- १ॐ श्रीकृष्णाय नमः
- २ॐ कमलानाथाय नमः
- ३ॐ वासुदेवाय नमः
- ४ॐ सनातनाय नमः
- ५ॐ वसुदेवात्मजाय नमः
- ६ॐ पुण्याय नमः
- ७ॐ लीलामानुषविग्रहाय नमः
- ८ॐ श्रीवत्सकौस्तुभधराय नमः
- ९ॐ यशोदावत्सलाय नमः
- १०ॐ हरये नमः
- ११ॐ चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधाय नमः
- १२ॐ देवकीनन्दनाय नमः
- १३ॐ श्रीशाय नमः
- १४ॐ नन्दगोपप्रियात्मजाय नमः
- १५ॐ यमुनावेगसंहारिणे नमः
- १६ॐ बलभद्रप्रियानुजाय नमः
- १७ॐ पूतनाजीवितहराय नमः
- १८ॐ शकटासुरभञ्जनाय नमः
- १९ॐ नन्दव्रजजनानन्दिने नमः
- २०ॐ सच्चिदानन्दविग्रहाय नमः
- २१ॐ नवनीतविलिप्ताङ्गाय नमः
- २२ॐ नवनीतनटाय नमः
- २३ॐ अनघाय नमः
- २४ॐ नवनीतनवाहाराय नमः
- २५ॐ मुचुकुन्दप्रसादकाय नमः
- २६ॐ षोडशस्त्रीसहस्रेशाय नमः
- २७ॐ त्रिभङ्गीमधुराकृतये नमः
- २८ॐ शुकवागमृताब्धीन्दवे नमः
- २९ॐ गोविन्दाय नमः
- ३०ॐ योगिनां पतये नमः
- ३१ॐ वत्सवाटचराय नमः
- ३२ॐ अनन्ताय नमः
- ३३ॐ धेनुकासुरमर्दनाय नमः
- ३४ॐ तृणीकृततृणावर्ताय नमः
- ३५ॐ यमलार्जुनभञ्जनाय नमः
- ३६ॐ उत्तालतालभेत्रे नमः
- ३७ॐ तमालश्यामलाकृतये नमः
- ३८ॐ गोपगोपीश्वराय नमः
- ३९ॐ योगिने नमः
- ४०ॐ कोटिसूर्यसमप्रभाय नमः
- ४१ॐ इलापतये नमः
- ४२ॐ परस्मै ज्योतिषे नमः
- ४३ॐ यादवेन्द्राय नमः
- ४४ॐ यदूद्वहाय नमः
- ४५ॐ वनमालिने नमः
- ४६ॐ पीतवाससे नमः
- ४७ॐ पारिजातापहारकाय नमः
- ४८ॐ गोवर्धनाचलोद्धर्त्रे नमः
- ४९ॐ गोपालाय नमः
- ५०ॐ सर्वपालकाय नमः
- ५१ॐ अजाय नमः
- ५२ॐ निरञ्जनाय नमः
- ५३ॐ कामजनकाय नमः
- ५४ॐ कञ्जलोचनाय नमः
- ५५ॐ मधुघ्ने नमः
- ५६ॐ मथुरानाथाय नमः
- ५७ॐ द्वारकानायकाय नमः
- ५८ॐ बलिने नमः
- ५९ॐ बृन्दावनान्तसञ्चारिणे नमः
- ६०ॐ तुलसीदामभूषणाय नमः
- ६१ॐ स्यमन्तकमणेर्हर्त्रे नमः
- ६२ॐ नरनारायणात्मकाय नमः
- ६३ॐ कुब्जाकृष्णाम्बरधराय नमः
- ६४ॐ मायिने नमः
- ६५ॐ परमपूरुषाय नमः
- ६६ॐ मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः
- ६७ॐ संसारवैरिणे नमः
- ६८ॐ कंसारये नमः
- ६९ॐ मुरारये नमः
- ७०ॐ नरकान्तकाय नमः
- ७१ॐ अनादिब्रह्मचारिणे नमः
- ७२ॐ कृष्णाव्यसनकर्षकाय नमः
- ७३ॐ शिशुपालशिरश्छेत्रे नमः
- ७४ॐ दुर्योधनकुलान्तकाय नमः
- ७५ॐ विदुराक्रूरवरदाय नमः
- ७६ॐ विश्वरूपप्रदर्शकाय नमः
- ७७ॐ सत्यवाचे नमः
- ७८ॐ सत्यसङ्कल्पाय नमः
- ७९ॐ सत्यभामारताय नमः
- ८०ॐ जयिने नमः
- ८१ॐ सुभद्रापूर्वजाय नमः
- ८२ॐ विष्णवे नमः
- ८३ॐ भीष्ममुक्तिप्रदायकाय नमः
- ८४ॐ जगद्गुरवे नमः
- ८५ॐ जगन्नाथाय नमः
- ८६ॐ वेणुनादविशारदाय नमः
- ८७ॐ वृषभासुरविध्वंसिने नमः
- ८८ॐ बाणासुरकरान्तकाय नमः
- ८९ॐ युधिष्ठिरप्रतिष्ठात्रे नमः
- ९०ॐ बर्हिबर्हावतंसकाय नमः
- ९१ॐ पार्थसारथये नमः
- ९२ॐ अव्यक्ताय नमः
- ९३ॐ गीतामृतमहोदधये नमः
- ९४ॐ कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः
- ९५ॐ दामोदराय नमः
- ९६ॐ यज्ञभोक्त्रे नमः
- ९७ॐ दानवेन्द्रविनाशकाय नमः
- ९८ॐ नारायणाय नमः
- ९९ॐ परब्रह्मणे नमः
- १००ॐ पन्नगाशनवाहनाय नमः
- १०१ॐ जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः
- १०२ॐ पुण्यश्लोकाय नमः
- १०३ॐ तीर्थपादाय नमः
- १०४ॐ वेदवेद्याय नमः
- १०५ॐ दयानिधये नमः
- १०६ॐ सर्वतीर्थात्मकाय नमः
- १०७ॐ सर्वग्रहरूपिणे नमः
- १०८ॐ परात्पराय नमः
इति श्री-ब्रह्माण्डमहापुराणे वायुप्रोक्ते श्री-कृष्णाष्टोत्तरशतनामावलिः सम्पूर्णा