- १ॐ ओङ्कारपरमार्थाय नमः
- २ॐ नरनारायणात्मकाय नमः
- ३ॐ मोक्षलक्ष्मीप्राणकान्ताय नमः
- ४ॐ वेङ्कटाचलनायकाय नमः
- ५ॐ करुणापूर्णहृदयाय नमः
- ६ॐ टेङ्कारजपसुप्रीताय नमः
- ७ॐ शास्त्रप्रमाणगम्याय नमः
- ८ॐ यमाद्यष्टाङ्गगोचराय नमः
- ९ॐ भक्तलोकैकवरदाय नमः
- १०ॐ वरेण्याय नमः
- ११ॐ भयनाशनाय नमः
- १२ॐ यजमानस्वरूपाय नमः
- १३ॐ हस्तन्यस्तसुदर्शनाय नमः
- १४ॐ रमावतारमङ्गेशाय नमः
- १५ॐ णाकारजपसुप्रीताय नमः
- १६ॐ यज्ञेशाय नमः
- १७ॐ गतिदात्रे नमः
- १८ॐ जगतीवल्लभाय नमः
- १९ॐ वराय नमः
- २०ॐ रक्षःसन्दोहसंहर्त्रे नमः
- २१ॐ वर्चस्विने नमः
- २२ॐ रघुपुङ्गवाय नमः
- २३ॐ दानधर्मपराय नमः
- २४ॐ याजिने नमः
- २५ॐ घनश्यामलविग्रहाय नमः
- २६ॐ हरादिसर्वदेवेड्याय नमः
- २७ॐ रामाय नमः
- २८ॐ यदुकुलाग्रण्ये नमः
- २९ॐ श्रीनिवासाय नमः
- ३०ॐ महात्मने नमः
- ३१ॐ तेजस्विने नमः
- ३२ॐ तत्त्वसन्निधये नमः
- ३३ॐ त्वमर्थलक्ष्यरूपाय नमः
- ३४ॐ रूपवते नमः
- ३५ॐ पावनाय नमः
- ३६ॐ यशसे नमः
- ३७ॐ सर्वेशाय नमः
- ३८ॐ कमलाकान्ताय नमः
- ३९ॐ लक्ष्मीसल्लापसम्मुखाय नमः
- ४०ॐ चतुर्मुखप्रतिष्ठात्रे नमः
- ४१ॐ राजराजवरप्रदाय नमः
- ४२ॐ चतुर्वेदशिरोरत्नाय नमः
- ४३ॐ रमणाय नमः
- ४४ॐ नित्यवैभवाय नमः
- ४५ॐ दासवर्गपरित्रात्रे नमः
- ४६ॐ नारदादिमुनिस्तुताय नमः
- ४७ॐ यादवाचलवासिने नमः
- ४८ॐ खिद्यद्भक्तार्तिभञ्जनाय नमः
- ४९ॐ लक्ष्मीप्रसादकाय नमः
- ५०ॐ विष्णवे नमः
- ५१ॐ देवेशाय नमः
- ५२ॐ रम्यविग्रहाय नमः
- ५३ॐ माधवाय नमः
- ५४ॐ लोकनाथाय नमः
- ५५ॐ लालिताखिलसेवकाय नमः
- ५६ॐ यक्षगन्धर्ववरदाय नमः
- ५७ॐ कुमाराय नमः
- ५८ॐ मातृकार्चिताय नमः
- ५९ॐ रटद्बालकपोषिणे नमः
- ६०ॐ शेषशैलकृतस्थलाय नमः
- ६१ॐ षाड्गुण्यपरिपूर्णाय नमः
- ६२ॐ द्वैतदोषनिवारणाय नमः
- ६३ॐ तिर्यग्जन्त्वर्चिताङ्घ्रये नमः
- ६४ॐ नेत्रानन्दकरोत्सवाय नमः
- ६५ॐ द्वादशोत्तमलीलाय नमः
- ६६ॐ दरिद्रजनरक्षकाय नमः
- ६७ॐ शत्रुकृत्यादिभीतिघ्नाय नमः
- ६८ॐ भुजङ्गशयनप्रियाय नमः
- ६९ॐ जाग्रद्रहस्यावासाय नमः
- ७०ॐ यस्मै नमः
- ७१ॐ शिष्टपरिपालकाय नमः
- ७२ॐ वरेण्याय नमः
- ७३ॐ पूर्णबोधाय नमः
- ७४ॐ जन्मसंसारभेषजाय नमः
- ७५ॐ कार्त्तिकेयवपुर्धारिणे नमः
- ७६ॐ यतिशेखरभाविताय नमः
- ७७ॐ नरकादिभयध्वंसिने नमः
- ७८ॐ रथोत्सवकलाधराय नमः
- ७९ॐ लोकार्चामुख्यमूर्तये नमः
- ८०ॐ केशवाद्यवतारवते नमः
- ८१ॐ शास्त्रश्रुतानन्तलीलाय नमः
- ८२ॐ यमशिक्षानिबर्हणाय नमः
- ८३ॐ मानसंरक्षणपराय नमः
- ८४ॐ इरिणाङ्कुरधान्यदाय नमः
- ८५ॐ नेत्रहीनाक्षिदायिने नमः
- ८६ॐ मतिहीनमतिप्रदाय नमः
- ८७ॐ हिरण्यदानग्राहिणे नमः
- ८८ॐ मोहजालनिकृन्तनाय नमः
- ८९ॐ दधिलाजाक्षतार्च्याय नमः
- ९०ॐ यातुधानविनाशनाय नमः
- ९१ॐ यजुर्वेदशिखागम्याय नमः
- ९२ॐ वेङ्कटाय नमः
- ९३ॐ दक्षिणास्थिताय नमः
- ९४ॐ सारपुष्करिणीतीराय नमः
- ९५ॐ रात्रौ देवगणार्चिताय नमः
- ९६ॐ यत्नवत्फलसन्धात्रे नमः
- ९७ॐ श्रीञ्जपाद्धनवृद्धिकृते नमः
- ९८ॐ क्लीङ्कारजपकाम्यार्थ-प्रदानसदयान्तराय नमः
- ९९ॐ सौं सर्वसिद्धिसन्धात्रे नमः
- १००ॐ नमस्कर्तुरभीष्टदाय नमः
- १०१ॐ मोहितखिललोकाय नमः
- १०२ॐ नानारूपव्यवस्थिताय नमः
- १०३ॐ राजीवलोचनाय नमः
- १०४ॐ यज्ञवराहाय नमः
- १०५ॐ णगवेङ्कटाय नमः
- १०६ॐ तेजोराशीक्षणाय नमः
- १०७ॐ स्वामिने नमः
- १०८ॐ हार्दाविद्यानिवारणाय नमः
- १०९ॐ श्रीवेङ्कटेश्वराय नमः
नामावल्याः प्रत्येकनाम्नः प्रथमाक्षर-संयोजनेन---ओं नमो वेङ्कटेशाय भवभयहरणाय गजवरवरदायाघहराय श्रीमते तत्वरूपाय सकलचराचरनिदानायाखिलविदे रमालोलाय कुमारशेषाद्वैतिने द्वादशभुजाय शिवपूजकाय नरलोकेशाय मायिने महिमोदयाय वेदसाराय श्रीं क्लीं सौं नमो नारायण ते स्वाहा---इति मन्त्रम् उपलभ्यते।
इति श्री-वेङ्कटेशाष्टोत्तरशतनामावलिः सम्पूर्णा