- १ॐ स्ववाग्देवतासरिद्भक्तविमलीकर्त्रे नमः
- २ॐ राघवेन्द्राय नमः
- ३ॐ सकलप्रदात्रे नमः
- ४ॐ भक्तौघसम्भेदनदृष्टिवज्राय नमः
- ५ॐ क्षमासुरेन्द्राय नमः
- ६ॐ हरिपादकञ्जनिषेवणाल्लब्धसमस्तसम्पदे नमः
- ७ॐ देवस्वभावाय नमः
- ८ॐ दिविजद्रुमाय नमः
- ९ॐ इष्टप्रदात्रे नमः
- १०ॐ भव्यस्वरूपाय नमः
- ११ॐ भवदुःखतूलसङ्घाग्निचर्याय नमः
- १२ॐ सुखधैर्यशालिने नमः
- १३ॐ समस्तदुष्टग्रहनिग्रहेशाय नमः
- १४ॐ दुरत्ययोपप्लवसिन्धुसेतवे नमः
- १५ॐ निरस्तदोषाय नमः
- १६ॐ निरवद्यदेहाय नमः
- १७ॐ प्रत्यर्थिमूकत्वविधानभाषाय नमः
- १८ॐ विद्वत्परिज्ञेयमहाविशेषाय नमः
- १९ॐ वाग्वैखरीनिर्जितभव्यशेषाय नमः
- २०ॐ सन्तानसम्पत्परिशुद्धभक्तिविज्ञानवाग्देहसुपाटवादिदात्रे नमः
- २१ॐ शरीरोत्थसमस्तदोषहन्त्रे नमः
- २२ॐ श्रीगुरुराघवेन्द्राय नमः
- २३ॐ तिरस्कृतसुरनदीजलपादोदकमहिमवते नमः
- २४ॐ दुस्तापत्रयनाशनाय नमः
- २५ॐ महावन्ध्यासुपुत्रदायकाय नमः
- २६ॐ व्यङ्गस्वङ्गसमृद्धिदाय नमः
- २७ॐ ग्रहपापापहाय नमः
- २८ॐ दुरितकाननदावभूतस्वभक्तिदर्शनाय नमः
- २९ॐ सर्वतन्त्रस्वतन्त्राय नमः
- ३०ॐ श्रीमध्वमतवर्धनाय नमः
- ३१ॐ विजयेन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकाय नमः
- ३२ॐ यतिराजाय नमः
- ३३ॐ गुरवे नमः
- ३४ॐ भयापहाय नमः
- ३५ॐ ज्ञानभक्तिसुपुत्रायुर्यशःश्रीपुण्यवर्धनाय नमः
- ३६ॐ प्रतिवादिजयस्वान्तभेदचिह्नादराय नमः
- ३७ॐ सर्वविद्याप्रवीणाय नमः
- ३८ॐ अपरोक्षीकृतश्रीशाय नमः
- ३९ॐ अपेक्षितप्रदात्रे नमः
- ४०ॐ दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्किताय नमः
- ४१ॐ शापानुग्रहशक्ताय नमः
- ४२ॐ अज्ञानविस्मृतिभ्रान्तिसंशयापस्मृतिक्षयदोषनाशकाय नमः
- ४३ॐ अष्टाक्षरजपेष्टार्थप्रदात्रे नमः
- ४४ॐ अध्यात्मसमुद्भवकायजदोषहन्त्रे नमः
- ४५ॐ सर्वपुण्यार्थप्रदात्रे नमः
- ४६ॐ कालत्रयप्रार्थनाकर्त्रैहिकामुष्मिकसर्वेष्टप्रदात्रे नमः
- ४७ॐ अगम्यमहिम्ने नमः
- ४८ॐ महायशसे नमः
- ४९ॐ मध्वमतदुग्धाब्धिचन्द्राय नमः
- ५०ॐ अनघाय नमः
- ५१ॐ यथाशक्तिप्रदक्षिणकृतसर्वयात्राफलदात्रे नमः
- ५२ॐ शिरोधारणसर्वतीर्थस्नानफलदातृस्वबृन्दावनगतजलाय नमः
