जगदीशशास्त्रिविरचितम् — गौतमप्रोक्तम्
श्रीः
श्रीरमणसहस्रनामस्तोत्रप्रारम्भः
देव्युवाच
भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर ।
अरुणेशस्य माहात्म्यं त्वत्तो विस्तरशः श्रुतम् ॥
॥१॥तन्नाम्नामपि साहस्रं सर्वपापहरं नृणाम् ।
अरुणेशावतारस्य रमणस्य महात्मनः ॥
॥२॥इदानीं श्रोतुमिच्छामि तस्य नामसहस्रकम् ।
यस्य सङ्कीर्तनान्मर्त्यो विमुक्तिं विन्दते ध्रुवम् ॥
॥३॥त्वन्तु सर्वं विजानासि नान्यस्त्वत्तोऽस्य वेदिता ।
तस्मात्कारुण्यतो मह्यं भक्तिमत्यै विशेषतः ॥
॥४॥नाम्नां सहस्रं दिव्यानां रमणस्य मुनीशितुः ।
रहस्यमपि वक्तव्यं त्वया गौतम सुव्रत ॥
॥५॥गौतम उवाच
साधु साधु महाभागे प्रश्न एष जगद्धितः ।
वक्ष्ये तच्छ्रद्धयोपेता सावधानमनाः शृणु ॥
॥६॥ज्ञानं वेदान्तसञ्जातं साक्षान्मोक्षस्य साधनम् ।
कर्मोपास्त्यादि तद्भिन्नं ज्ञानद्वारैव मुक्तिदम् ॥
॥७॥निष्कामकर्मशुद्धानां विवेकादिमतां नृणाम् ।
जायते तच्च विज्ञानं प्रसादादेव सद्गुरोः ॥
॥८॥ज्ञानसाधननिष्ठत्वं ज्ञानाभ्यासं विदुर्बुधाः ।
तारतम्येन भिद्यन्ते ज्ञानाभ्यासाधिकारिणः ॥
॥९॥विचारमात्रनिष्ठस्य मुख्या ज्ञानाधिकारिता ।
विचारी दुर्लभो लोके विचारो दुष्करो यतः ॥
॥१०॥ममुक्षवो नरास्सर्वे ज्ञानाभ्यासेऽधिकारिणः ।
स्त्रीशूद्राणां तथान्येषां नाधिकारोविगर्हितः ॥
॥११॥देशभाषान्तरेणापि तेषां सोप्युपकारकः ।
ज्ञानस्य च विचारोऽयं सन्निकृष्टं हि साधनम् ॥
॥१२॥विचारभिन्नमार्गश्च न साक्षाज्ज्ञानसिद्धये ।
विचारजननद्वारेत्याहुर्वेदान्तवेदिनः ॥
॥१३॥योगोपास्त्यादयोप्यन्ये सन्ति विज्ञानहेतवः ।
तदालम्बो भवत्येव विचारानधिकारिणाम् ॥
॥१४॥योगोपास्त्याद्यशक्तानां जपस्त्युत्यादिकीर्तनम् ।
ज्ञानोपायोभवत्येव जिज्ञासानुष्ठितं यदि ॥
॥१५॥तस्मादयत्नतोज्ञानं सर्वेषां येन हेतुना ।
तादृशं नामसाहस्रं रमणस्य महात्मनः ॥
॥१६॥त्वय प्रीत्यैव वक्ष्यामि हिताय जगतां शृणु ।
नाभक्ताय प्रदातव्यमिदं मोक्षसुखप्रदम् ॥
॥१७॥अस्य श्रीरमणदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
गौतमो ऋषिः । अनुष्टुप्छन्दः । श्रीरमणपरमात्मादेवता ।
ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् ।
"श्री रमणाय नमः" इति मन्त्रप्रत्येकवर्णेन हृदयादि न्यासः ।
ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः ।
ध्यानम् ।
ध्यायेच्छारदचन्द्रसुन्दरमुखं ताम्रारविन्देक्षणं
भक्ताभीष्टवराभयप्रदकरं कौपीनमात्रोज्ज्वलम् ।
स्वात्मानन्दरसानुभूतिविवशं सर्वानवद्याङ्गकं
श्रीमन्तं रमणेश्वरं गुरुवरं योगासनाध्यासितम् ॥
अरुणजलजनेत्रं मुग्धमन्दस्मितास्यं
तरुणतपनभासं पूर्णबोधप्रसादम् ।
अरुणशिखरिसानुप्राङ्गणे सञ्चरन्तं
रमणमरुणमूर्तिं चिन्तयेदिष्टसिद्ध्यै ॥
ॐ
अरुणेशमहाशक्तिनिपातप्रतिबोधितः ।
अचिन्त्यपरनिर्वाणस्थितिरव्यक्तशक्तिकः ॥
॥१॥अनभ्यासश्रमावाप्तसमस्तनिगमागमः ।
