प्रथमः खण्डः
परिहितेऽपयिष्य होतरित्युक्तोऽनभिहिंकृत्यापोनप्त्रीया अन्वाहेषच्छनैस्तरां परिधानीयायाः
॥१॥तासान्निगदादि शनैस्तरान्ताभ्यश्चाप्रसर्पणात्
॥२॥परं मन्द्रेण
॥३॥प्रातःसवनञ्च
॥४॥अध्यर्धकारं प्रथमाभृगावानमुत्तराः
॥५॥वृष्टिकामस्य प्रकृत्या वा
॥६॥प्रकृतिभावे पूर्वेष्वासामर्धर्चेषु लिङ्गानि काङ्क्षेत्
॥७॥प्र देवत्रा ब्रह्मणे गातुरेत्विति नव हिनोतानो अध्वरं देव यज्येति दशमीं
॥८॥आवर्वृततीरधनुद्विधारा इत्यावृत्तास्वेकधनासु
॥९॥प्रति यदापो अदृश्रमायतीरिति प्रतिदृश्यमानासु
॥१०॥आधेनवः पयसा तूर्ण्य् अर्थाः
॥११॥सम् अन्या यन्त्य् उपयन्त्य् अन्या इति
॥१२॥तीर्थदेशे होतृचमसेऽपां पूर्यमाण आपो न देवीरुपयन्ति होत्रियमिति समाप्य प्रणवेनोपरमेत्
॥१३॥आगतमध्वर्युमवेरपोऽध्वर्या३ उ इति पृच्छति । उतेमनन्नमुरिति प्रत्युक्तो निगदं ब्रुवन् प्रतिनिष्क्रामेत्
॥१४॥तास्वध्वर्यो इन्द्राय सोमं सोता मधुमन्तं वृष्टिवनिन्तीव्रान्तं बहुरमध्यं वसुमते रुद्रवत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावत इत्यन्तमनवानमुक्त्वोदगासाम्पथोऽवतिष्ठेत
॥१५॥उपातीतास्वन्वावर्त्तेत
॥१६॥यस्येन्द्रः पीत्वा वृत्राणि जङ्घनत् प्र सजन्यानि तारिषो३ मम्बयो यन्त्यध्वभिरिति तिस्रः
॥१७॥उत्तमयानुप्रपद्येत
॥१८॥एमा अग्मन्रेवतीर्जीवधन्या इति द्वे सन्नासूत्तरया परिधायोत्तरां द्वार्यामासाद्य राजानमभिमुख उपविशेदनिरस्य तृणं
॥१९॥द्वितीयः खण्डः
उपांशुं हूयमानं प्राणं यच्छ स्वाहा त्वा सुहव सूर्याय प्राणप्राणं मे यच्छेत्यनुमन्त्र्य उः इत्यनुप्राण्यात्
॥१॥अन्तर्याममपानं यच्छ स्वाहा त्वा सुहव सूर्यायापानापानं मे यच्छेत्यनुमन्त्र्य उं इति चाभ्यपान्यात्
॥२॥उपांशुसवनं ग्रावाणं व्यानाय त्वेत्यभिमृश्य वाचं विसृजेत
॥३॥पवमानाय सर्पणेऽन्वक् छन्दोगान्मैत्रावरुणो ब्रह्मा च नित्यौ
॥४॥तावन्तरेणेतरे दीक्षिताश्चेत्
॥५॥द्रप्सश्च स्कन्देति द्वाभ्यां विप्रुढढोमौ हुत्वाऽध्वर्युमुखाः समन्वारब्धाः सर्पन्त्यातीर्थदेशात्
॥६॥तत्स्तोत्रायोपविशन्त्युद्गातारमभिमुखाः
॥७॥तान् होतानुमन्त्रयतेऽत्रैवासीनो यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्यां । तस्यापि भक्षयामसि मुखमसि मुखं भूयासमिति
॥८॥दीक्षितश्चेद्व्रजेत् स्तोत्रोपस्वाराय
॥९॥सर्पेच्चोत्तरयोः सवनयोः
॥१०॥ब्रह्मन् स्तोष्यामः प्रशास्तरिति स्तोत्रायातिसर्जितावतिसृजतः
