- १ॐ श्री गोपालबालतनयाय नमः
- २ॐ श्री गोपाय नमः
- ३ॐ श्री गोपगोकुलनायकाय नमः
- ४ॐ श्री गोपालाय नमः
- ५ॐ श्री गोकुलनन्दनाय नमः
- ६ॐ श्री गोपसंरक्षणोत्सुकाय नमः
- ७ॐ श्री गोवत्सरूपिणे नमः
- ८ॐ श्री गोपोषिणे नमः
- ९ॐ श्री गोपिकासुतरूपभृते नमः
- १०ॐ श्री गोपीघृतदधिक्षीरशिक्यभाजनलुण्ठकाय नमः
- ११ॐ श्री गोपिकागण्डसंसक्तश्रीमद्वदनपङ्कजाय नमः
- १२ॐ श्री गोपिकासङ्गमोल्लासाय नमः
- १३ॐ श्री गोपिकाकुचमर्दनाय नमः
- १४ॐ श्री गोपिकाऽक्ष्यञ्जनासक्तमञ्जुलाधरपल्लवाय नमः
- १५ॐ श्री गोपिकारदनसन्दष्टरक्तिमाधरविद्रुमाय नमः
- १६ॐ श्री गोपीपीनकुचद्वन्द्वमर्दनात्यन्तनिर्दयाय नमः
- १७ॐ श्री गोपिकागानसंसक्ताय नमः
- १८ॐ श्री गोपिकानर्तनोत्सुकाय नमः
- १९ॐ श्री गोपीसम्भाषणरताय नमः
- २०ॐ श्री गोपक्रीडामहोत्सवाय नमः
- २१ॐ श्री गोपीवस्त्रापहारिणे नमः
- २२ॐ श्री गोपीकृतनखक्षताय नमः
- २३ॐ श्री गोपिकासहभोक्त्रे नमः
- २४ॐ श्री गोपिकापादसेवकाय नमः
- २५ॐ श्री गोपिकाधवरूपाय नमः
- २६ॐ श्री गोपस्त्रीवेषमूर्तिभृते नमः
- २७ॐ श्री गोपीगानानुसरणमुरलीगानरञ्जकाय नमः
- २८ॐ श्री गोपिकापुण्यनिवहाय नमः
- २९ॐ श्री गोपिकाजनवल्लभाय नमः
- ३०ॐ श्री गोपिकादत्तसूपान्नदधिक्षीरघृताशाय नमः
- ३१ॐ श्री गोपीचर्चितताम्बूलग्रहणोत्सुकमानसाय नमः
- ३२ॐ श्री गोपीभुक्तावशिष्टान्नसम्पूरितनिजोदराय नमः
- ३३ॐ श्री गोपीमुखाब्जमार्ताण्डाय नमः
- ३४ॐ श्री गोपीनयनगोचराय नमः
- ३५ॐ श्री गोपस्त्रीपञ्चविशिखाय नमः
- ३६ॐ श्री गोपिकाहृदयालयाय नमः
- ३७ॐ श्री गोपीहृदब्जभ्रमराय नमः
- ३८ॐ श्री गोपीचरित्रगानवते नमः
- ३९ॐ श्री गोपस्त्रीपरमप्रीताय नमः
- ४०ॐ श्री गोपिकाध्याननिष्ठावते नमः
- ४१ॐ श्री गोपस्त्रीमध्यसंस्थिताय नमः
- ४२ॐ श्री गोपनारीमनोहारिणे नमः
- ४३ॐ श्री गोपस्त्रीदत्तभूषणाय नमः
- ४४ॐ श्री गोपीसौदामिनीमेघाय नमः
- ४५ॐ श्री गोपीनीरधिचन्द्रमसे नमः
- ४६ॐ श्री गोपिकालङ्कृतात्यन्तसूक्ष्माच्छोष्णीषकञ्चुकाय नमः
- ४७ॐ श्री गोपीभुजोपधानाय नमः
- ४८ॐ श्री गोपीचित्तफलप्रदाय नमः
- ४९ॐ श्री गोपिकासङ्गमश्रान्ताय नमः