अरुणाचलनाथीयपञ्चरत्नप्रकाशकः ॥
॥२॥अनाहतान्यहृदयस्थानबोधनपण्डितः ।
अकारादिक्षकारान्तमातृकामन्त्रमालिकः ॥
॥३॥अन्तर्गतमहाशक्तिरणिमादिगुणान्वितः ।
अभ्यासातिशयज्ञात अत्याश्चर्यचरित्रकः ॥
॥४॥अतिवर्णाश्रमाचारोऽचिन्त्यशक्तिरमोघदृक् ।
अङ्गावन्त्यादिदेशीयमुमुक्षुजनताश्रयः ॥
॥५॥अन्तर्मुखोऽन्तराराम अन्तर्याम्यहमर्थदृक् ।
अहमर्थैकलक्ष्यार्थ अरुणाद्रिमयोऽरुणः ॥
॥६॥अपीताम्बाङ्गनिर्माल्यपयःपानैकजीवितः ।
अध्यात्मयोगनिलय अदीनात्माऽघमर्षणः ॥
॥७॥अकायो भक्ताकायस्थः कालचक्रप्रवर्तकः ।
अक्षिपेयामृताम्भोधिराहूयैश्वर्यदायकः ॥
॥८॥आजानुबाहुरक्षोभ्य आत्मवाननसूयकः ।
आवर्तक्षेत्रसञ्जात आर्तरक्षणतत्परः ॥
॥९॥इतिहासपुराणज्ञ इष्टापूर्तफलप्रदः ।
इडापिङ्गलिकामध्य-सुषुम्नाग्रन्थिभेदकः ॥
॥१०॥इडापिङ्गलिकामध्य-सुषुम्नामध्यभासुरः ।
इष्टार्थदाननिपुण इन्द्रभोगविरक्तधीः ॥
॥११॥ईशान ईषणाहीनः ईतिबाधाभयापहः ।
उपास्यमूर्तिरुत्साहसम्पन्न उरुविक्रमः ॥
॥१२॥उदासीनवदासीन उत्तमज्ञानदेशिकः । नाम ५०
ऊर्ध्वरेता ऊर्ध्वगति रुटजस्थ उदारधीः ॥
॥१३॥ऋषीऋषिगणस्तुत्यो ऋजुबुद्धी ऋजुप्रियः ।
ऋतम्भर ऋतप्रज्ञो ऋजुमार्गप्रदर्शकः ॥
॥१४॥एवमित्यविनिर्णेयः एनःकूटविनाशनः ।
ऐश्वर्यदाननिपुण औदार्यगुणमण्डितः ॥
॥१५॥ओङ्कारपदलक्ष्यार्थ औपम्यपरिवर्जितः ।
कटाक्षस्यन्दिकरुणः कटिबद्धालमल्लकः ॥
॥१६॥कमनीयचरित्राढ्यः कर्मवित्कविपुङ्गवः ।
कर्माकर्मविभागज्ञः कर्मलेपविवर्जितः ॥
॥१७॥कलिदोषहरः कम्रः कर्मयोगप्रवर्तकः ।
कर्मन्दिप्रवरः कल्यः कल्याणगुणमण्डितः ॥
॥१८॥कान्तिपत्तनसन्दृष्टारुणज्योतिःप्रहर्षितः ।
कामहन्ताकान्तमूर्तिः कालात्माकालसूत्रहृत् ॥
॥१९॥काङ्क्षाहीनः कालकाङ्क्षी काशीवासफलप्रदः ।
काश्मीरदेश्यसेव्याङ्घ्रिर्नेपालीयसमर्चितः ॥
॥२०॥कामकारनिराकर्ता कृतकृत्यत्वकारकः ।
काव्यकण्ठसुधीदृष्टकार्तिकेयस्वरूपधृक् ॥
॥२१॥किङ्करीकृतभूपालः कीर्तिमान्कीर्तिवर्द्धनः ।
कुमारः कुतलामोदः कुकुटुम्बी कुलोद्गतः ॥ २२॥ नाम १००
कुष्ठापस्माररोगघ्नः कुसुमारामनिष्ठितः ।
कृपालुः कृपणालम्बः कृशानुसदृशः कृशः ॥
॥२३॥केरलान्ध्रादिभाषाज्ञः केरलान्ध्रजनेडितः ।
कैवल्यपदनिश्श्रेणिः कैवल्यसुखदायकः ॥
॥२४॥कोऽहं नाहं सोऽहमिति स्वात्मान्वेषणमार्गदृक् ।
कोऽहंविमर्शब्रह्मास्त्र-नाशिताशेषविभ्रमः ॥
॥२५॥कोशालयप्रतिष्ठाता कोशवान्कोशवीक्षिता ।
क्षमावान्क्षिप्रसन्तुष्टः क्षपिताशेषकल्मषः ॥
॥२६॥क्षतकर्मा क्षताविद्यः क्षीणभक्तजनावनः ।
क्षामनाशी क्षुधाहीनः क्षुद्रघ्नः क्षितिमण्डनम् ॥
॥२७॥क्षेत्रज्ञः क्षेमदः क्षेमः क्षेमार्थिजनवन्दितः ।
क्षेत्राटनपरिश्रान्तभक्तक्षिप्रप्रसादनः ॥
॥२८॥क्ष्म्रौंमन्त्रबीजतत्त्वज्ञः क्षेत्राजीवफलप्रदः ।
गम्भीरो गर्वितोगर्वविहीनो गर्वनाशनः ॥
॥२९॥गद्यपद्यप्रियोगम्यो गायत्रीमन्त्रबोधितः ।
गिरिशो गीष्पतिर्गुण्यो गुणातीतो गुणाकरः ॥