॥११॥भूरिन्द्रवन्तः सवितृप्रसूता इति जपित्वॐ स्तुध्वमिति ब्रह्मा प्रातःसवने
॥१२॥भुव इति माध्यन्दिने स्वरिति तृतीयसवने । भूर्भुवः स्वरिन्द्रवन्तः सवितृप्रसूता इत्यूर्ध्वमाग्निमारुतात्
॥१३॥स्तुत देवेन सवित्रा प्रसूता ऋतञ्च सत्यञ्च वदत । आयुष्मत्य ऋचो मा गात तनूपात् साम्न ओमिति जपित्वा मैत्रावरुण स्तुध्वमित्युच्चैः
॥१४॥तृतीयः खण्डः
अथ सवनीयेन पशुना चरन्ति
॥१॥यद्देवतो भवति
॥२॥आग्नेयोऽग्निष्टोम ऐन्द्राग्न उक्थ्ये द्वितीय ऐन्द्रो वृष्णिः षोडशिनि तृतीयः सारस्वती मेष्यतिरात्रे चतुर्थो
॥३॥इति क्रतुपशवः
॥४॥परिव्ययणाद्युक्तमग्नीषोमीयेणाचात्वालमार्जनाद्दण्डप्रदानवर्जं
॥५॥उपविश्याभिहिंकृत्य परिव्ययणीयान् त्रिः
॥६॥आवह देवान् सुन्वते यजमानायेत्यावाहनादिसुन्वच्छब्दोऽग्रे यजमानशब्दादैष्टिकेषु निगमेषु
॥७॥नान्त्याद्धारियोजनादूर्ध्वं
॥८॥न प्रावित्रं साधु ते यजमान देवता ओमन्वतीतेऽस्मिन् यज्ञे यजमानेति च
॥९॥प्रागाज्यपेभ्यः सवनदेवता आवाहयेदिन्द्रं वसुमन्तमावहेन्द्रं रुद्रवन्तमावहेन्द्रमादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावहेति
॥१०॥ताः सूक्तवाक एवानुवर्त्तयेत्
॥११॥प्रवृताहुतीर्जुह्वति वषट्कर्त्तारोऽन्येऽच्छावाकात्
॥१२॥चात्वाले मार्जयित्वाध्वर्युपथ उपतिष्ठन्त आदित्यप्रभृतीन् धिष्ण्यात्
॥१३॥आदित्यमग्रे । अध्वनामध्वपते श्रेष्ठः स्वस्त्यस्याध्वनः पारमशीयेति
॥१४॥यूपादित्याहवनीयनिर्मन्थ्यानग्नयः सगराः सगरा अग्नय सगराः स्थ सगरेण नाम्ना । पातमाग्नयः पिपृतमाग्नयो नमो वो अस्तु मा मा हिंसिष्टेति
॥१५॥सव्यावृतः शामित्रोवध्यगोहचात्वालोत्करास्तावान्
॥१६॥एवमेव दक्षिणावृत आग्नीध्रीयमच्छावाकस्य वादं दक्षिणं मार्जालीयं खरमिति
॥१७॥उत्तरेणाग्नीध्रीयं परिव्रज्य प्राप्य सदोऽभिमृशन्त्युर्व्यन्तरिक्षं वीहीति
॥१८॥द्वार्ये संमृश्यैवमपरानुपतिष्ठन्ते
॥१९॥उपस्थितांश्चानुपस्थितांश्चाप्यपश्यन्ताव्यनीक्षमाणाः
॥२०॥होता मैत्रावरुणो ब्राह्मणाच्छंसी पोता नेष्टेति पूर्वया द्वारा सदः प्रसर्पन्त्युरुन्नो लोकमनुनेषि विद्वानिति जपन्तः
॥२१॥उत्तरेण सर्वान् धिष्ण्यान्त्सन्नान्त्सन्नानपरेण यथा स्वन्धिष्ण्यानां पश्चादुपविश्य जपन्ति । यो अद्य सौम्यो वधोघायूनामुदीरति । विषूकुहमिव धन्वना व्यस्याः परिपन्थिनं सदसस्पतये नम इति
॥२२॥एवमित्युपस्थानादिजपान्तमतिदिश्यते । तमन्वञ्च ऋत्विजः प्रसर्पकाः
॥२३॥पूर्वेणौडुम्बरीमपरेण धिष्ण्यान् यथान्तरमनूपविशन्ति
