मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

आदित्य अष्टोत्तरशत नाम स्तोत्रम्

3

भविष्यपुराणम्

नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक् ।

पीडा च दुःसहा राजन् जायते सततं नृणाम् ॥

॥१॥

पीडानाशाय राजेन्द्र नामानि शृणु भास्वतः ।

सूर्यादीनां च सर्वेषां पीडा नश्यति शृण्वतः ॥

॥२॥

आदित्यः सविता सूर्यः पूषाऽर्कः शीघ्रगो रविः ।

भगस्त्वष्टाऽर्यमा हंसो हेलिस्तेजोनिधिर्हरिः ॥

॥३॥

दिननाथो दिनकरः सप्तसप्तिः प्रभाकरः ।

विभावसुर्वेदकर्ता वेदाङ्गो वेदवाहनः ॥

॥४॥

हरिदश्वः कालवक्त्रः कर्मसाक्षी जगत्पतिः ।

पद्मिनीबोधको भानुर्भास्करः करुणाकरः ॥

॥५॥

द्वादशात्मा विश्वकर्मा लोहिताङ्गस्तमोनुदः ।

जगन्नाथोऽरविन्दाक्षः कालात्मा कश्यपात्मजः ॥

॥६॥

भूताश्रयो ग्रहपतिः सर्वलोकनमस्कृतः ।

जपाकुसुमसङ्काशो भास्वानदितिनन्दनः ॥

॥७॥

ध्वान्तेभसिंहः सर्वात्मा लोकनेत्रो विकर्तनः ।

मार्तण्डो मिहिरः सूरस्तपनो लोकतापनः ॥

॥८॥

जगत्कर्ता जगत्साक्षी शनैश्चरपिता जयः ।

सहस्ररश्मिस्तरणिर्भगवान् भक्तवत्सलः ॥

॥९॥

विवस्वानादिदेवश्च देवदेवो दिवाकरः ।

धन्वन्तरिर्व्याधिहर्ता दद्रुकुष्ठविनाशनः ॥

॥१०॥

चराचरात्मा मैत्रेयोऽमितो विष्णुर्विकर्तनः ।

लोकशोकापहर्ता च कमलाकर आत्मभूः ॥

॥११॥

नारायणो महादेवो रुद्रः पुरुष ईश्वरः ।

जीवात्मा परमात्मा च सूक्ष्मात्मा सर्वतोमुखः ॥

॥१२॥

इन्द्रोऽनलो यमश्चैव नैरृतो वरुणोऽनिलः ।

श्रीद ईशान इन्दुश्च भौमः सौम्यो गुरुः कविः ॥

॥१३॥

सौरिर्विधुन्तुदः केतुः कालः कालात्मको विभुः ।

सर्वदेवमयो देवः कृष्णः कामप्रदायकः ॥

॥१४॥

य एतैर्नामभिर्मर्त्यो भक्त्या स्तौति दिवाकरम् ।

सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ॥

॥१५॥

पुत्रवान् धनवाञ्छ्रीमान् जायते स न संशयः ।

रविवारे पठेद्यस्तु नामान्येतानि भास्वतः ॥

॥१६॥

पीडाशान्तिर्भवेत्तस्य ग्रहाणां च विशेषतः ।

सद्यः सुखमवाप्नोति चाऽऽयुर्दीर्घं च नीरुजम् ॥

॥१७॥

इति श्री-भविष्यपुराणे आदित्य अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्