॥३०॥गृहीगृहविनिर्मुक्तो ग्रहातिग्रहसञ्जयी ।
गीतोपदेशसारादिग्रन्थकृद् ग्रन्थिभेदकः ॥ ३१॥ नाम १५०
गुरुमूर्ततपोनिष्ठः नैसर्गिकसुहृद्वरः ।
गृहिमुक्त्यधिकारित्व व्यवस्थापनतत्परः ॥
॥३२॥गोविन्दो गोकुलत्राता गोष्ठीवान्गोधनान्वितः ।
चराचरहितश्चक्षुरुत्सवश्चतुरश्चलः ॥
॥३३॥चतुर्वर्गचतुर्भद्रप्रदश्चरमदेहभृत् ।
चाण्डालचटकश्वाऽहि-किटिकीशहितङ्करः ॥
॥३४॥चित्तानुवर्ती चिन्मुद्री चिन्मयश्चित्तनाशकः ।
चिरन्तनश्चिदाकाशश्चिन्ताहीनश्चिदूर्जितः ॥
॥३५॥चोरहा चोरदृक् चोरचपेटाघातनन्दितः ।
छलच्छद्मवचोहीनश्शत्रुजिच्छत्रुतापनः ॥
॥३६॥छन्नाकारश्छान्दसेड्यञ्छिन्नकर्मादि बन्धनः ।
छिन्नद्वैधश्छिन्नमोहश्छिन्नहृच्छिन्नकल्मषः ॥
॥३७॥जगद्गुरुर्जगत्प्राणो जगदीशो जगत्प्रियः ।
जयन्तीजोजन्महीनो जयदो जनमोहनः ॥
॥३८॥जाग्रत्स्वप्नसुषुप्त्यादिसाक्षी जाड्यविनाशकः ।
जातिवर्णभिदाशून्यो जितात्मा जितभूतकः ॥
॥३९॥जितेन्द्रियो जितप्राणो जितान्तश्शत्रुसञ्चयः । नाम २००
जीवब्रह्मैक्यविज्जीवन्मुक्तो जीवत्वनाशकः ॥
॥४०॥ज्योतिर्लिङ्गमयज्योतिस्समलोष्टाश्मकाञ्चनः ।
जेता ज्यायाज्ज्ञानमूर्तिर्ज्ञानी ज्ञानमहानिधिः ॥
॥४१॥ज्ञानज्ञातृज्ञेयरूपत्रिपुटीभावनोज्झितः ।
ज्ञातसर्वागमो ज्ञानगम्यो ज्ञातेयसन्नुतः ॥
॥४२॥ज्ञानविज्ञानतृप्तात्मा ज्ञानसञ्छिन्नसंशयः ।
ज्ञानाग्निदग्धकर्मा च ज्ञानोपायप्रदर्शकः ॥
॥४३॥ज्ञानयज्ञविधिप्रीतो ज्ञानावस्थितमानसः ।
ज्ञाताऽज्ञातान्यचिन्मात्रो ज्ञानवृद्धोपलालितः ॥
॥४४॥तत्त्वज्ञस्तत्त्वविन्नेता तत्त्वमस्यादिलक्षितः ।
तत्त्वभाषणसन्तुष्टस्तत्त्वबोधकदेशिकः ॥
॥४५॥तत्पदार्थैकसंलीनस्तत्त्वान्वेषण तत्परः ।
तपनस्तपनीयाङ्गस्तमस्सन्तापचन्द्रमाः ॥
॥४६॥तपस्वी तापसाराध्यस्तपः क्लिष्टतनूद्वहः ।
तपस्तत्त्वार्थसारज्ञस्तपोमूर्तिस्तपोमयः ॥
॥४७॥तपोबलसमाकृष्टभक्तसङ्घसमावृतः ।
तापत्रयाग्निसन्तप्तजनसञ्जीवनामृतम् ॥
॥४८॥तातादेशाप्तशोणाद्रिस्तातारुणमहेश्वरः ।
तातान्तिकसमागन्ता तातान्वेषणतत्परः ॥
॥४९॥तितिक्षुस्तीर्थवित्तीर्थं तुरीयस्तुष्टमानसः । नाम २५०
तुल्यनिन्दास्तुतिस्तूष्णींशीलस्तृष्णाविवर्जितः ॥
॥५०॥तेजस्वीत्यक्तविषयस्त्रयीभावार्थकोविदः ।
त्रिदिवेशमुखोपास्यस्त्रिवर्गस्त्रिगुणात्मकः ॥
॥५१॥त्रैलोक्यबुधसम्पूज्यस्त्रैलोक्यग्रासबृंहितः ।
त्रैलोक्यसृष्टिस्थितिकृत् त्रैगुण्यविषयोज्झितः ॥
॥५२॥त्रैगुण्यविषवेगघ्नो दक्षो दग्धवपुर्धरः ।
दर्शनीयो दयामूर्तिर्दक्षिणास्यो दमान्वितः ॥
॥५३॥दण्डधृक् दण्डनीतिस्थो दक्षिणो दम्भवर्जितः ।
दहराकाशमध्यस्थ चिदाकाशप्रतिष्ठितः ॥
॥५४॥दशदिक्पालसम्पूज्यो दशदिग्व्यापिसद्यशाः ।
दक्षिणद्वीपविख्यातो दाक्षिणात्यकलाकविः ॥
॥५५॥दारिद्र्यध्वंसको दान्तो दारितक्लेशसन्ततिः ।
दासीदासभरो दिव्यो दिष्ट्याबुद्धो दिगम्बरः ॥
॥५६॥दीर्घदर्शी दीप्यमानो दीनबन्धुर्दृगात्मकः ।
