मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूर्य सहस्र नाम स्तोत्रम्

3

भविष्यपुराणम्

शतानीक उवाच

नाम्नां सहस्रं सवितुः श्रोतुमिच्छामि हे द्विज ।

येन ते दर्शनं यातः साक्षाद् देवो दिवाकरः ॥

॥१॥

सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।

स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥

॥२॥

न तदस्ति भयं किञ्चिद् यदनेन न नश्यति ।

ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नरः ॥

॥३॥

अन्ये च रोगाः शाम्यन्ति पठतः शृण्वतस्तथा ।

सम्पद्यन्ते यथा कामाः सर्व एव यथेप्सिताः ॥

॥४॥

य एतदादितः श्रुत्वा सङ्ग्रामं प्रविशेन्नरः ।

स जित्वा समरे शत्रूनभ्येति गृहमक्षतः ॥

॥५॥

वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् ।

भूतिकारि दरिद्राणां कुष्ठिनां परमौषधम् ॥

॥६॥

बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् ।

पठते संयतो राजन् स श्रेयः परमाप्नुयात् ॥

॥७॥

स सिद्धः सर्वसङ्कल्पः सुखमत्यन्तमश्नुते ।

धर्मार्थिभिर्धर्मलुब्धैः सुखाय च सुखार्थिभिः ॥

॥८॥

राज्याय राज्यकामैश्च पठितव्यमिदं नरैः ।

विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥

॥९॥

पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्धनम् ।

पठतां शृण्वतामेतद् भवतीति न संशयः ॥

॥१०॥

तच्छृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते ।

नाम्नां सहस्रं विख्यातं देवदेवस्य धीमतः ॥

॥११॥

ध्यानम्

ध्येयः सदा सवितृमण्डलमध्यवर्ती

नारायणः सरसिजासनसन्निविष्टः ।

केयूरवान् मकरकुण्डलवान् किरीटी

हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

॥१२॥

स्तोत्रम्

ॐ विश्वविद् विश्वजित् कर्ता विश्वात्मा विश्वतोमुखः ।

विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥

॥१३॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।

महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥

॥१४॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।

भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥

॥१५॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।

वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥

॥१६॥

प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः ।

नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥

॥१७॥

अव्यङ्गधारी धीरात्मा सविता वायुवाहनः ।

समाहितमतिर्दाता विधाता कृतमङ्गलः ॥

॥१८॥

कपर्दी कल्पपाद् रुद्रः सुमना धर्मवत्सलः ।

समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥

॥१९॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।

कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥

॥२०॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।

सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥

॥२१॥

सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः ।

अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥

॥२२॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।

एकचक्ररथो मौनी सुरथो रथिनां वरः ॥

॥२३॥

सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।

दिव्यकृद् दिनकृद् देवो देवदेवो दिवस्पतिः ॥

॥२४॥

दीननाथो हरो होता दिव्यबाहुर्दिवाकरः ।

यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥

॥२५॥

परापरज्ञस्तरणिरंशुमाली मनोहरः ।

प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥

॥२६॥

सदागतिर्गन्धवहो विहितो विधिराशुगः ।

पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥

॥२७॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।

त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥

॥२८॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।

कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः ॥

॥२९॥

विरोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।

सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥

॥३०॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।

श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥

॥३१॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।

कामचारी महामायो महोग्रोऽविदितामयः ॥

॥३२॥

तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः ।

कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥

॥३३॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।

बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥

॥३४॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।

तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः ॥

॥३५॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ।

नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥

॥३६॥

अजितो विजितो जेता जङ्गमस्थावरात्मकः ।

जीवानन्दो नित्यगामी विजेता विजयप्रदः ॥

॥३७॥

पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः ।

प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥

॥३८॥

ध्रुवो मेषी महावीर्यो हंसः संसारतारकः ।

सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ॥

॥३९॥

मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः ।

वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥

॥४०॥

विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः ।

असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः ॥

॥४१॥

सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः ।

गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥

॥४२॥

भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः ।

सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥

॥४३॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।

अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥

॥४४॥

महावैद्यो गणपतिर्धनेशो गणनायकः ।

तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥

॥४५॥

कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः ।

पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥

॥४६॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ।

आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ॥

॥४७॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।

विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥

॥४८॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः ।

प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥

॥४९॥

नभो विगाहनः सत्यः सवितात्मा मनोहरः ।

हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥

॥५०॥

सुखसेव्यो महातेजा जगतामेककारणम् ।

महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥

॥५१॥

सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।

व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥

॥५२॥

आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः ।

हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥

॥५३॥

प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः ।

सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥

॥५४॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती ।

केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥

॥५५॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।

सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥

॥५६॥

कल्याणः कल्याणकरः कल्यः कल्यकरः कविः ।

कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥

॥५७॥

शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।

उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥

॥५८॥

वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः ।

तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥

॥५९॥

यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः ।

आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥

॥६०॥

गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः ।

जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥

॥६१॥

सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः ।

रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥

॥६२॥

मरीचिमाली सुमतिः कृताभिख्यविशेषकः ।

शिष्टाचारः शुभाचारः स्वचाराचारतत्परः ॥

॥६३॥

मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः ।

सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥

॥६४॥

महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः ।

सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥

॥६५॥

वेदमूर्तिश्चतुर्वेदो वेदभृद् वेदपारगः ।

क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥

॥६६॥

व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ।

अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः ॥

॥६७॥

आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः ।

चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥

॥६८॥

वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।

अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥

॥६९॥

अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ।

शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥

॥७०॥

सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः ।

बलभृद् बलदो बन्धुर्मतिमान् बलिनां वरः ॥

॥७१॥

अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः ।

संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥

॥७२॥

पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः ।

सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥

॥७३॥

पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः ।

अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥

॥७४॥

शक्तिमाञ्जलधृग् भास्वान् मोक्षहेतुरयोनिजः ।

सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥

॥७५॥

माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः ।

स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥

॥७६॥

विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः ।

विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ॥

॥७७॥

अखिन्नो वेदनिलयो वेदविद् विदिताशयः ।

प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥

॥७८॥

कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः ।

ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ॥

॥७९॥

भास्करः सततानन्दो नन्दनो नरवाहनः ।

मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥

॥८०॥

मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती ।

चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥

॥८१॥

अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्छुचिः ।

सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥

॥८२॥

सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् ।

सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥

॥८३॥

ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः ।

शतविन्दुः शतमुखो गरीयाननलप्रभः ॥

॥८४॥

धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः ।

विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥

॥८५॥

अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः ।

स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥

॥८६॥

निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः सम्प्रकाशकः ।

दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥

॥८७॥

भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।

महावराहः प्रियकृद् दाता भोक्ताऽभयप्रदः ॥

॥८८॥

चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ।

चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ॥

॥८९॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।

सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥

॥९०॥

निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः ।

पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥

॥९१॥

बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषु संस्थितः ।

सङ्कल्पयोनिर्दिनकृद् भगवान् कारणापहः ॥

॥९२॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।

वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥

॥९३॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।

सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥

॥९४॥

विग्रही विमलो विन्दुर्विशोको विमलद्युतिः ।

द्युतिमान् द्योतनो विद्युद् विद्यावान् विदितो बली ॥

॥९५॥

घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः ।

सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥

॥९६॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।

सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥

॥९७॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।

सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥

॥९८॥

अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः ।

सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः ॥

॥९९॥

सन्तापनः सन्तपन आतपस्तपसां पतिः ।

उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥

॥१००॥

प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः ।

जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥

॥१०१॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।

श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥

॥१०२॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।

धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥

॥१०३॥

रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः ।

उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥

॥१०४॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।

स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥

॥१०५॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः ।

एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥

॥१०६॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।

प्रलम्बहारसञ्चारी प्रद्योतो द्योतितानलः ॥

॥१०७॥

सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।

श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥

॥१०८॥

संसारगतिविच्छेत्ता संसारार्णवतारकः ।

सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥

॥१०९॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।

लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥

॥११०॥

धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः ।

पिनाकधृङ्महोत्साहो महामायो महाशनः ॥

॥१११॥

वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।

ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥

॥११२॥

खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः ।

भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥

॥११३॥

एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः ।

शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥

॥११४॥

सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः ।

वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥

॥११५॥

द्वापरः परमोदारः परमो ब्रह्मचर्यवान् ।

उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥

॥११६॥

सितः प्रसन्नवदनः पद्मोदरनिभाननः ।

सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥

॥११७॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।

धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥

॥११८॥

अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः ।

सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥

॥११९॥

चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः ।

मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥

॥१२०॥

सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः ।

राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥

॥१२१॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।

चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥

॥१२२॥

अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।

जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥

॥१२३॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।

निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥

॥१२४॥

धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः ।

मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥

॥१२५॥

आधारभूतो रतिमांस्तथा च धनधान्यकृत् ।

पापसन्तापहर्ता च मनोवाञ्छितदायकः ॥

॥१२६॥

रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।

कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥

॥१२७॥

सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।

साम्राज्यदाननिरतः समाराधनतोषवान् ॥

॥१२८॥

भक्तदुःखक्षयकरो भवसागरतारकः

भयापहर्ता भगवानप्रमेयपराक्रमः

मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥

॥१२९॥

फलश्रुतिः

एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे ॥

॥१३०॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।

बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥

॥१३१॥

यस्त्विदं शृणुयान्नित्यं पठेद् वा प्रयतो नरः ।

अक्षयं सुखमन्नाद्यं भवेत् तस्योपसाधितम् ॥

॥१३२॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।

विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥

॥१३३॥

कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः ।

जीवेद् वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥

॥१३४॥

नाम्नां सहस्रमिदमंशुमतः पठेद् यः

प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।

दूरेण तं परिहरन्ति सदैव रोगाः

भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥

॥१३५॥

इति श्री-भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं सम्पूर्णम्