श्रीशङ्करभगवत्पादकृतम्
विशुद्धं परं सच्चिदानन्द-रूपं
गुणाधारमाधार-हीनं वरेण्यम् ।
महान्तं विभान्तं गुहान्तं गुणान्तं
सुखान्तं स्वयं धाम रामं प्रपद्ये ॥
॥१॥शिवं नित्यमेकं विभुं तारकाख्यं
सुखाकारमाकार-शून्यं सुमान्यम् ।
महेशं कलेशं सुरेशं परेशं
नरेशं निरीशं महीशं प्रपद्ये ॥
॥२॥यदाऽवर्णयत् कर्ण-मूलेऽन्त-काले
शिवो राम रामेति रामेति काश्याम् ।
तदेकं परं तारक-ब्रह्म-रूपं
भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥
॥३॥महारत्न-पीठे शुभे कल्प-मूले
सुखासीनमादित्य-कोटि-प्रकाशम् ।
सदा जानकी-लक्ष्मणोपेतमेकं
सदा रामचन्द्रं भजेऽहं भजेऽहम् ॥
॥४॥क्वणद्रत्न-मञ्जीर-पादारविन्दं
लसन्मेखला-चारु-पीताम्बराढ्यम् ।
महारत्न-हारोल्लसत्-कौस्तुभाङ्गं
नदच्चञ्चरी-मञ्जरी-लोल-मालम् ॥
॥५॥लसच्चन्द्रिका-स्मेर-शोणाधराभं
समुद्यत्-पतङ्गेन्दु-कोटि-प्रकाशम् ।
नमद्-ब्रह्म-रुद्रादि-कोटीर-रत्न-
स्फुरत्-कान्ति-नीराजना-ऽऽराधिताङ्घ्रिम् ॥
॥६॥पुरः प्राञ्जलीनाञ्जनेयादि-भक्तान्
स्व-चिन्मुद्रया भद्रया बोधयन्तम् ।
भजेऽहं भजेऽहं सदा रामचन्द्रं
त्वदन्यं न मन्ये न मन्ये न मन्ये ॥
॥७॥यदा मत्समीपं कृतान्तः समेत्य
प्रचण्ड-प्रतापैर्-भटैर्-भीषयेन्माम् ।
तदाऽऽविष्करोषि त्वदीयं स्वरूपं
तदापत्-प्रणाशं स-कोदण्ड-बाणम् ॥
॥८॥निजे मानसे मन्दिरे सन्निधेहि
प्रसीद प्रसीद प्रभो रामचन्द्र ।
स-सौमित्रिणा कैकयी-नन्दनेन
स्व-शक्त्याऽनुभक्त्या च संसेव्यमान ॥
॥९॥स्वभक्ताग्रगण्यैः कपीशैर्-महीशैर्-
अनीकैरनेकैश्च राम प्रसीद ।
नमस्ते नमोऽस्त्वीश राम प्रसीद
प्रशाधि प्रशाधि प्रकाशं प्रभो माम् ॥
॥१०॥त्वमेवासि दैवं परं मे यदेकं
सुचैतन्यमेतत् त्वदन्यं न मन्ये ।
यतोऽभूदमेयं वियद्-वायु-तेजो-
जलोर्व्यादि-कार्यं चरं चाचरं च ॥
॥११॥नमः सच्चिदानन्द-रूपाय तस्मै
नमो देव-देवाय रामाय तुभ्यम् ।
नमो जानकी-जीवितेशाय तुभ्यं
नमः पुण्डरीकायताक्षाय तुभ्यम् ॥
॥१२॥नमो भक्ति-युक्तानुरक्ताय तुभ्यं
नमः पुण्य-पुञ्जैक-लभ्याय तुभ्यम् ।
नमो वेद-वेद्याय चाऽऽद्याय पुंसे
नमः सुन्दरायेन्दिरा-वल्लभाय ॥
॥१३॥नमो विश्व-कर्त्रे नमो विश्व-हर्त्रे
नमो विश्व-भोक्त्रे नमो विश्व-मात्रे ।
नमो विश्व-नेत्रे नमो विश्व-जेत्रे
नमो विश्व-पित्रे नमो विश्व-मात्रे ॥
॥१४॥नमस्ते नमस्ते समस्त-प्रपञ्च-
प्रभाग-प्रवीण प्रमाण-प्रवीण ।