दुर्विगाह्यो दुराधर्षो दुराचारनिवर्तकः ॥
॥५७॥दृग्दृश्यभेदधीशून्यो दर्शनं दृप्तखण्डकः ।
देववन्द्यो देवतेशो दोषज्ञो दोषनाशनः ॥ ५८॥ नाम ३००
द्वादशार्णमनुध्येयो द्वादशान्तस्थलस्थितः ।
दैविको द्राविडो द्वीपान्तरविख्यातवैभवः ॥
॥५९॥द्वितीयातिथिसम्भूतो द्वैतभावविमुक्तधीः ।
द्वैताद्वैतमतातीतो द्वैतसन्तमसापहः ॥
॥६०॥धनदो धर्मसूक्ष्मज्ञो धर्मराट् धार्मिकप्रियः ।
धाता धातृसमश्रीको धातुशुद्धिविधायकः ॥
॥६१॥धारणाशक्तिमान्धीरो धुरीणो धृतिवर्द्धनः ।
धीरोदात्तगुणोपेतो ध्याननिष्ठो ध्रुवस्मृतिः ॥
॥६२॥नमज्जनोद्धारणकृन्नरवाहनसन्निभः ।
नवनीतसमस्वान्तो नतसाधुजनाश्रयः ॥
॥६३॥नरनारीगणोपेतो नगसानुकृताश्रमः ।
नममेत्यव्यययुतो नवीनो नष्टमानसः ॥
॥६४॥नयनानन्ददो नम्यो नामोच्चारणमुक्तिदः ।
नागस्वाम्यनुजो नागसुन्दरज्येष्ठतां गतः ॥
॥६५॥नादबिन्दुकलाभिज्ञो नादब्रह्मप्रतिष्ठितः ।
नादप्रियो नारदादिपूज्यो नामविवर्जितः ॥
॥६६॥नामी नामजपप्रीतो नास्तिकत्वविघातकृत् ।
नासाग्रण्यस्तदृङ् नामब्रह्मातीतो निरञ्जनः ॥
॥६७॥निरञ्जनाश्रयो नित्यतृप्तो निश्श्रेयसप्रदः । नाम ३५०
निर्यत्नसिद्धनित्य श्रीर्नित्यसिद्धस्वरूपदृक् ॥
॥६८॥निर्ममो निरहङ्कारो निरवद्यो निराश्रयः ।
नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥
॥६९॥निर्मलो निश्चलो नित्यो निर्मोहो निरुपाधिकः ।
निस्सङ्गो निगमस्तुत्यो निरीहो निरुपप्लवः ॥
॥७०॥नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरन्तरः ।
निर्विकारो निर्गुणात्मा निष्पापो निष्परिग्रहः ॥
॥७१॥निर्भवो निस्तुलो निघ्नो निजानन्दैकनिर्भरः ।
निग्रहानुग्रहसमो निकृतिज्ञो निदानवित् ॥
॥७२॥निर्ग्रन्थो निर्नमस्कारो निस्तुलिर्निरयापहः ।
निर्वासनो निर्व्यसनो निर्योगक्षेमचिन्तनः ॥
॥७३॥निर्बीजध्यानसंवेद्यो निर्वादो निश्शिरोरुहः ।
पञ्चाक्षरमनुध्येयः पञ्चपातकनाशनः ॥
॥७४॥पञ्चस्कन्धीमताभिज्ञः पञ्चकोशविलक्षणः ।
पञ्चाग्निविद्यामार्गज्ञः पञ्चकृत्यपरायणः ॥ ७५॥ नाम ४००
पञ्चवक्त्रः पञ्चतपाः पञ्चताकारणोद्धरः ।
पञ्चोपचारसम्पूज्यः पञ्चभूतविमर्दनः ॥
॥७६॥पञ्चविंशतितत्त्वात्मा महापञ्चदशाक्षरः ।
पराशरकुलोद्भूतः पण्डितः पण्डितप्रियः ॥
॥७७॥परमेष्ठी परेशानः परिपूर्णः परात्परः ।
परंज्योतिः परंधाम परमात्मा परायणम् ॥
॥७८॥पतिव्रताभीष्टदायी पर्यङ्कस्थः परार्थवित् ।
पवित्रपादः पापारिः परार्थैकप्रयोजनः ॥
॥७९॥पालीतीर्थतटोल्लासी पाश्चात्यद्वीपविश्रुतः ।
पिता पितृहितः पित्तनाशकः पितृमोचकः ॥
॥८०॥पितृव्यान्वेषित पीनः पातालेशालयस्थितः ।
पुनर्वसूदितः पुण्यः पुण्यकृत्पुरुषोत्तमः ॥
॥८१॥पुन्नागतरुवत्क्षेत्री पुण्यापुण्यविवर्जितः ॥।
पूतात्मा पृथुकप्रीतः पृथुदश्च पुरोहितः ॥
॥८२॥प्रतिमाकृतसान्निध्यः प्रतिग्रहपराङ्मुखः ।
प्रमादिवत्सरोद्भूतः प्रकृतिस्थः प्रमाणवित् ॥