- ५०ॐ श्री गोपीहृदयसंस्थिताय नमः
- ५१ॐ श्री गोपीफुल्लमुखाम्भोजमध्वास्वादनबम्भराय नमः
- ५२ॐ श्री गोपस्त्रीदन्तपीड्याय नमः
- ५३ॐ श्री गोपीसल्लापसादराय नमः
- ५४ॐ श्री गोपीवामाङ्कसंरूढाय नमः
- ५५ॐ श्री गोपिकाभ्यञ्जनोद्यताय नमः
- ५६ॐ श्री गोपीभावपरिज्ञात्रे नमः
- ५७ॐ श्री गोपस्त्रीदर्शनोन्मेषाय नमः
- ५८ॐ श्री गोपिकासुतप्रीताय नमः
- ५९ॐ श्री गोपिकालिङ्गनोत्सुकाय नमः
- ६०ॐ श्री गोवर्धनाचलोद्धर्त्रे नमः
- ६१ॐ श्री गोदोहनलसत्कराय नमः
- ६२ॐ श्री गोवृन्दवीताय नमः
- ६३ॐ श्री गोविन्दाय नमः
- ६४ॐ श्री गोपिकागोपगोवृताय नमः
- ६५ॐ श्री गोपालाङ्गणसञ्चारिणे नमः
- ६६ॐ श्री गोपबालानुरञ्जकाय नमः
- ६७ॐ श्री गोव्रताय नमः
- ६८ॐ श्री गोपिकार्तिप्रदाय नमः
- ६९ॐ श्री गोनामभूषिणे नमः
- ७०ॐ श्री गोगोप्त्रे नमः
- ७१ॐ श्री गोपमानसरञ्जकाय नमः
- ७२ॐ श्री गोसहस्रालिमध्यस्थाय नमः
- ७३ॐ श्री गोपबालशतावृताय नमः
- ७४ॐ श्री गोवृन्दभाषाविज्ञात्रे नमः
- ७५ॐ श्री गोपद्रव्यापहारकाय नमः
- ७६ॐ श्री गोपवेषाय नमः
- ७७ॐ श्री गोपनाथाय नमः
- ७८ॐ श्री गोपभूषणसम्भ्रमाय नमः
- ७९ॐ श्री गोपदासाय नमः
- ८०ॐ श्री गोपपूज्याय नमः
- ८१ॐ श्री गोपालकशुभप्रदाय नमः
- ८२ॐ श्री गोपनेत्रे नमः
- ८३ॐ श्री गोपसखाय नमः
- ८४ॐ श्री गोपसङ्कटमोचकाय नमः
- ८५ॐ श्री गोपमात्रे नमः
- ८६ॐ श्री गोपपित्रे नमः
- ८७ॐ श्री गोपभ्रात्रे नमः
- ८८ॐ श्री गोपनाय नमः
- ८९ॐ श्री गोपबन्धवे नमः
- ९०ॐ श्री गोपपुण्याय नमः
- ९१ॐ श्री गोपसन्तानभूरुहाय नमः
- ९२ॐ श्री गोपालानीतदध्यन्नभोक्त्रे नमः
- ९३ॐ श्री गोपालरञ्जकाय नमः
- ९४ॐ श्री गोपालप्राणधात्रे नमः
- ९५ॐ श्री गोपगोपीजनावृताय नमः
- ९६ॐ श्री गोकुलोत्सवसन्तोषाय नमः
- ९७ॐ श्री गोदधिक्षीरचोरकाय नमः
- ९८ॐ श्री गोवर्धनरताय नमः
- ९९ॐ श्री गोपीगोपाह्वानकृतादराय नमः
- १००ॐ श्री गोग्रासधारिणे नमः
- १०१ॐ श्री गोकण्डूनिवारणनखावलये नमः
- १०२ॐ श्री गोहिताय नमः
- १०३ॐ श्री गोकुलाराध्याय नमः
- १०४ॐ श्री गोगोपीजनवल्लभाय नमः
- १०५ॐ श्रीमते नमः
श्रीगोपालाष्टोत्तरशतनामावलिः सम्पूर्णा