मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टमोऽध्यायः

3
मनुस्मृतिः · 8

व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः

मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम्

॥१॥

तत्रासीनः स्थितो वापि पाणिमुद्यम्य दक्षिणम्

विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम्

॥२॥

प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः

अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक्

॥३॥

तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः

संभूय च समुत्थानं दत्तस्यानपकर्म च

॥४॥

वेतनस्यैव चादानं संविदश्च व्यतिक्रमः

क्रयविक्रयानुशयो विवादः स्वामिपालयोः

॥५॥

सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके

स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च

॥६॥

स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च

पदान्यष्टादशैतानि व्यवहारस्थिताविह

॥७॥

एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम्

धर्मं शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम्

॥८॥

यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम्

तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने

॥९॥

सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः

सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा

॥१०॥

यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः

राज्ञश्चाधिकृतो विद्वान्ब्रह्मणस्तां सभां विदुः

॥११॥

धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते

शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः

॥१२॥

सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम्

अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी

॥१३॥

यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च

हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः

॥१४॥

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः

तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत्

॥१५॥

वृषो हि भगवान्धर्मस्तस्य यः कुरुते ह्यलम्

वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत्

॥१६॥

एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः

शरीरेण समं नाशं सर्वमन्यद्धि गच्छति

॥१७॥

पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति

पादः सभासदः सर्वान्पादो राजानमृच्छति

॥१८॥

राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः

एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते

॥१९॥

जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः

धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथं चन

॥२०॥

यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम्

तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः

॥२१॥

यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम्

विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम्

॥२२॥

धर्मासनमधिष्ठाय संवीताङ्गः समाहितः

प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत्

॥२३॥

अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ

वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम्

॥२४॥

बाह्यैर्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम्

स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च

॥२५॥

आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च

नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः

॥२६॥

बालदायादिकं रिक्थं तावद्राजानुपालयेत्

यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः

॥२७॥

वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च

पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च

॥२८॥

जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः

ताञ्शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः

॥२९॥

प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्

अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत्

॥३०॥

ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि

संवाद्य रूपसंख्यादीन्स्वामी तद्द्रव्यमर्हति

॥३१॥

अवेदयानो नष्टस्य देशं कालं च तत्त्वतः

वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति

॥३२॥

आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः

दशमं द्वादशं वापि सतां धर्ममनुस्मरन्

॥३३॥

प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम्

यांस्तत्र चौरान्गृह्णीयात्तान्राजेभेन घातयेत्

॥३४॥

ममायमिति यो ब्रूयान्निधिं सत्येन मानवः

तस्याददीत षड्भागं राजा द्वादशमेव वा

॥३५॥

अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम्

तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम्

॥३६॥

विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम्

अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः

॥३७॥

यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ

तस्माद्द्विजेभ्यो दत्त्वार्धमर्धं कोशे प्रवेशयेत्

॥३८॥

निधीनां तु पुराणानां धातूनामेव च क्षितौ

अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः

॥३९॥

दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम्

राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम्

॥४०॥

जातिजानपदान्धर्मान्श्रेणीधर्मांश्च धर्मवित्

समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत्

॥४१॥

स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः

प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः

॥४२॥

नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः

न च प्रापितमन्येन ग्रसेदर्थं कथं चन

॥४३॥

यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम्

नयेत्तथानुमानेन धर्मस्य नृपतिः पदम्

॥४४॥

सत्यमर्थं च संपश्येदात्मानमथ साक्षिणः

देशं रूपं च कालं च व्यवहारविधौ स्थितः

॥४५॥

सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः

तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत्

॥४६॥

अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः

दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम्

॥४७॥

यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः

तैर्तैरुपायैः संगृह्य दापयेदधमर्णिकम्

॥४८॥

धर्मेण व्यवहारेण छलेनाचरितेन च

प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च

॥४९॥

यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात्

न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम्

॥५०॥

अर्थेऽपव्ययमानं तु करणेन विभावितम्

दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः

॥५१॥

अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि

अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत्

॥५२॥

अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः

यश्चाधरोत्तरानर्थान्विगीतान्नावबुध्यते

॥५३॥

अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति

सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति

॥५४॥

असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः

निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत्

॥५५॥

ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत्

न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते

॥५६॥

साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः

धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत्

॥५७॥

अभियोक्ता न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः

न चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः

॥५८॥

यो यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत्

तौ नृपेण ह्यधर्मज्ञौ दाप्यो तद्द्विगुणं दमम्

॥५९॥

पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा

त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ

॥६०॥

यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः

तादृशान्संप्रवक्ष्यामि यथा वाच्यमृतं च तैः

॥६१॥

गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः

अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि

॥६२॥

आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः

सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत्

॥६३॥

नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः

न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः

॥६४॥

न साक्षी नृपतिः कार्यो न कारुककुशीलवौ

न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः

॥६५॥

नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत्

न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः

॥६६॥

नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः

न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः

॥६७॥

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः

शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः

॥६८॥

अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम्

अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये

॥६९॥

स्त्रियाप्यसंभावे कार्यं बालेन स्थविरेण वा

शिष्येण बन्धुना वापि दासेन भृतकेन वा

॥७०॥

बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा

जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा

॥७१॥

साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च

वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः

॥७२॥

बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः

समेषु तु गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान्

॥७३॥

समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति

तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते

॥७४॥

साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि

अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते

॥७५॥

यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किं चन

पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम्

॥७६॥

एकोऽलुब्धस्तु साक्षी स्याद्बह्व्यः शुच्योऽपि न स्त्रियः

स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः

॥७७॥

स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्

अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम्

॥७८॥

सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ

प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्वयन्

॥७९॥

यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः

तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता

॥८०॥

सत्यं साक्ष्ये ब्रुवन्साक्षी लोकानाप्नोति पुष्कलान्

इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता

॥८१॥

साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम्

विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम्

॥८२॥

सत्येन पूयते साक्षी धर्मः सत्येन वर्धते

तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः

॥८३॥

आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः

मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम्

॥८४॥

मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः

तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः

॥८५॥

द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः

रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम्

॥८६॥

देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान्

उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन्

॥८७॥

ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम्

गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः

॥८८॥

ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः

मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा

॥८९॥

जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम्

तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा

॥९०॥

एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे

नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः

॥९१॥

यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः

तेन चेदविवादस्ते मा गङ्गां मा कुरून्गमः

॥९२॥

नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः

अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत्

॥९३॥

अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत्

यः प्रश्नं वितथं ब्रूयात्पृष्टः सन्धर्मनिश्चये

॥९४॥

अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह

यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः

॥९५॥

यस्य विद्वान्हि वदतः क्षेत्रज्ञो नाभिशङ्कते

तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः

॥९६॥

यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन्

तावतः संख्यया तस्मिन्शृणु सौम्यानुपूर्वशः

॥९७॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते

शतमश्वानृते हन्ति सहस्रं पुरुषानृते

॥९८॥

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन्

सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः

॥९९॥

अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने

अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च

॥१००॥

एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे

यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद

॥१०१॥

गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान्

प्रेष्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत्

॥१०२॥

तद्वदन्धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः

न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम्

॥१०३॥

शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद्वधः

तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते

॥१०४॥

वाग्गैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम्

अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम्

॥१०५॥

कूष्माण्डैर्वापि जुहुयाद्घृतमग्नौ यथाविधि

उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा

॥१०६॥

त्रिपक्षादब्रुवन्साक्ष्यमृणादिषु नरोऽगदः

तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः

॥१०७॥

यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः

रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः

॥१०८॥

असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः

अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत्

॥१०९॥

महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः

वसिष्ठश्चापि शपथं शेपे पैजवने नृपे

॥११०॥

न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः

वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति

॥१११॥

कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने

ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्

॥११२॥

सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः

गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः

॥११३॥

अग्निं वाहारयेदेनमप्सु चैनं निमज्जयेत्

पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक्

॥११४॥

यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च

न चार्तिमृच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः

॥११५॥

वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा

नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः

॥११६॥

यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत्

तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत्

॥११७॥

लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च

अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते

॥११८॥

एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत्

तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः

॥११९॥

लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम्

भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम्

॥१२०॥

कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम्

अज्ञानाद्द्वे शते पूर्णे बालिश्याच्छतमेव तु

॥१२१॥

एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः

धर्मस्याव्यभिचारार्थमधर्मनियमाय च

॥१२२॥

कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः

प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत्

॥१२३॥

दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत्

त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत्

॥१२४॥

उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्

चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च

॥१२५॥

अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः

सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत्

॥१२६॥

अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम्

अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत्

॥१२७॥

अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्

अयशो महदाप्नोति नरकं चैव गच्छति

॥१२८॥

वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम्

तृतीयं धनदण्डं तु वधदण्डमतः परम्

॥१२९॥

वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात्

तदैषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम्

॥१३०॥

लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि

ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः

॥१३१॥

जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः

प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते

॥१३२॥

त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः

ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः

॥१३३॥

सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम्

पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश

॥१३४॥

पलं सुवर्णाश्चत्वारः पलानि धरणं दश

द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः

॥१३५॥

ते षोडश स्याद्धरणं पुराणश्चैव राजतः

कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः

॥१३६॥

धरणानि दश ज्ञेयः शतमानस्तु राजतः

चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः

॥१३७॥

पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः

मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः

॥१३८॥

ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति

अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम्

॥१३९॥

वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम्

अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते

॥१४०॥

द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन्

द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी

॥१४१॥

द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम्

मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः

॥१४२॥

न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात्

न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः

॥१४३॥

न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत्

मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत्

॥१४४॥

आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः

अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ

॥१४५॥

संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन

धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते

॥१४६॥

यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी

भुज्यमानं परैस्तूष्णीं न स तल्लब्धुमर्हति

॥१४७॥

अजडश्चेदपोगण्डो विषये चास्य भुज्यते

भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यमर्हति

॥१४८॥

आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः

राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति

॥१४९॥

यः स्वामिनाननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः

तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः

॥१५०॥

कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता

धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम्

॥१५१॥

कृतानुसारादधिका व्यतिरिक्ता न सिध्यति

कुसीदपथमाहुस्तं पञ्चकं शतमर्हति

॥१५२॥

नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत्

चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या

॥१५३॥

ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम्

स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत्

॥१५४॥

अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत्

यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति

॥१५५॥

चक्रवृद्धिं समारूढो देशकालव्यवस्थितः

अतिक्रामन्देशकालौ न तत्फलमवाप्नुयात्

॥१५६॥

समुद्रयानकुशला देशकालार्थदर्शिनः

स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति

॥१५७॥

यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः

अदर्शयन्स तं तस्य प्रयच्छेत्स्वधनादृणम्

॥१५८॥

प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत्

दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति

॥१५९॥

दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः

दानप्रतिभुवि प्रेते दायादानपि दापयेत्

॥१६०॥

अदातरि पुनर्दाता विज्ञातप्रकृतावृणम्

पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना

॥१६१॥

निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः

स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः

॥१६२॥

मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा

असंबद्धकृतश्चैव व्यावहारो न सिध्यति

॥१६३॥

सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता

बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात्

॥१६४॥

योगाधमनविक्रीतं योगदानप्रतिग्रहम्

यत्र वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत्

॥१६५॥

ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः

दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः

॥१६६॥

कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत्

स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत्

॥१६७॥

बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम्

सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत्

॥१६८॥

त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्

चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः

॥१६९॥

अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः

न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत्

॥१७०॥

अनादेयस्य चादानादादेयस्य च वर्जनात्

दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति

॥१७१॥

स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात्

बलं संजायते राज्ञः स प्रेत्येह च वर्धते

॥१७२॥

तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये

वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः

॥१७३॥

यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः

अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः

॥१७४॥

कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति

प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः

॥१७५॥

यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे

स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम्

॥१७६॥

कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः

समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः

॥१७७॥

अनेन विधिना राजा मिथो विवदतां नृणाम्

साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत्

॥१७८॥

कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि

महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः

॥१७९॥

यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः

स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः

॥१८०॥

यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति

स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ

॥१८१॥

साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः

अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः

॥१८२॥

स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्

न तत्र विद्यते किं चिद्यत्परैरभियुज्यते

॥१८३॥

तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि

उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा

॥१८४॥

निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे

नश्यतो विनिपाते तावनिपाते त्वनाशिनौ

॥१८५॥

स्वयमेव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे

न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः

॥१८६॥

अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम्

विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत्

॥१८७॥

निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने

समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत्

॥१८८॥

चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा

न दद्याद्यदि तस्मात्स न संहरति किं चन

॥१८९॥

निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च

सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः

॥१९०॥

यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते

तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम्

॥१९१॥

निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम्

तथोपनिधिहर्तारमविशेषेण पार्थिवः

॥१९२॥

उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः

ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः

॥१९३॥

निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ

तावानेव स विज्ञेयो विब्रुवन्दण्डमर्हति

॥१९४॥

मिथो दायः कृतो येन गृहीतो मिथ एव वा

मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः

॥१९५॥

निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च

राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम्

॥१९६॥

विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः

न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्

॥१९७॥

अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम्

निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम्

॥१९८॥

अस्वामिना कृतो यस्तु दायो विक्रय एव वा

अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः

॥१९९॥

संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित्

आगमः कारणं तत्र न संभोग इति स्थितिः

॥२००॥

विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ

क्रयेण स विशुद्धं हि न्यायतो लभते धनम्

॥२०१॥

अथ मूलमनाहार्यं प्रकाशक्रयशोधितः

अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्

॥२०२॥

नान्यदन्येन संसृष्टरूपं विक्रयमर्हति

न चासारं न च न्यूनं न दूरेण तिरोहितम्

॥२०३॥

अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते

उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः

॥२०४॥

नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना

पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति

॥२०५॥

ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत्

तस्य कर्मानुरूपेण देयोऽंशः सहकर्तृभिः

॥२०६॥

दक्षिणासु च दत्तासु स्वकर्म परिहापयन्

कृत्स्नमेव लभेतांशमन्येनैव च कारयेत्

॥२०७॥

यस्मिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः

स एव ता आदिदीत भजेरन्सर्व एव वा

॥२०८॥

रथं हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम्

होता वापि हरेदश्वमुद्गाता चाप्यनः क्रये

॥२०९॥

सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे

तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः

॥२१०॥

संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः

अनेन विधियोगेन कर्तव्यांशप्रकल्पना

॥२११॥

धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम्

पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत्

॥२१२॥

यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः

राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः

॥२१३॥

दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया

अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम्

॥२१४॥

भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम्

स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम्

॥२१५॥

आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः

स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम्

॥२१६॥

यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत्

न तस्य वेतनं देयमल्पोनस्यापि कर्मणः

॥२१७॥

एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः

अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम्

॥२१८॥

यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम्

विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत्

॥२१९॥

निगृह्य दापयेच्चैनं समयव्यभिचारिणम्

चतुःसुवर्णान्षण्निष्कांश्छतमानं च राजकम्

॥२२०॥

एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः

ग्रामजातिसमूहेषु समयव्यभिचारिणाम्

॥२२१॥

क्रीत्वा विक्रीय वा किं चिद्यस्येहानुशयो भवेत्

सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा

॥२२२॥

परेण तु दशाहस्य न दद्यान्नापि दापयेत्

आददानो ददत्चैव राज्ञा दण्ड्यौ शतानि षट्

॥२२३॥

यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति

तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान्

॥२२४॥

अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः

स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन्

॥२२५॥

पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः

नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः

॥२२६॥

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्

तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे

॥२२७॥

यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत्

तमनेन विधानेन धर्म्ये पथि निवेशयेत्

॥२२८॥

पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे

विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः

॥२२९॥

दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे

योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात्

॥२३०॥

गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम्

गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः

॥२३१॥

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम्

हीनं पुरुषकारेण प्रदद्यात्पाल एव तु

॥२३२॥

विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति

यदि देशे च काले च स्वामिनः स्वस्य शंसति

॥२३३॥

कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम्

पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत्

॥२३४॥

अजाविके तु संरुद्धे वृकैः पाले त्वनायति

यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत्

॥२३५॥

तासां चेदवरुद्धानां चरन्तीनां मिथो वने

यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी

॥२३६॥

धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः

शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु

॥२३७॥

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि

न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम्

॥२३८॥

वृतिं तत्र प्रकुर्वीत यामुष्ट्रो न विलोकयेत्

छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम्

॥२३९॥

पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः

सपालः शतदण्डार्हो विपालान्वारयेत्पशून्

॥२४०॥

क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति

सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा

॥२४१॥

अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा

सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत्

॥२४२॥

क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत्

ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु

॥२४३॥

एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः

स्वामिनां च पशूनां च पालानां च व्यतिक्रमे

॥२४४॥

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः

ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु

॥२४५॥

सींआवृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान्

शाल्मलीन्सालतालांश्च क्षीरिणश्चैव पादपान्

॥२४६॥

गुल्मान्वेणूंश्च विविधान्शमीवल्लीस्थलानि च

शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति

॥२४७॥

तडागान्युदपानानि वाप्यः प्रस्रवणानि च

सीमासंधिषु कार्याणि देवतायतनानि च

॥२४८॥

उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत्

सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम्

॥२४९॥

अश्मनोऽस्थीनि गोवालांस्तुषान्भस्म कपालिकाः

करीषमिष्टकाङ्गारांश्शर्करा वालुकास्तथा

॥२५०॥

यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत्

तानि संधिषु सीमायामप्रकाशानि कारयेत्

॥२५१॥

एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः

पूर्वभुक्त्या च सततमुदकस्यागमेन च

॥२५२॥

यदि स्ंशय एव स्याल्लिङ्गानामपि दर्शने

साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः

॥२५३॥

ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः

प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः

॥२५४॥

ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम्

निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः

॥२५५॥

शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः

सुकृतैः शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम्

॥२५६॥

यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः

विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम्

॥२५७॥

साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः

सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ

॥२५८॥

सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम्

इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान्

॥२५९॥

व्याधाञ्शाकुनिकान्गोपान्कैवर्तान्मूलखानकान्

व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः

॥२६०॥

ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम्

तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः

॥२६१॥

क्षेत्रकूपतडागानामारामस्य गृहस्य च

सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः

॥२६२॥

सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम्

सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम्

॥२६३॥

गृहं तडागमारामं क्षेत्रं वा भीषया हरन्

शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः

॥२६४॥

सीमायामविषह्यायां स्वयं राजैव धर्मवित्

प्रदिशेद्भूमिमेकेषामुपकारादिति स्थितिः

॥२६५॥

एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये

अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम्

॥२६६॥

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति

वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति

॥२६७॥

पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने

वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः

॥२६८॥

समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे

वादेष्ववचनीयेषु तदेव द्विगुणं भवेत्

॥२६९॥

एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन्

जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः

॥२७०॥

नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः

निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः

॥२७१॥

धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः

तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः

॥२७२॥

श्रुतं देशं च जातिं च कर्म शरीरमेव च

वितथेन ब्रुवन्दर्पाद्दाप्यः स्याद्द्विशतं दमम्

॥२७३॥

काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम्

तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम्

॥२७४॥

मातरं पितरं जायां भ्रातरं तनयं गुरुम्

आक्षारयञ्शतं दाप्यः पन्थानं चाददद्गुरोः

॥२७५॥

ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता

ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः

॥२७६॥

विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः

छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः

॥२७७॥

एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः

अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम्

॥२७८॥

येन केन चिदङ्गेन हिंस्याच्चेच्छ्रेष्ठमन्त्यजः

छेत्तव्यं तद्तदेवास्य तन्मनोरनुशासनम्

॥२७९॥

पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति

पादेन प्रहरन्कोपात्पादच्छेदनमर्हति

॥२८०॥

सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः

कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत्

॥२८१॥

अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः

अवमूत्रयतो मेढ्रमवशर्धयतो गुदम्

॥२८२॥

केशेषु गृह्णतो हस्तौ छेदयेदविचारयन्

पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च

॥२८३॥

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः

मांसभेत्ता तु षण्निष्कान्प्रवास्यस्त्वस्थिभेदकः

॥२८४॥

वनस्पतीनां सर्वेषामुपभोगो यथा यथा

यथा तथा दमः कार्यो हिंसायामिति धारणा

॥२८५॥

मनुष्याणां पशूनां च दुःखाय प्रहृते सति

यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा

॥२८६॥

अङ्गावपीडनायां च व्रणशोनितयोस्तथा

समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा

॥२८७॥

द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा

स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम्

॥२८८॥

चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु

मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च

॥२८९॥

यानस्य चैव यातुश्च यानस्वामिन एव च

दशातिवर्तनान्याहुः शेषे दण्डो विधीयते

॥२९०॥

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते

अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च

॥२९१॥

छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च

आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत्

॥२९२॥

यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु

तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम्

॥२९३॥

प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति

युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम्

॥२९४॥

स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा

प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः

॥२९५॥

मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत्

प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु

॥२९६॥

क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः

पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु

॥२९७॥

गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः

माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने

॥२९८॥

भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः

प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा

॥२९९॥

पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन

अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चौरकिल्बिषम्

॥३००॥

एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः

स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये

॥३०१॥

परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः

स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते

॥३०२॥

अभयस्य हि यो दाता स पूज्यः सततं नृपः

सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम्

॥३०३॥

सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः

अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः

॥३०४॥

यदधीते यद्यजते यद्ददाति यदर्चति

तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात्

॥३०५॥

रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन्

यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः

॥३०६॥

योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः

प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत्

॥३०७॥

अरक्षितारं राजानं बलिषड्भागहारिणम्

तमाहुः सर्वलोकस्य समग्रमलहारकम्

॥३०८॥

अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम्

अरक्षितारमत्तारं नृपं विद्यादधोगतिम्

॥३०९॥

अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः

निरोधनेन बन्धेन विविधेन वधेन च

॥३१०॥

निग्रहेण हि पापानां साधूनां संग्रहेण च

द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः

॥३११॥

क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम्

बालवृद्धातुराणां च कुर्वता हितमात्मनः

॥३१२॥

यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते

यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति

॥३१३॥

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता

आचक्षाणेन तत्स्तेयमेवंकर्मास्मि शाधि माम्