॥८३॥प्रतीकोपास्तिविषयः प्रत्युत्तरविचक्षणः । नाम ४५०
प्रत्यक् प्रशान्तः प्रत्यक्षः प्रश्रितः प्रतिभानवान् ॥
॥८४॥प्रदक्षिणाप्रीतमनाः प्रवालाद्रिसमाश्रयः ।
प्राच्यप्रतीच्यदेशीय विबुधाग्रण्यवन्दितः ॥
॥८५॥प्रस्थानभेदसम्बोद्ध्यः प्रांशुः प्राणनिरोधकः ।
प्रसूतिदिनवृद्धस्त्री दर्शितज्योतिराकृतिः ॥
॥८६॥प्रार्थितार्थप्रदः प्राज्ञः प्रावारकनिगूहितः ।
प्रातस्स्मर्तव्यचारित्रः प्राप्तप्राप्तव्यनिर्वृतः ॥
॥८७॥प्रयाणस्मृतिसम्प्राप्यः प्रियहीनः प्रियंवदः ।
प्रेक्षावान्प्रेष्यरहितः फलभूतः फलप्रदः ॥
॥८८॥बहुश्रुतो बहुमतो बहुपाकी बहुप्रदः ।
बलवान्बन्धुमान्बालरूपो बाल्यविचेष्टितः ॥
॥८९॥बालभानुप्रतीकाशो बालसन्न्यासिशब्दितः ।
ब्रह्मचर्यतपोयोगश्रुतप्रज्ञासमन्वितः ॥
॥९०॥ब्रह्मण्यो ब्रह्मविद्ब्रह्म ब्रह्मसायुज्यदायकः ।
ब्रह्मार्पितमनोबुद्धिर्ब्राह्मणस्वामिनामकः ॥
॥९१॥ब्रह्मासनस्थितो ब्रह्मसूत्रविद्भगवान्भवः ।
भयकृद्भयसंहर्ता भवादो भक्तभावितः ॥ ९२॥ नाम ५००
भारूपो भावनाग्राह्यो भावज्ञो भाग्यवर्द्धनः ।
भारतीयमहाभाग्यं भारतख्यातिपोषकः ॥
॥९३॥भारतोद्यद्ज्ञानदीपो भावनाभेदकृन्तनः ।
भिदाशून्यो भिदाध्वंसी भावुको भिक्षुकेश्वरः ॥
॥९४॥भूतिदो भूतिकृद्भूमि नाथपूर्णांशसम्भवः ।
भौमब्रह्म भ्रमध्वंसी भूहृत्क्षेत्रलक्षितः ॥
॥९५॥भूतिभूषितसर्वाङ्गो मङ्गलो मङ्गलप्रदः ।
मनोबुद्धिरहङ्कारः प्रकृतिश्च परः पुमान् ॥
॥९६॥महाशक्तिर्महासिद्धिर्महोदारो महाद्युतिः ।
महाकर्ता महाभोक्ता महायोगी महामतिः ॥
॥९७॥महामान्यो महाभागो महासेनमहोंशजः ।
मर्यादाकृन्महादेवो महारूपी महायशाः ॥
॥९८॥महोद्यमो महोत्साहो ममताग्रहपीडनः ।
महामन्त्रो महायन्त्रो महावाक्योपदेशकः ॥
॥९९॥महावाक्यार्थतत्त्वज्ञो महामोहनिवारकः ।
मायावी मानदो मानी मातृमुक्तिविधायकः ॥ १००॥ नाम ५५०
मानावमानसाम्यात्मा मालूराधस्तपस्स्थितः ।
मधूकद्रुतलस्थायी मातृमान्मातृभक्तिमान् ॥
॥१०१॥मात्रालयप्रतिष्ठाता मार्गितो मार्गबान्धवः ।
मार्गणीयो मार्गदर्शी मार्गशीर्षकृतोदयः ॥
॥१०२॥मार्गितात्मा मार्गशून्यो मितभुङ्मितसञ्चरः ।
मितस्वप्नावबोधश्च मिथ्याबाह्यनिरीक्षकः ॥
॥१०३॥मुनिर्मुक्तो मुक्तिदायी मेधावी मेध्यभोजनः ।
मौनव्याख्यानकृन्मौनी मौनभाषाविशारदः ॥
॥१०४॥मौनामौनद्वयातीतो मौनदो मौनिषु प्रियः ।
यज्ञकृद्यज्ञभुग्यज्ञो यजमानो यथार्थवित् ॥
॥१०५॥यतात्मा यतिसम्पूज्यो यतिप्राप्यो यशस्करः ।
यमाद्यष्टाङ्गयोगज्ञो यजुश्शाखी यतीश्वरः ॥
॥१०६॥यवनानुग्रहकरो यक्षो यमनिषूदनः ।
यात्राविरहितो यानाऽनारूढो याज्ञिकप्रियः ॥
॥१०७॥यातनानाशनो याञ्चहीनो याचितदायकः । नाम ६००
युक्तकृद्युक्तभुग्युक्त स्वप्नबोधो युगादिकृत् ॥
॥१०८॥योगीशो योगपुरुषो योगतत्त्वविवेचकः ।
योगासनो योगभूमि समारोहणसाधकः ॥
॥१०९॥योगिगम्यो योगफलं योगभ्रष्टशुभप्रदः ।
योगप्रशंसी योगस्थो योगक्षेमधुरन्धरः ॥