॥२४॥एतयाऽऽवृताऽऽग्नीध्र आग्नीध्रीयमप्याकाशं
॥२५॥दक्षिणादयो धिष्ण्या उदकसंस्थाः प्रसर्पिणां
॥२६॥आद्यौ तु विपरीतौ
॥२७॥तेषां विसंस्थितसञ्चरा यथास्वं धिष्ण्यानुत्तरेण
॥२८॥दक्षिणमधिष्ण्यानां
॥२९॥चतुर्थः खण्डः
अथैन्द्रैः पुरोडाशैरनुसवनं चरन्ति
॥१॥धानावन्तं करम्भिणमिति प्रातःसवनेऽनुवाक्या
॥२॥माध्यन्दिनस्य सवनस्य धाना इति माध्यन्दिने । तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने । होता यक्षदिन्द्रं हरिवाँ इन्द्रो धाना अत्त्विति प्रैषो लिङ्गैरनुसवनं
॥३॥उद्धृत्यादेशपदं तेनैवेज्या
॥४॥होता यक्षदसौ यज योऽस्तु स्थान आगूर्वषट्कारौ यत्र क्व च प्रैषेण यजेत्
॥५॥अथ स्विष्टकृतोऽग्ने जुषस्व नो हविर्माध्यन्दिने सवने जातवेदोऽग्ने तृतीये सवने हि कानिष इत्यनुसवनमनवाक्याः
॥६॥होता यक्षदग्निपुरोडाशानामिति प्रैषो हविरग्ने वीहीति याज्या एतास्वनुवाक्यासु पुरोडाशशब्दं बहुवदेके
॥७॥विज्ञायते पूयति वा एतदृचोऽक्षरं यदेनदूहति तस्मादृचं नोहेत्
॥८॥पञ्चमः खण्डः
द्विदेवत्यैश्चरन्ति
॥१॥वायव इन्द्र वायभ्यां । वायवायाहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये अनवानं पृथक्प्रणवे
॥२॥होता यक्षद्वायुमग्रेगां होता यक्षदिन्द्रवायू अर्हन्तेति प्रैषावनवानं
॥३॥अग्रं पिबा मधूनामिति याज्ये अनवानमेकागुरे पृथग्वषट्कारे
॥४॥इदमाद्यनवानं प्रातःसवन इज्यानुवाक्ये
॥५॥प्रैषौ चोत्तरयोर्ग्रहयोः
॥६॥हुत्वैतद्ग्रहपात्रमाहरत्यध्वर्युः
॥७॥तद्गृह्णीयादैतुवसुः परूवसुरिति
॥८॥प्रतिगृह्य दक्षिणमूरुमपोच्छाद्य तस्मिन् सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिदध्यात्
॥९॥एवमुत्तरे
॥१०॥सव्येन त्व् अपिधाय तयोः प्रतिग्रहो भक्षणम् च । मैत्रावरुणस्य अयम् वाम् मित्रा वरुणा होता यक्षन् मित्रा वरुणा गृणाना जमदगिन्ना इत्य् ऐतु वसुर् विदद्वसुर् इति प्रतिगृह्य दक्षिणेन ऐन्द्र वायवम् हृत्वा अभ्यात्मम् सादनम्
॥११॥आश्विनस्य प्रातर् युजा विबोधय होता यक्षद् अश्विना नासत्या वावृधाना शुभस् पती इति । ऐतु वसुः सम्यद् वसुर् इति प्रतिगृह्य एवम् एव हृत्वा उत्तरेण शिरः परिहृत्य अभ्यात्मतरम् सादनम्
॥१२॥अनुवचनप्रैषयाज्यासु नित्योऽध्वर्युतः संप्रैषः
॥१३॥उन्नीयमानेभ्योऽन्वाहा त्वा वहन्त्वसाविदेवमिहोपयातेत्यनुसवनं
॥१४॥होता यक्षदिन्द्रं प्रातः प्रातः सावस्य । होता यक्षदिन्द्रं माध्यन्दिनस्य सवनस्य होता यक्षदिन्द्रं तृतीयस्य सवनस्येति प्रेषितः प्रेषितो होताऽनुसवनं प्रस्थितयाज्याभिर्यजति
