनं
ह्यात्मस्वरूपं विमलं यथावत् ॥
॥६९८॥विवेकवैराग्ययुतो विमुक्त्यै
गुरूक्तमार्गेण यदा यतेत ।
मूले निजे ब्रह्मणि जन्म लब्ध्वा
विमुच्यतेऽसौ भवबन्धपाशैः ॥
॥६९९॥कृत्वा मनोऽन्तर्मुखमस्तचिन्तं
निमज्य चान्तर्निजमार्गणेन ।
मनोविनाशेन विनष्टमोहो
भवेद्विमुक्तः स नरः प्रबुद्धः ॥
॥७००॥परात्परं यत् सकलात्मभूत-
मस्मद्गुरुः श्रीरमणो बभूव ।
यावद् भविष्यत्यहमो विनाशः
सहस्रशः सन्तु नमांसि तस्मै ॥
॥७०१॥॥ ॐ नमो भगवते श्रीरमणाय ॥