॥११०॥रक्षको रमणो रम्यो रमणीयाङ्गसंहतिः ।
रमेशक्लेशसन्दृष्टज्योतिरक्लेशदर्शनः ॥
॥१११॥रजोपहो रजोमूर्ती रसिको रसशेवधिः ।
रहस्यो रञ्जनो रस्यो रत्नगर्भो रसोदयः ॥
॥११२॥राजविद्यागुरू राज विद्याविद्राजमानितः ।
राजसाहारनिर्मुक्तो राजसज्ञानदूरगः ॥
॥११३॥रागद्वेषविनिर्मुक्तो रसालाश्रमकोकिलः ।
रामाभिरामो राजश्रीः राजा राज्यहितङ्करः ॥
॥११४॥राजभोगप्रदो राष्ट्रभाषाविद्राजवल्लभः ।
रुदितद्वेषणो रुद्रो लक्ष्मीवान्लक्ष्मिवर्द्धनः ॥
॥११५॥लज्जालुर्ललितो लब्धलब्धव्यो लघुसिद्धिदः । नाम ६५०
लयविल्लब्धकामौघो लाभालाभसमाशयः ॥
॥११६॥लयाधिष्ठानतत्त्वज्ञो लयपूर्वसमाधिमान् ।
लास्यप्रियो लिङ्गरूपी लिङ्गोत्थो लिङ्गवर्जितः ॥
॥११७॥लिपिलेखचणो लोकशिक्षको लोकरक्षकः ।
लोकायतमताभिज्ञो लोकवार्ताविवर्जितः ॥
॥११८॥लोकोदासीनभावस्थो लोकोत्तरगुणोत्तरः ।
लोकाध्यक्षो लोकपूज्यो लोकासारत्वबोधकः ॥
॥११९॥लोकाकर्षणशक्तात्मशक्तिमत्कान्तपर्वतः ।
लोकानुत्सादको लोकप्रमाणं लोकसङ्ग्रही ॥
॥१२०॥लोकबोधप्रकाशार्थ शोणोद्यज्ज्ञानभास्करः ।
वरिष्ठो वरदो वक्ता वङ्गदेश्यजनाश्रयः ॥
॥१२१॥वन्दारुजनमन्दारो वर्तमानैककालवित् ।
वनवासरसाभिज्ञो वलित्रयविभूषितः ॥
॥१२२॥वसुमान्वस्तुतत्त्वज्ञो वन्द्यो वत्सतरीप्रियः ।
वर्णाश्रमपरित्राता वर्णाश्रममतातिगः ॥
॥१२३॥वाक्यज्ञो वाक्यकुशलो वाङ्मनोबुद्ध्यगोचरः ।
वाद्यगीतप्रियो वाजश्रवा वापीप्रतिष्ठकः ॥
॥१२४॥वाहनागारनिष्ठावान्वाजिमेधफलप्रदः ।
वक्षोदक्षिणभागस्थ हृदयस्थानदर्शकः ॥ १२५॥ नाम ७००
वचद्भूमन्त्रसंसेव्यो विचारैकोपदेशकृत् ।
विचारमात्रनिरतो विवेकिजनतादृतः ॥
॥१२६॥विदितात्मा विधेयात्मा विस्मितेशादिवीक्षितः ।
विरूपाक्षगुहावासी विश्वात्मा विश्वभुग्विभुः ॥
॥१२७॥विविक्तसेवी विघ्नेशचैत्यप्राकारसंस्थितः ।
विध्यदृष्टमहोदर्शी विज्ञानानन्दसुन्दरः ॥
॥१२८॥विघसाशी विशुद्धात्मा विपर्यासनिरासकः ।
विभूतिसितफालाढ्यो विरोधोक्तिविनाकृतः ॥
॥१२९॥विश्वम्भरो विश्ववैद्यो विश्वास्यो विस्मयान्वितः ।
वीणागेयो वीतमायो वीर्यवान्वीतसंशयः ॥
॥१३०॥वृद्धिह्रासविनाभूतो वृद्धो वृत्तिनिरोधकः ।
वृत्तिदो वृत्तिबोधेद्धो वेणुवाद्यवशंवदः ॥
॥१३१॥वेदवेदान्ततत्त्वज्ञो वेषदोषप्रकाशकः ।
व्यक्ताव्यक्तस्वरूपज्ञो व्यङ्ग्यवाक्यप्रयोगवित् ॥
॥१३२॥व्याप्ताखिलो व्यवस्थाकृद्व्यवसायविबोधकः ।
वैज्ञानिकाग्रणीर्वैश्वानरो व्याघ्राजिनस्थितः ॥
॥१३३॥शरण्यश्शर्मदश्शक्ति पातबुद्धश्शमान्वितः ।
शरीरिवद्भासमानश्शर्मण्यजनवन्दितः ॥ १३४॥ नाम ७५०
शास्त्रजालमहारण्य वृथाटननिषेधकः ।
शास्त्राभ्यासफलीभूत ज्ञानविज्ञानतत्परः ॥
॥१३५॥शास्त्रोल्लङ्घनविद्वेषी शास्त्रमार्गाविलङ्घनः ।
शान्तात्मा शान्तिदश्शान्तिधनश्शान्तोपदेशकः ॥
॥१३६॥शाण्डिल्योपास्तिलक्ष्यार्थश्शास्त्रयोनिः प्रजापतिः ।
शिवङ्करश्शिवतमश्शिष्टेष्टश्शिष्टपूजितः ॥