॥१५॥नामादेशमितरे
॥१६॥प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रः । अच्छावाकश्च
॥१७॥उत्तरयोः सवनयोः पुराऽऽग्नीध्रात् । इदन्ते सौम्यं मधु मित्रं वयं हवामह इन्द्र त्वा वृषभं वयं मरुतो यस्य हि क्षयेऽग्ने पत्नीरिहावहोक्षान्नाय वशान्नायेति प्रातःसवनिक्यः प्रस्थितयाज्याः
॥१८॥पिबा सोमम् अभि यम् उग्र तर्द इति तिस्रो अर्वान् एहि सोम कामम् त्वाहुस् तव अयम् सोमस् त्वम् एह्य् अर्वान् इन्द्राय सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः स्वाहा इति माध्यंदिन्यः । इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितम् इन्द्रा वरुणा सुतपाव् इमम् सुतम् इन्द्रश् च सोमम् पिबतम् बृहस्पत आ वो वहन्तु सप्त यो रघुष्यदो मे वनः सुहवा आ हि गन्तन इन्द्रा विष्णू पिबतम् मध्वो अस्य इमम् स्तोमम् अर्हते जात वेदस इति तार्तीय सवनिक्यः । सोमस्य अग्ने वीहि इत्य् अनुवषट्कारः
॥१९॥प्रस्थित याज्यासु शस्त्र याज्यासु मरुत्वतीये हारियोजने महिम्नि । आश्विने च तैरो अह्न्ये
॥२०॥तद् एषा अभि यज्ञ गाथा गीयते । ऋतु याजान् द्विदेवत्यान् यश् च पत्नीवतो ग्रहः । आदित्य ग्रह सावित्रौ तान् स्म मा अनुवषट् कृथाः इति
॥२१॥प्रतिवषट् कारम् भक्षणम्
॥२२॥तूष्णीम् उत्तरम्
॥२३॥एत्य् अध्वर्युः
॥२४॥अयाळ् अग्नीद् इति पृच्छति
॥२५॥अयाळ् इति प्रत्याह
॥२६॥स भद्रम् अकर् यो नः सोमस्य पाययिष्यति इति होता जपति
॥२७॥षष्ठः खण्डः
ऐन्द्र वायवमुत्तरेऽर्धे गृहीत्वाऽध्वर्यवे प्रणामयेदेषवसुः पुरूवसुरिहवसुः पुरूवसुर्मयिवसुः पुरूवसुर्वाक्या वाचं मे पात्युपहूता वाक् सह प्राणेनोप मां वाक् सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति
॥१॥अध्वर्य उपह्वयस्वेत्यक्त्वाऽवघ्राय नासिकाभ्यां वाग्देवी सोमस्य तृप्यत्विति भक्षयेत् सर्वत्र
॥२॥प्रतिभक्षितं होतृचमसे किञ्चिदवनीयानाचम्योपह्वानादि पुनः संभक्षयित्वा न सोमेनोच्छिष्टा भवन्तीत्युदाहरन्ति शेषं होतृचमस आनीयोत्सृजेत्
॥३॥एवमुत्तरे
॥४॥नत्वेनयोः पुनर्भक्षः
॥५॥न कञ्चन द्विदेवत्यानामनवनीतमवसृजेत्
॥६॥मैत्रावरुणमेषवसुर्विदद्वसुरिहवसुर्विदद्वसुर्मयिवसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाह्युपहूतं चक्षुः सह मनसोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति
॥७॥अक्षिभ्यां त्विहावेक्षणं दक्षिणेनाग्रे
