मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सीता अष्टोत्तरशत नाम स्तोत्रम्

3

आनन्दरामायणम्

ध्यानम्

वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना

या विप्राधिपयानरम्यनयना या विप्रपालानना ।

विद्युत्पुञ्जविराजमानवसना भक्तार्तिसङ्खण्डना

श्रीमद्राघवपादपद्मयुगलन्यस्तेक्षणा साऽवतु ॥

॥१॥

स्तोत्रम्

श्रीसीता जानकी देवी वैदेही राघवप्रिया ।

रमाऽवनिसुता रामा राक्षसान्तप्रकारिणी ॥

॥२॥

रत्नगुप्ता मातुलुङ्गी मैथिली भक्ततोषदा ।

पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥

॥३॥

वैकुण्ठनिलया मा श्रीर्मुक्तिदा कामपूरणी ।

नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥

॥४॥

कुशाम्बिका दिव्यदा च लवमाता मनोहरा ।

हनुमद्वन्दितपदा मुग्धा केयूरधारिणी ॥

॥५॥

अशोकवनमध्यस्था रावणादिकमोहिनी ।

विमानसंस्थिता सुभ्रूः सुकेशी रशनान्विता ॥

॥६॥

रजोरूपा सत्त्वरूपा तामसी वह्निवासिनी ।

हेममृगासक्तचित्ता वाल्मीक्याश्रमवासिनी ॥

॥७॥

पतिव्रता महामाया पीतकौशेयवासिनी ।

मृगनेत्रा च बिम्बोष्ठी धनुर्विद्याविशारदा ॥

॥८॥

सौम्यरूपा दशरथस्नुषा चामरवीजिता ।

सुमेधादुहिता दिव्यरूपा त्रैलोक्यपालिनी ॥

॥९॥

अन्नपूर्णा महालक्ष्मीर्धीर्लज्जा च सरस्वती ।

शान्तिः पुष्टिः क्षमा गौरी प्रभाऽयोध्यानिवासिनी ॥

॥१०॥

वसन्तशीतला गौरी स्नानसन्तुष्टमानसा ।

रमानामभद्रसंस्था हेमकुम्भपयोधरा ॥

॥११॥

सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी ।

लघूदरा वरारोहा हेमकङ्कणमण्डिता ॥

॥१२॥

द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी ।

श्रीरामसेवानिरता रत्नताटङ्कधारिणी ॥

॥१३॥

रामवामाङ्गसंस्था च रामचन्द्रैकरञ्जनी ।

सरयूजलसङ्क्रीडाकारिणी राममोहिनी ॥

॥१४॥

सुवर्णतुलिता पुण्या पुण्यकीर्तिः कलावती ।

कलकण्ठा कम्बुकण्ठा रम्भोरुर्गजगामिनी ॥

॥१५॥

रामार्पितमना रामवन्दिता रामवल्लभा ।

श्रीरामपदचिह्नाङ्का रामरामेतिभाषिणी ॥

॥१६॥

रामपर्यङ्कशयना रामाङ्घ्रिक्षालिनी वरा ।

कामधेन्वन्नसन्तुष्टा मातुलुङ्गकरे धृता ॥

॥१७॥

दिव्यचन्दनसंस्था श्रीर्मूलकासुरमर्दिनी ।

एवमष्टोत्तरशतं सीतानाम्नां सुपुण्यदम् ॥

॥१८॥

फलश्रुतिः

ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः ।

अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥

॥१९॥

जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम् ।

सन्ति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च ॥

॥२०॥

नानेन सदृशानीह तानि सर्वाणि भूसुर ।

स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम् ॥

॥२१॥

एवं सुतीक्ष्ण ते प्रोक्तमष्टोत्तरशतं शुभम् ।

सीतानाम्नां पुण्यदं च श्रवणान्मङ्गलप्रदम् ॥

॥२२॥

नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः ।

सीतापूजनकालेऽपि सर्ववाञ्छितदायकम् ॥

॥२३॥

इति श्री-आनन्दरामायणे श्रीसीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्