पारम्परिकम्
ध्यानम्
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥
॥१॥सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
॥२॥स्तोत्रम्
प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् ।
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥
॥३॥वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् ।
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥
॥४॥अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् ।
नमामि कमलां कान्तां क्षमां क्षीरोदसम्भवाम् ॥
॥५॥अनुग्रहप्रदां बुद्धिमनघां हरिवल्लभाम् ।
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥
॥६॥नमामि धर्मनिलयां करुणां लोकमातरम् ।
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥
॥७॥पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् ।
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥
॥८॥पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् ।
नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥
॥९॥चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् ।
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥
॥१०॥विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् ।
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥
॥११॥भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् ।
वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीम् ॥
॥१२॥धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदाम् ।
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥
॥१३॥शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् ।
नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥
॥१४॥विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् ।
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥
॥१५॥नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् ।
त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥
॥१६॥लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् ।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
॥१७॥मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमातः ।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥
॥१८॥फलश्रुतिः
त्रिकालं यो जपेद् विद्वान् षण्मासं विजितेन्द्रियः ।
दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥
॥१९॥देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥
॥२०॥भृगुवारे शतं धीमान् पठेद् वत्सरमात्रकम् ।
अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥
॥२१॥दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् ।
येन श्रियमवाप्नोति कोटिजन्मदरिद्रितः ॥
॥२२॥भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात्
प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये
पठंस्तु चिन्तयेद् देवीं सर्वाभरणभूषिताम् ॥
॥२३॥इति श्री-लक्ष्म्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्