॥८॥सव्येन पाणिना हातृचमसमाददीतैतुवसूनां पतिर्विश्वेषां देवानां समिदिति
॥९॥तस्यारत्निना तस्योरोर्वसनमपोच्छाद्य तस्मिंत्सादयित्वाऽऽकाशवतीभिरङ्गुलीभिरपिदध्यात्
॥१०॥आश्विनं यथाहृतं परिहृत्य पुनः सादयित्वाऽध्वर्यवे प्रणामयेदेषवसुः संयद्वसुरिहवसुः संयद्वसुर्मयिवसुः संयद्वसुः श्रोत्रपा श्रोत्रं मे पाह्युपहूतं श्रोत्रं सहात्मनोप मां श्रोत्र सहात्मना ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति
॥११॥कर्णाभ्यां त्विहोपोद्यच्छेद्दक्षिणायाग्रे निधाय होतृचमसं स्पृष्ट्वोदकमिडामुपह्वयते
॥१२॥उपोद्यच्छन्ति चमसान्
॥१३॥अवान्तरेडां प्राश्याचम्य होतृचमसं भक्षयेदध्वर्य उपह्वयस्वेत्युक्त्वा
॥१४॥दीक्षितो दीक्षिता उपह्वयध्वं
॥१५॥यजमाना इति वा
॥१६॥एवमितरे
॥१८॥यथासभक्षं त्वदीक्षिताः
॥१९॥मुख्यचमसादचमसाः
॥२०॥द्रोणकलशाद्वा
॥२१॥उक्तः सोमभक्षजपः सर्वत्र
॥२२॥होतुर्वषट्कारे चमसा हूयन्त उद्गातुर्ब्रह्मणो यजमानस्य तेषां होताऽग्रे भक्षयेदिति गौतमो भक्षस्य वषट्कारान्वयत्वात्
॥२३॥अभक्षणमितरेषामिति तौल्वलिः कृतार्थत्वात्
॥२४॥भक्षयेयुरिति गाणगारिरतः संस्कारत्वात् का च तच्चमसता स्यान्न चान्यः सम्बन्धः
॥२५॥भक्षयित्वाऽपाम सोमममृता अभूम शन्नो भव हृद आपीत इन्दविति मुखहृदये अभिमृशेरन्
॥२६॥आप्यायस्व समेतु ते सन्ते पयांसि समु यन्तु वाजा इति । चमसानाद्योपाद्यान् पूर्वयोः सवनयोः
॥२७॥आद्यांस्तृतीयसवने
॥२८॥सर्वत्रात्मानमन्यत्रैकपात्रेभ्यः
॥२९॥आप्यायितांश्चमसान् सादयन्ति ते नाराशंसा भवन्ति
॥३०॥सप्तमः खण्डः
एतस्मिन् काले प्रपद्याच्छावाक उत्तरेणाग्नीध्रीयं परिव्रज्य पूर्वेण सद आत्मनो धिष्ण्यदेश उपविशेत्
॥१॥पुरोडाशदृगलं प्रत्तमिडामिवोद्यम्याच्छावाक वदस्वेत्युक्तोऽच्छा वो अग्निमवस इति तृचमन्वाह
॥२॥अन्त्येन प्रणवेनोपसन्तनुयाद्यजमानहोतरध्वर्योऽग्नीद्ब्रह्मन् पोतर्नेष्टरुतोपवक्तरिषेषयध्वमूर्जोऽर्जयध्वं नि वोजामयोजिहतान् यजाम योनिः सपत्नायामनिबाधितासो जयता भीत्वरीं जयता भीत्वर्याश्रवद्व इन्द्रःशृणवद्वो अग्निः प्रस्थायेन्द्राग्निभ्यां सोमं वोचतोपो अस्मान् ब्राह्मणान् ब्राह्मणाह्वयध्वमिति
॥३॥समाप्तेऽस्मिन् निगदेऽध्वर्युर्होतर्युपहवं काङ्क्षते
॥४॥प्रत्येता सुन्वन् यजमानः सूक्ता वामाग्रभीत् । उत प्रतिष्ठोतोपवक्तरुत नो गाव उपहूता उपहूत इत्युपह्वयते
॥५॥उपहूतः प्रत्यस्मा इत्युन्नीयमानायानूच्य प्रातर्यावभिरागतमिति यजति
