पारम्परिकम्
ध्यानम्
कैलासाचल-मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादि-प्रार्थना-प्राप्त-दिव्यमानुष-विग्रहम् ॥
॥१॥भक्तानुग्रहणैकान्त-शान्त-स्वान्त-समुज्ज्वलम् ।
संयज्ञं संयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
॥२॥किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
॥३॥स्तोत्रम्
श्रीशङ्कराचार्यवर्यो ब्रह्मज्ञानप्रदायकः ।
अज्ञानतिमिरादित्यः सुज्ञानाम्बुधिचन्द्रमा ॥
॥४॥वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः ।
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥
॥५॥सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः ।
ज्ञानमुद्राञ्चितकरः शिष्य-हृत्ताप-हारकः ॥
॥६॥पारिव्राज्याश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः ।
अद्वैतस्थापनाचार्यः साक्षाच्छङ्कररूपभृत् ॥
॥७॥षण्मतस्थापनाचार्यस्त्रयीमार्गप्रकाशकः ।
वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥
॥८॥वैराग्यनिरतः शान्तः संसारार्णवतारकः ।
प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥
॥९॥पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्छुचिः ।
नित्यानन्दो निरातङ्को निःसङ्गो निर्मलात्मकः ॥
॥१०॥निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः ।
सत्त्वप्रधानः सद्भावः सङ्ख्यातीतगुणोज्ज्वलः ॥
॥११॥अनघः सारहृदयः सुधीः सारस्वतप्रदः ।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविचक्षणः ॥
॥१२॥तपोराशिर्महातेजा गुणत्रयविभागवित् ।
कलिघ्नः कालधर्मज्ञस्तमोगुणनिवारकः ॥
॥१३॥भगवान् भारतीजेता शारदाह्वानपण्डितः ।
धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः ॥
॥१४॥नादबिन्दुकलाभिज्ञो योगिहृत्पद्मभास्करः ।
अतीन्द्रिय-ज्ञाननिधिर्नित्यानित्यविवेकवान् ॥
॥१५॥चिदानन्दश्चिन्मयात्मा परकाय-प्रवेशकृत् ।
अमानुष-चरित्राढ्यः क्षेमदायी क्षमाकरः ॥
॥१६॥भवो भद्रप्रदो भूरिमहिमा विश्वरञ्जकः ।
स्वप्रकाशः सदाधारो विश्वबन्धुः शुभोदयः ॥
॥१७॥विशालकीर्तिर्वागीशः सर्वलोकहितोत्सुकः ।
कैलासयात्रा-सम्प्राप्त-चन्द्रमौलि-प्रपूजकः ॥
॥१८॥काञ्च्यां श्रीचक्र-राजाख्य-यन्त्रस्थापन-दीक्षितः ।
श्रीचक्रात्मक-ताटङ्क-पोषिताम्बा-मनोरथः ॥
॥१९॥श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः ।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥
॥२०॥द्विसप्तति-मतोच्छेत्ता सर्वदिग्विजयप्रभुः ।
काषायवसनोपेतो भस्मोद्धूलितविग्रहः ॥
॥२१॥ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
व्याससन्दर्शनप्रीतो भगवत्पादसंज्ञकः ॥
॥२२॥चतुःषष्टिकलाभिज्ञो ब्रह्मराक्षस-मोक्षदः ।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥
॥२३॥श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुतः ।
तोटकाचार्यसम्पूज्यः पद्मपादार्चिताङ्घ्रिकः ॥
॥२४॥हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः ।
सुरेश्वरादि-सच्छिष्य-सन्न्यासाश्रम-दायकः ॥
॥२५॥निर्व्याजकरुणामूर्तिर्जगत्पूज्यो जगद्गुरुः
भेरीपटहवाद्यादिराजलक्षणलक्षितः
सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः ॥
॥२६॥इति श्री-शङ्कराचार्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्