॥१३७॥शिवप्रकाशसन्तुष्टश्शिवाद्वैतप्रतिष्ठितः ।
शिवगङ्गातडाकस्थश्शिवज्ञानप्रदायकः ॥
॥१३८॥शीताचलप्रान्त्यपूज्यश्शीप्रातीरजनाश्रयः ।
शुभाशुभपरित्यागी शुभाशुभविमत्सरः ॥
॥१३९॥शुक्लकृष्णगतिज्ञानी शुभंयुश्शिशिरात्मकः ।
शुकवज्जन्मसंसिद्धश्शेषाद्रिस्वामिवत्सलः ॥
॥१४०॥शैववैष्णवशाक्तादि विरोधप्रतिरोधकः ।
शृङ्गारादिरसालम्बो शृङ्गाररसविप्रियः ॥
॥१४१॥श्रवणाध्यर्थतत्त्वज्ञश्श्रवणानन्दभाषितः ।
शोणेशालयसञ्चारी शोणेशः शोणतीर्थवित् ॥
॥१४२॥शोकमोहाद्यसंस्पृष्टश्शोणक्षेत्राधिदैवतम् ।
श्रीदः श्रीशः श्रीनिवासः श्रीकण्ठमततत्त्ववित् ॥
॥१४३॥श्रीविद्यामन्त्रतत्त्वज्ञः श्रीवैष्णवमतप्रियः ।
श्रुतितात्पर्यनिर्वक्ता श्रुतमात्रावधारणः ॥
॥१४४॥श्रुतश्रोतव्यसन्तुष्टः श्रौतमार्गसमर्थकः ।
षडध्वध्वान्तविध्वंसी षडूर्मिभयभञ्जनः ॥ १४५॥ नाम ८००
षट्ग्रन्थिभेदचतुरष्षट्गुणी षट्प्रमाणवान् ।
षट्कोणमध्यनिलयष्षडरिघ्नष्षडाश्रयः ॥
॥१४६॥षण्डत्वघ्नष्षडाधारनिर्ध्यातष्षडनादिवित् ।
सर्वज्ञस्सर्ववित्सर्वस्सार्वस्सर्वमनस्स्थितः ॥
॥१४७॥सदसन्निर्णयज्ञानी सर्वभूतसमाशयः ।
सर्वश्रुतिस्सर्वचक्षुस्सर्वाननकरादिमान् ॥
॥१४८॥सर्वेन्द्रियगुणाभासस्सर्वसम्बन्धवर्जितः ।
सर्वभृत्सर्वकृत्सर्वहरस्सर्वहितेरतः ॥
॥१४९॥सर्वारम्भपरित्यागी सगुणध्यायितारकः ।
सर्वभूतनिशाबुद्धस्सर्वजागरनिद्रितः ॥
॥१५०॥सर्वाश्चर्यमस्सभ्यस्सङ्कल्पघ्नस्सदातनः ।
सर्गादिमध्यनिधनस्सकृत्स्मृतिविमुक्तिदः ॥
॥१५१॥संयमी सत्यसन्धश्च संस्कारपरिवर्जितः ।
समस्समविभक्ताङ्गस्समदृक् समसंस्थितः ॥
॥१५२॥समर्थस्समरद्वेषी समर्यादस्समाहितः ।
समयज्ञस्सदानन्दस्समाहृतनिजेन्द्रियः ॥
॥१५३॥सत्तासंविन्मयज्योतिस्सम्प्रदायप्रवर्तकः । नाम ८५०
समस्तवृत्तिमूलाहं वृत्तिनाशोपदेशकः ॥
॥१५४॥सम्राट् समृद्धस्सम्बुद्धस्सर्वश्रुतिमनोहरः ।
सरलस्सरसस्सर्वरसस्सर्वानुभूतियुक् ॥
॥१५५॥सर्वेश्वरस्सर्वनिधिस्सर्वात्मा सर्वसाधकः ।
सहजप्राप्तकर्मानुष्ठानत्यागनिषेधकः ॥
॥१५६॥सहिष्णुस्सात्त्विकाहारस्सात्त्विकज्ञानिवीक्षितः ।
सत्त्वाधिकमनोबुद्धिसुखधैर्यविवर्धकः ॥
॥१५७॥सात्त्विकत्यागयोगज्ञस्सात्त्विकाराध्यवैभवः ।
सार्धषोडशवर्षाप्तपारिव्राज्यो विरक्तधीः ॥
॥१५८॥सामगानप्रियस्साम्यवैषम्यमतिकृन्तनः ।
साधिताखिलसिद्धीशस्सामवित्सामगायनः ॥
॥१५९॥सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धिदस्सिद्धसाधनः ।
सिद्ध्यसिद्धिसमस्सिद्धस्सिद्धसङ्घसमर्चितः ॥
॥१६०॥सिसाधयिषुलोकेड्यस्सहायाम्बासहायवान् ।
सुन्दरस्सुन्दरक्षेत्र विद्याभ्यासविलासभृत् ॥
॥१६१॥सुन्दरेश्वरलीलाकृत् सुन्दरानन्दवर्द्धनः ।
सुरर्षिसन्नुतस्सूक्ष्मस्सूरिदृश्यपदस्थितः ॥
॥१६२॥सुदर्शनस्सुहृत्सूरिस्सूनृतोक्तिवदावदः ।
सूत्रवित्सूत्रकृत्सूत्रं सृष्टिवैतथ्यबोधकः ॥ १६३॥ नाम ९००
सृष्टिवाक्यमहावाक्यैक्यकण्ठ्यप्रतिपादकः ।