॥६॥निधाय पुरोडाशदृगलं स्पृष्ट्वोदकं चमसं भक्षयेत्
॥७॥नास्पृष्ट्वोदकाः सोमेनेतराणि हवींष्यालभेरन्
॥८॥आदायैनदादित्यप्रभृतीन् धिष्ण्यानुपस्थायापरया द्वारा सदः प्रसृप्य पश्चात् स्वस्य धिष्ण्यस्योपविश्य प्राश्नीयात्
॥९॥उपविष्टे ब्रह्माग्नीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः प्रागेवेतरे गता भवन्ति
॥१०॥प्राश्य प्रतिप्रसृप्य
॥११॥अष्टमः खण्डः
ऋतुयाजैश्चरन्ति
॥१॥तेषां प्रैषाः
॥२॥पञ्चमं प्रैषसूक्तं
॥३॥तेन तेनैव प्रेषितः प्रेषितः स स यथाप्रैषं यजति
॥४॥होताऽध्वर्युगृहपतिभ्यां होतरेतद्यजेत्युक्तः
॥५॥स्वयं षष्ठे पृष्णाहनि
॥६॥पश्चादुत्तरवदेरुपविश्याध्वर्युः । पश्चाद्गार्हपत्यस्य गृहपतिः
॥७॥अथैतदृतुपात्रमानन्तर्येण वषट्कर्तारो भक्षयन्ति
॥८॥पृथगध्वर्युः प्रतिभक्षयेत्
॥९॥तस्मिंश्चैवोपहवः
॥१०॥नवमः खण्डः
पराङध्वर्यावावृत्ते सुमत्पद्वग्दे पिता मातरिश्वा छिद्रापदाधादछिद्रोक्था कवयः शंसन् । सोमो विश्वविन्नीथानिनेषद्बृहस्पतिरुक्थामदानि शंसिषत् वागायुर्विश्वायुर्विश्वमायुः क इदं शंसिष्यति स इदं शंसिष्यतीति जपित्वाऽनभिहिङ्कृत्य शॐऽसावोमित्युच्चैराहूय तूष्णीं शंसं शंसेदुपांशु सप्रणवमसन्तन्वन्
॥१॥एष आहावः प्रातःसवने शस्त्रादिषु । पर्यायप्रभृतीनाञ्च । सर्वत्र चान्तःशस्त्रं
॥२॥तेन चोपसन्तानः
॥३॥शस्त्रस्वरः प्रतिगर ओथामो दैवेति
॥४॥शॐसामो दैवेत्याहावे
॥५॥प्लुतादिः प्रणवेऽप्लुतादिरवसाने
॥६॥प्रणवे प्रणव आहावोत्तरे
॥७॥अवसाने च
॥८॥प्रणवान्तो वा
॥९॥यत्र यत्र चान्तःशस्त्रं प्रणवेनावस्यति । प्रणवान्त एव तत्र प्रतिगरः । शस्त्रान्ते तु प्रणवः
॥१०॥भूरग्निर्ज्योतिर्ज्योतिरग्नॐ । इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रों । सूर्यो ज्योतिर्ज्योतिः स्वः सूर्यो३मिति त्रिपदस्तूष्णींशंसः । यद्यु वै षट्पदः पूर्वैर्ज्योतिःशब्दैरग्रेऽवस्येत्
॥११॥उच्चैर्निविदं यथानिशान्तमग्निर्देवेद्ध इति
॥१२॥नास्या आह्वानं
॥१३॥न चोपसन्तानः
॥१४॥उत्तमेन पदेन प्र वो देवायेत्याज्यमुपसन्तनुयात्
॥१५॥एतेन निविद उत्तराः
॥१६॥सर्वे च पदसमाम्नायाः
॥१७॥उपसन्तानस्त्वन्यत्र
॥१८॥आह्वानञ्च निविदां
॥१९॥आज्याद्यां त्रिः शंसेदर्धर्चशो विग्राहं
॥२०॥तन्निदर्शयिष्यामः । प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै । गमद्देवेभिरासनो यजिष्ठो बर्हिरासदो३मिति
॥२१॥ऋगावानं वैवमेव । एतेनाद्याः प्रतिपदामनृगावानं
