- १ॐ वीरभद्राय नमः
- २ॐ महाशूराय नमः
- ३ॐ रौद्राय नमः
- ४ॐ रुद्रावतारकाय नमः
- ५ॐ श्यामाङ्गाय नमः
- ६ॐ उग्रदंष्ट्राय नमः
- ७ॐ भीमनेत्राय नमः
- ८ॐ जितेन्द्रियाय नमः
- ९ॐ ऊर्ध्वकेशाय नमः
- १०ॐ भूतनाथाय नमः
- ११ॐ खड्गहस्ताय नमः
- १२ॐ त्रिविक्रमाय नमः
- १३ॐ विश्वव्यापिने नमः
- १४ॐ विश्वनाथाय नमः
- १५ॐ विष्णुचक्रविभञ्जनाय नमः
- १६ॐ भद्रकालीपतये नमः
- १७ॐ भद्राय नमः
- १८ॐ भद्राक्षाभरणान्विताय नमः
- १९ॐ भानुदन्तभिदे नमः
- २०ॐ उग्राय नमः
- २१ॐ भगवते नमः
- २२ॐ भावगोचराय नमः
- २३ॐ चण्डमूर्तये नमः
- २४ॐ चतुर्बाहवे नमः
- २५ॐ चतुराय नमः
- २६ॐ चन्द्रशेखराय नमः
- २७ॐ सत्यप्रतिज्ञाय नमः
- २८ॐ सर्वात्मने नमः
- २९ॐ सर्वसाक्षिणे नमः
- ३०ॐ निरामयाय नमः
- ३१ॐ नित्यनिष्ठितपापौघाय नमः
- ३२ॐ निर्विकल्पाय नमः
- ३३ॐ निरञ्जनाय नमः
- ३४ॐ भारतीनासिकच्छादाय नमः
- ३५ॐ भवरोगमहाभिषजे नमः
- ३६ॐ भक्तैकरक्षकाय नमः
- ३७ॐ बलवते नमः
- ३८ॐ भस्मोद्धूलितविग्रहाय नमः
- ३९ॐ दक्षारये नमः
- ४०ॐ धर्ममूर्तये नमः
- ४१ॐ दैत्यसङ्घभयङ्कराय नमः
- ४२ॐ पात्रहस्ताय नमः
- ४३ॐ पावकाक्षाय नमः
- ४४ॐ पद्मजाक्षादिवन्दिताय नमः
- ४५ॐ मखान्तकाय नमः
- ४६ॐ महातेजसे नमः
- ४७ॐ महाभयनिवारणाय नमः
- ४८ॐ महावीराय नमः
- ४९ॐ गणाध्यक्षाय नमः
- ५०ॐ महाघोरनृसिंहजिते नमः
- ५१ॐ निश्वासमारुतोद्धूतकुलपर्वतसञ्चयाय नमः
- ५२ॐ दन्तनिष्पेषणारावमुखरीकृतदिक्तटाय नमः
- ५३ॐ पादसङ्घट्टनोद्भ्रान्तशेषशीर्षसहस्रकाय नमः
- ५४ॐ भानुकोटिप्रभाभास्वन्मणिकुण्डलमण्डिताय नमः
- ५५ॐ शेषभूषाय नमः
- ५६ॐ चर्मवाससे नमः
- ५७ॐ चारुहस्तोज्ज्वलत्तनवे नमः
- ५८ॐ उपेन्द्रेन्द्रयमादिदेवानामङ्गरक्षकाय नमः
- ५९ॐ पट्टिसप्रासपरशुगदाद्यायुधशोभिताय नमः
- ६०ॐ ब्रह्मादिदेवदुष्प्रेक्ष्यप्रभाशुम्भत्किरीटधृते नमः
- ६१ॐ कूष्माण्डग्रहभेतालमारीगणविभञ्जनाय नमः
- ६२ॐ क्रीडाकन्दुकिताजाण्डभाण्डकोटीविराजिताय नमः
- ६३ॐ शरणागतवैकुण्ठब्रह्मेन्द्रामररक्षकाय नमः
- ६४ॐ योगीन्द्रहृत्पयोजातमहाभास्करमण्डलाय नमः
- ६५ॐ सर्वदेवशिरोरत्नसङ्घृष्टमणिपादुकाय नमः
- ६६ॐ ग्रैवेयहारकेयूरकाञ्चीकटकभूषिताय नमः
- ६७ॐ वागतीताय नमः
- ६८ॐ दक्षहराय नमः
- ६९ॐ वह्निजिह्वानिकृन्तनाय नमः
- ७०ॐ सहस्रबाहवे नमः
- ७१ॐ सर्वज्ञाय नमः
- ७२ॐ सच्चिदानन्दविग्रहाय नमः
- ७३ॐ भयाह्वयाय नमः
- ७४ॐ भक्तलोकारातितीक्ष्णविलोचनाय नमः
- ७५ॐ कारुण्याक्षाय नमः
- ७६ॐ गणाध्यक्षाय नमः
- ७७ॐ गर्वितासुरदर्पहृते नमः
- ७८ॐ सम्पत्कराय नमः
- ७९ॐ सदानन्दाय नमः
- ८०ॐ सर्वाभीष्टफलप्रदाय नमः
- ८१ॐ नूपुरालङ्कृतपदाय नमः
- ८२ॐ व्यालयज्ञोपवीतकाय नमः
- ८३ॐ भगनेत्रहराय नमः
- ८४ॐ दीर्घबाहवे नमः
- ८५ॐ बन्धविमोचकाय नमः
- ८६ॐ तेजोमयाय नमः
- ८७ॐ कवचाय नमः
- ८८ॐ भृगुश्मश्रुविलुम्पकाय नमः
- ८९ॐ यज्ञपूरुषशीर्षघ्नाय नमः
- ९०ॐ यज्ञारण्यदवानलाय नमः
- ९१ॐ भक्तैकवत्सलाय नमः
- ९२ॐ भगवते नमः
- ९३ॐ सुलभाय नमः
- ९४ॐ शाश्वताय नमः
- ९५ॐ निधये नमः
- ९६ॐ सर्वसिद्धिकराय नमः
- ९७ॐ दान्ताय नमः
- ९८ॐ सकलागमशोभिताय नमः
- ९९ॐ भुक्तिमुक्तिप्रदाय नमः
- १००ॐ देवाय नमः
- १०१ॐ सर्वव्याधिनिवारकाय नमः
- १०२ॐ अकालमृत्युसंहर्त्रे नमः
- १०३ॐ कालमृत्युभयङ्कराय नमः
- १०४ॐ ग्रहाकर्षणनिर्बन्धमारणोच्चाटनप्रियाय नमः
- १०५ॐ परतन्त्रविनिर्बन्धाय नमः
- १०६ॐ परमात्मने नमः
- १०७ॐ परात्पराय नमः
- १०८ॐ स्वमन्त्रयन्त्रतन्त्राघपरिपालनतत्पराय नमः
- १०९ॐ पूजकश्रेष्ठशीघ्रवरप्रदाय नमः
इति श्रीवीरभद्राष्टोत्तरशतनामावलिः