सृष्टिहेतुमनोनाशी सृष्ट्यधिष्ठाननिष्ठितः ॥
॥१६४॥स्रक्चन्दनादिविषयविरागी स्वजनप्रियः ।
सेवानम्रस्वभक्तौघ सद्योमुक्तिप्रदायकः ॥
॥१६५॥सोमसूर्याग्न्यप्रकाश्य स्वप्रकाशस्वरूपदृक् ।
सौन्दर्याम्बातपस्सम्पत्परीपाकफलायितः ॥
॥१६६॥सौहित्यविमुखस्स्कन्दाश्रमवासकुतूहली ।
स्कन्दालयतपोनिष्ठस्स्तव्यस्तावकवर्जितः ॥
॥१६७॥सहस्रस्तम्भसंयुक्त मण्डपान्तरमाश्रितः ।
स्तैन्यस्तेनस्स्तोत्रशास्त्र गेयस्स्मृतिकरस्स्मृतिः ॥
॥१६८॥सामरस्यविधानज्ञस्सङ्घसौभ्रात्रबोधकः ।
स्वभावभद्रो मध्यस्थस्स्त्रीसन्न्यासविधायकः ॥
॥१६९॥स्तिमितोदधिवज्ज्ञानशक्तिपूरितविग्रहः ।
स्वात्मतत्त्वसुखस्फूर्तितुन्दिलस्वस्वरूपकः ॥
॥१७०॥स्वस्वधर्मरतश्लाघी स्वभूस्स्वच्छन्दचेष्टितः ।
स्वस्वरूपपरिज्ञान परामृतपदस्थितः ॥
॥१७१॥स्वाध्यायज्ञानयज्ञेज्यस्वतस्सिद्धस्वरूपदृक् ।
स्वस्तिकृत्स्वस्तिभुक्स्वामी स्वापजाग्रद्विवर्जितः ॥
॥१७२॥हन्तृहन्तव्यताशून्य शुद्धस्वात्मोपदेशकः ।
हस्तपादाद्यसङ्ग्राह्यनिर्लिप्तपरमार्थदृक् ॥
॥१७३॥हत्यादिपापशमनो हानिवृद्धिविवर्जितः ।
हितकृद्धूणदेशीय जनवर्णितवैभवः ॥
॥१७४॥हृदयब्रह्मतत्त्वज्ञो हृदयान्वेषदेशनः ।
हृदयस्थो हृदयाकाशस्वरूपी हृद्गुहाशयः ॥
॥१७५॥हार्दाकाशान्तरगत बाह्याकाशादिवस्तुदृक् ।
हृदयस्थानतत्त्वज्ञो हृदहन्नाशपण्डितः ॥ १७६॥ नाम ९५०
हेयोपादेयरहितो हेमन्तर्तुकृतोदयः ।
हरिब्रह्मेन्द्रदुष्प्रापस्वाराज्योर्जितशासनः ॥
॥१७७॥हतासुरप्रकृतिको हंसो हृद्यो हिरण्मयः ।
हार्दविद्याफलीभूतो हार्दसन्तमसापहः ॥
॥१७८॥सेतुस्सीमा समुद्रश्च समाभ्यधिकवर्जितः ।
पुराणः पुरुषः पूर्णोऽनन्तरूपस्सनातनः ॥
॥१७९॥ज्योतिः प्रकाशः प्रथितस्स्वयम्भानः स्वयम्प्रभुः ।
सत्यं ज्ञानं सुखं स्वस्थस्स्वानुभूः परदैवतम् ॥
॥१८०॥महर्षिश्च महाग्रासो महात्मा भगवान्वशी ।
अहमर्थोऽप्रमेयात्मा तत्त्वं निर्वाणमुत्तमम् ॥
॥१८१॥अनाख्यवस्तु मुक्तात्मा बन्धमुक्तिविवर्जितः ।
अदृश्यो दृश्यनेता च मूलाचार्यस्सुखासनः ॥
॥१८२॥अन्तर्यामी पारशून्यो भूमा भोजयिता रसः । नाम १०००
उपसंहारः
कोऽहं मार्ग धनुष्पाणिर्नाहं तत्त्वसुदर्शनः ।
सोऽहं बोध महाशङ्खो भगवान् रमणोऽवतु ॥
॥१॥इति त्रिवारम्
इति ते नामसहस्रं रमणस्य महात्मनः ।
कथितं कृपया देवि गोप्याद्गोप्यतरं मया ॥
॥२॥य इदं नामसाहस्रं भक्त्या पठति मानवः ।
तस्य मुक्तिरयत्नेन सिद्ध्यत्येव न संशयः ॥
॥३॥विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् ।
वैराग्यकामो लभते वैराग्यं भवतारकम् ॥
॥४॥येन येन च यो योऽर्थी स स तं तं समश्नुते ।
सर्व पापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥
॥५॥दुर्देशकालोत्थदुरामयार्ताः
दौर्भाग्यतापत्रयसन्निरुद्धाः ।
नराः पठन्तो रमणस्य नाम-
साहस्रमीयुस्सुखमस्तदुःखम् ॥
॥६॥इति श्रीगौतममहर्षिप्रोक्तं श्रीरमणसहस्रनामस्तोत्रं सम्पूर्णम् । ॥ शुभमस्तु ॥