मदीयं मनस्-त्वत्-पद-द्वन्द्व-सेवां
विधातुं प्रवृत्तं सुचैतन्य-सिद्ध्यै ॥
॥१५॥शिलाऽपि त्वदङ्घ्रि-क्षमा-सङ्गि-रेणु-
प्रसादाद्धि चैतन्यमाधत्त राम ।
नरस्-त्वत्पद-द्वन्द्व-सेवा-विधानात्
सुचैतन्यमेतीति किं चित्रमद्य ॥
॥१६॥पवित्रं चरित्रं विचित्रं त्वदीयं
नरा ये स्मरन्त्यन्वहं रामचन्द्र ।
भवन्तं भवान्तं भरन्तं भजन्तो
लभन्ते कृतान्तं न पश्यन्त्यतोऽन्ते ॥
॥१७॥स पुण्यः स गण्यः शरण्यो ममायं
नरो वेद यो देव-चूडामणिं त्वाम् ।
सदाकारमेकं चिदानन्द-रूपं
मनो-वागगम्यं परं धाम राम ॥
॥१८॥प्रचण्ड-प्रताप-प्रभावाभिभूत-
प्रभूतारि-वीर प्रभो रामचन्द्र ।
बलं ते कथं वर्ण्यतेऽतीव बाल्ये
यतोऽखण्डि चण्डीश-कोदण्ड-दण्डः ॥
॥१९॥दशग्रीवमुग्रं सपुत्रं समित्रं
सरिद्-दुर्ग-मध्यस्थ-रक्षो-गणेशम् ।
भवन्तं विना राम वीरो नरो वा-
ऽसुरो वाऽमरो वा जयेत् कस्-त्रिलोक्याम् ॥
॥२०॥सदा राम रामेति रामामृतं ते
सदाराममानन्द-निष्यन्द-कन्दम् ।
पिबन्तं नमन्तं सुदन्तं हसन्तं
हनूमन्तमन्तर्भजे तं नितान्तम् ॥
॥२१॥सदा राम रामेति रामामृतं ते
सदाराममानन्द-निष्यन्द-कन्दम् ।
पिबन्नन्वहं नन्वहं नैव मृत्योर्-
बिभेमि प्रसादादसादात् तवैव ॥
॥२२॥असीता-समेतैरकोदण्ड-भूषैर्-
असौमित्रि-वन्द्यैरचण्ड-प्रतापैः ।
अलङ्केश-कालैरसुग्रीव-मित्रैर्-
अरामाभिधेयैरलं दैवतैर्नः ॥
॥२३॥अवीरासन-स्थैरचिन्मुद्रिकाढ्यैर्-
अभक्ताञ्जनेयादि-तत्त्व-प्रकाशैः ।
अमन्दार-मूलैरमन्दार-मालैर्-
अरामाभिधेयैरलं दैवतैर्नः ॥
॥२४॥असिन्धु-प्रकोपैरवन्द्य-प्रतापैर्-
अबन्धु-प्रयाणैरमन्द-स्मिताढ्यैः ।
अदण्ड-प्रवासैरखण्ड-प्रबोधैर्-
अरामाभिधेयैरलं दैवतैर्नः ॥
॥२५॥हरे राम सीतापते रावणारे
खरारे मुरारेऽसुरारे परेति ।
लपन्तं नयन्तं सदा-कालमेवं
समालोकयाऽऽलोकयाऽशेष-बन्धो ॥
॥२६॥नमस्ते सुमित्रा-सुपुत्राभिवन्द्य
नमस्ते सदा कैकयी-नन्दनेड्य ।
नमस्ते सदा वानराधीश-वन्द्य
नमस्ते नमस्ते सदा रामचन्द्र ॥
॥२७॥प्रसीद प्रसीद प्रचण्ड-प्रताप
प्रसीद प्रसीद प्रचण्डारि-काल ।
प्रसीद प्रसीद प्रपन्नानुकम्पिन्
प्रसीद प्रसीद प्रभो रामचन्द्र ॥
॥२८॥भुजङ्ग-प्रयातं परं वेद-सारं
मुदा रामचन्द्रस्य भक्त्या च नित्यम् ।
पठन् सन्ततं चिन्तयन् स्वान्तरङ्गे
स एव स्वयं रामचन्द्रः स धन्यः ॥
॥२९॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-रामभुजङ्गप्रयातस्तोत्रं सम्पूर्णम्