॥३१४॥

स्कन्धेनादाय मुसलं लगुडं वापि खादिरम्

शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा

॥३१५॥

शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते

अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम्

॥३१६॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी

गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्

॥३१७॥

राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः

निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा

॥३१८॥

यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम्

स दण्डं प्राप्नुयान्माषं तच्च तस्मिन्समाहरेत्

॥३१९॥

धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः

शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम्

॥३२०॥

तथा धरिममेयानां शतादभ्यधिके वधः

सुवर्णरजतादीनामुत्तमानां च वाससाम्

॥३२१॥

पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते

शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत्

॥३२२॥

पुरुषाणां कुलीनानां नारीणां च विशेषतः

मुख्यानां चैव रत्नानां हरणे वधमर्हति

॥३२३॥

महापशूनां हरणे शस्त्राणामौषधस्य च

कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत्

॥३२४॥

गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने

पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः

॥३२५॥

सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च

दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च

॥३२६॥

वेणुवैदलभाण्डानां लवणानां तथैव च

मृण्मयानां च हरणे मृदो भस्मन एव च

॥३२७॥

मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च

मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम्

॥३२८॥

अन्येषां चैवमादीनां मद्यानामोदनस्य च

पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः

॥३२९॥

पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च

अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः

॥३३०॥

परिपूतेषु धान्येषु शाकमूलफलेषु च

निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः

॥३३१॥

स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम्

निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत्

॥३३२॥

यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः

तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात्

॥३३३॥

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते

तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः

॥३३४॥

पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः

नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति

॥३३५॥

कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः

तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा

॥३३६॥

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम्

षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च

॥३३७॥

ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत्

द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः

॥३३८॥

वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च

तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत्

॥३३९॥

योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम्

याजनाध्यापनेनापि यथा स्तेनस्तथैव सः

॥३४०॥

द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके

आददानः परक्षेत्रान्न दण्डं दातुमर्हति

॥३४१॥

असंदितानां संदाता संदितानां च मोक्षकः

दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम्

॥३४२॥

अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम्

यशोऽस्मिन्प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम्

॥३४३॥

ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम्

नोपेक्षेत क्षणमपि राजा साहसिकं नरम्

॥३४४॥

वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः

साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः

॥३४५॥

साहसे वर्तमानं तु यो मर्षयति पार्थिवः

स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति

॥३४६॥

न मित्रकारणाद्राजा विपुलाद्वा धनागमात्

समुत्सृजेत्साहसिकान्सर्वभूतभयावहान्

॥३४७॥

शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते

द्विजातीनां च वर्णानां विप्लवे कालकारिते

॥३४८॥

आत्मनश्च परित्राणे दक्षिणानां च संगरे

स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति

॥३४९॥

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्

आततायिनमायान्तं हन्यादेवाविचारयन्

॥३५०॥

नाततायिवधे दोषो हन्तुर्भवति कश्चन

प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति

॥३५१॥

परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः

उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत्

॥३५२॥

तत्समुत्थो हि लोकस्य जायते वर्णसंकरः

येन मूलहरोऽधर्मः सर्वनाशाय कल्पते

॥३५३॥

परस्य पत्न्या पुरुषः संभाषां योजयन्रहः

पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम्

॥३५४॥

यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात्

न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः

॥३५५॥

परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा

नदीनां वापि संभेदे स संग्रहणमाप्नुयात्

॥३५६॥

उपचारक्रिया केलिः स्पर्शो भूषणवाससाम्

सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम्

॥३५७॥

स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया

परस्परस्यानुमते सर्वं संग्रहणं स्मृतम्

॥३५८॥

अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति

चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा

॥३५९॥

भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा

संभाषनं सह स्त्रीभिः कुर्युरप्रतिवारिताः

॥३६०॥

न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत्

निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति

॥३६१॥

नैष चारणदारेषु विधिर्नात्मोपजीविषु

सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च

॥३६२॥

किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन्

प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च

॥३६३॥

योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति

सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः

॥३६४॥

कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत्

जघन्यं सेवमानां तु संयतां वासयेद्गृहे

॥३६५॥

उत्तमां सेवमानस्तु जघन्यो वधमर्हति

शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि

॥३६६॥

अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः

तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम्

॥३६७॥

सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात्

द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये

॥३६८॥

कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः

शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश

॥३६९॥

या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति

अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा

॥३७०॥

भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता

तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते

॥३७१॥

पुमांसं दाहयेत्पापं शयने तप्त आयसे

अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत्

॥३७२॥

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः

व्रात्यया सह संवासे चाण्डाल्या तावदेव तु

॥३७३॥

शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन्

अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते

॥३७४॥

वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः

सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति

॥३७५॥

ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ

वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम्

॥३७६॥

उभावपि तु तावेव ब्राह्मण्या गुप्तया सह

विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना

॥३७७॥

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन्

शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः

॥३७८॥

मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते

इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत्

॥३७९॥

न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्

राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम्

॥३८०॥

न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि

तस्मादस्य वधं राजा मनसापि न चिन्तयेत्

॥३८१॥

वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत्

यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः

॥३८२॥

सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्

शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः

॥३८३॥

क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः

मूत्रेण मौण्ड्यमिच्छेत्तु क्षत्रियो दण्डमेव वा

॥३८४॥

अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन्

शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम्

॥३८५॥

यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक्

न साहसिकदण्डघ्नो स राजा शक्रलोकभाक्

॥३८६॥

एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके

सांराज्यकृत्सजात्येषु लोके चैव यशस्करः

॥३८७॥

ऋत्विजं यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि

शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम्

॥३८८॥

न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति

त्यजन्नपतितानेतान्राज्ञा दण्ड्यः शतानि षट्

॥३८९॥

आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः

न विब्रूयान्नृपो धर्मं चिकीर्षन्हितमात्मनः

॥३९०॥

यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः

सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत्

॥३९१॥

प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे

अर्हावभोजयन्विप्रो दण्डमर्हति माषकम्

॥३९२॥

श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन्

तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम्

॥३९३॥

अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः

श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित्करम्

॥३९४॥

श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिंचनम्

महाकुलीनमार्यं च राजा संपूजयेत्सदा

॥३९५॥

शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः

न च वासांसि वासोभिर्निर्हरेन्न च वासयेत्

॥३९६॥

तन्तुवायो दशपलं दद्यादेकपलाधिकम्

अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम्

॥३९७॥

शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः

कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत्

॥३९८॥

राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च

ताणि निर्हरतो लोभात्सर्वहारं हरेन्नृपः

॥३९९॥

शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी

मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम्

॥४००॥

आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ

विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ

॥४०१॥

पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते

कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः

॥४०२॥

तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम्

षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत्

॥४०३॥

पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे

पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान्

॥४०४॥

भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः

रिक्तभाण्डानि यत्किं चित्पुमांसश्चापरिच्छदाः

॥४०५॥

दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत्

नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम्

॥४०६॥

गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः

ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे

॥४०७॥

यन्नावि किं चिद्दाशानां विशीर्येतापराधतः

तद्दाशैरेव दातव्यं समागम्य स्वतोऽंशतः

॥४०८॥

एष नौयायिनामुक्तो व्यवहारस्य निर्णयः

दाशापराधतस्तोये दैविके नास्ति निग्रहः

॥४०९॥

वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिमेव च

पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम्

॥४१०॥

क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ

बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत्

॥४११॥

दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान्द्विजान्

अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट्

॥४१२॥

शूद्रं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा

दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा

॥४१३॥

न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते

निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति

॥४१४॥

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ

पैत्रिको दण्डदासश्च सप्तैते दासयोनयः

॥४१५॥

भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः

यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्

॥४१६॥

विस्रब्धं ब्राह्मणः शूद्राद्द्रव्योपादानमाचरेत्

न हि तस्यास्ति किं चित्स्वं भर्तृहार्यधनो हि सः

॥४१७॥

वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत्

तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत्

॥४१८॥

अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च

आयव्ययौ च नियतावाकरान्कोशमेव च

॥४१९॥

एवं सर्वानिमान्राजा व्यवहारान्समापयन्

व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम्

॥४२०॥