मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शारदाभुजङ्गप्रयाताष्टकम्

3

श्रीशङ्करभगवत्पादकृतम्

सुवक्षोजकुम्भां सुधापूर्णकुम्भां

प्रसादावलम्बां प्रपुण्यावलम्बाम् ।

सदास्येन्दुबिम्बां सदानोष्ठबिम्बां

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥१॥

कटाक्षे दयार्द्रो करे ज्ञानमुद्रां

कलाभिर्विनिद्रां कलापैः सुभद्राम् ।

पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्रां

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥२॥

ललामाङ्कफालां लसद्गानलोलां

स्वभक्तैकपालां यशःश्रीकपोलाम् ।

करे त्वक्षमालां कनत्प्रत्नलोलां

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥३॥

सुसीमन्तवेणीं दृशा निर्जितैणीं

रमत्कीरवाणीं नमद्वज्रपाणीम् ।

सुधामन्थरास्यां मुदा चिन्त्यवेणीं

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥४॥

सुशान्तां सुदेहां दृगन्ते कचान्तां

लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।

स्मरेत्तापसैः सङ्गपूर्वस्थितां तां

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥५॥

कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे

मराले मदेभे महोक्षेऽधिरूढाम् ।

महत्यां नवम्यां सदा सामरूपां

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥६॥

ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीं

भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।

निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीं

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥७॥

भवाम्भोजनेत्राजसम्पूज्यमानां

लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।

चलच्चञ्चलाचारुताटङ्ककर्णो

भजे शारदाम्बामजस्रं मदम्बाम् ॥

॥८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-शारदाभुजङ्गप्रयाताष्टकं सम्पूर्णम्