- ५३ॐ नमस्करणसर्वाभीष्टदात्रे नमः
- ५४ॐ सङ्कीर्तनवेदाद्यर्थज्ञानदात्रे नमः
- ५५ॐ संसारमग्नजनोद्धारकर्त्रे नमः
- ५६ॐ कुष्ठादिरोगनिवर्तकाय नमः
- ५७ॐ अन्धदिव्यदृष्टिदात्रे नमः
- ५८ॐ एडमूकवाक्पतित्वप्रदात्रे नमः
- ५९ॐ पूर्णायुःप्रदात्रे नमः
- ६०ॐ पूर्णसम्पत्प्रदात्रे नमः
- ६१ॐ कुक्षिगतसर्वदोषघ्ने नमः
- ६२ॐ पङ्गुखञ्जसमीचीनावयवदात्रे नमः
- ६३ॐ भूतप्रेतपिशाचादिपीडाघ्ने नमः
- ६४ॐ दीपसंयोजनज्ञानपुत्रदात्रे नमः
- ६५ॐ भव्यज्ञानभक्त्यादिवर्धनाय नमः
- ६६ॐ सर्वाभीष्टप्रदाय नमः
- ६७ॐ राजचोरमहाव्याघ्रसर्पनक्रादिपीडाघ्ने नमः
- ६८ॐ स्वस्तोत्रपठनेष्टार्थसमृद्धिदाय नमः
- ६९ॐ उद्यत्प्रद्योतनद्योतधर्मकूर्मासनस्थाय नमः
- ७०ॐ खद्यखद्योतनद्योतप्रतापाय नमः
- ७१ॐ श्रीराममानसाय नमः
- ७२ॐ धृतकाषायवसनाय नमः
- ७३ॐ तुलसीहारवक्षसे नमः
- ७४ॐ दोर्दण्डविलसद्दण्डकमण्डलुविराजिताय नमः
- ७५ॐ अभयज्ञानमुद्राक्षमालाशीलकराम्बुजाय नमः
- ७६ॐ योगेन्द्रवन्द्यपादाब्जाय नमः
- ७७ॐ पापाद्रिपाटनवज्राय नमः
- ७८ॐ क्षमासुरगणाधीशाय नमः
- ७९ॐ हरिसेवालब्धसर्वसम्पदे नमः
- ८०ॐ तत्त्वप्रदर्शकाय नमः
- ८१ॐ भव्यकृते नमः
- ८२ॐ बहुवादिविजयिने नमः
- ८३ॐ पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयाय नमः
- ८४ॐ द्युनदीतुल्यसद्गुणाय नमः
- ८५ॐ भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकाय नमः
- ८६ॐ जगद्गुरवे नमः
- ८७ॐ कृपानिधये नमः
- ८८ॐ सर्वशास्त्रविशारदाय नमः
- ८९ॐ निखिलेन्द्रियदोषघ्ने नमः
- ९०ॐ अष्टाक्षरमनूदिताय नमः
- ९१ॐ सर्वसौख्यकृते नमः
- ९२ॐ मृतपोतप्राणदात्रे नमः
- ९३ॐ वेदिस्थपुरुषोज्जीविने नमः
- ९४ॐ वह्निस्थमालिकोद्धर्त्रे नमः
- ९५ॐ समग्रटीकाव्याख्यात्रे नमः
- ९६ॐ भाट्टसङ्ग्रहकृते नमः
- ९७ॐ सुधापरिमलोद्धर्त्रे नमः
- ९८ॐ अपस्मारापहर्त्रे नमः
- ९९ॐ उपनिषत्खण्डार्थकृते नमः
- १००ॐ ऋग्व्याख्यानकृदाचार्याय नमः
- १०१ॐ मन्त्रालयनिवासिने नमः
- १०२ॐ न्यायमुक्तावलीकर्त्रे नमः
- १०३ॐ चन्द्रिकाव्याख्याकर्त्रे नमः
- १०४ॐ सुतन्त्रदीपिकाकर्त्रे नमः
- १०५ॐ गीतार्थसङ्ग्रहकृते नमः