॥२२॥अनुब्राह्मणं वानुपूर्व्यं
॥२३॥आहूयोत्तमया परिदधाति
॥२४॥सर्वशस्त्रपरिधानीयास्वेवं
॥२५॥उक्थं वाचि घोषाय त्वेति शस्त्वा जपेत् । अग्न इन्द्रश्च दाशुषो दुरोण इति याज्या । उक्थपात्रमग्रे भक्षयेत्
॥२६॥ततश्चमसांश्चमसिनः सर्वशस्त्रयाज्यान्तेषु
॥२७॥वषट्कर्तैकपात्राण्यादित्यग्रहसावित्रवर्जं
॥२८॥दशमः खण्डः
स्तोत्रमग्रे शस्त्रात्
॥१॥एषेति प्रोक्त उद्गातुर्हिङ्कारे प्रातःसवन आह्वयीरन्
॥२॥प्रतिहार उत्तरयोः सवनयोः
॥३॥वायुरग्रेगा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यास्तस्या उपरिष्टात् तृचं तृचं शंसेत्
॥४॥वायवायाहि दर्शतेति सप्त तृचाः
॥५॥द्वितीयां प्रउगे त्रिः
॥६॥पुरोरुग्भ्य आह्वयीत षष्ठ्यां त्रिरवस्येदर्धर्चेऽर्धर्चे
॥७॥उत्तमां न शंसेच्छंसन्त्येके तृच आह्वानमशंसने
॥८॥माधुच्छन्दसं प्रउगमित्येतदाचक्षते
॥९॥उक्थं वाचि श्लोकाय त्वेति शस्त्वा जपेत् । विश्वेभिः सोम्यं मध्विति याज्या । प्रशास्ता ब्राह्मणाच्छंस्यच्छावाक इति शस्त्रिणो होत्रकाः
॥१०॥तेषां चतुराहावानि शस्त्राणि प्रातःसवने तृतीयसवने पर्यायेष्वतिरिक्तेषु च
॥११॥पञ्चाहावानि माध्यन्दिने
॥१२॥स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्यो धाय्याभ्य इति पृथगाह्वानं
॥१३॥होतुरपि
॥१४॥तेभ्यश्चान्यदनन्तरं
॥१५॥आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत् प्रथमेष्वाहावः
॥१६॥आपोदेवते च तृचे
॥१७॥तेषां तृचाः स्तोत्रियानुरूपाः शस्त्रादिषु सर्वत्र
॥१८॥माध्यन्दिने प्रगाथास्तृतीयाः
॥१९॥यथाग्रहणमन्यत्
॥२०॥याज्यान्तानि शस्त्राणि
॥२१॥उक्थं वाचीत्येषां शस्त्वाजपः प्रातःसवने
॥२२॥ऊर्द्ध्वञ्च षोडशिनः सर्वेषां
॥२३॥उक्थं वाचीन्द्रायेति माध्यन्दिन उक्थं वाचीन्द्राय देवेभ्य इत्युक्थेषु सषोडशिकेषु
॥२४॥अनन्तरस्य पूर्वेण
॥२५॥स्तोत्रियेणानुरूपस्य छन्दःप्रमाणलिङ्गदैवतानि
॥२६॥आर्षञ्चैके
॥२७॥आ नो मित्रावरुणा नो गन्तं रिशादसा प्र वो मित्राय प्रमित्रयोर्वरुणयोरिति न वायातं मित्रावरुणेति याज्या । आयाहि सुषुमाहित इति षट् स्तोत्रियानुरूपावनन्तराः सप्तेन्द्रत्वा वृषभमुद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्या । इन्द्राग्नी आगतं सुतमिन्द्राग्नी अपसस्परि तोशा वृत्रहणा हुव इति तिस्र इहेन्द्राग्नी उपेयं वामस्य मन्मन इति नवेन्द्राग्नी आगतं सुतमिति याज्या
॥२८॥एकादशः खण्डः
संस्थितेषु सवनेषु षोडशिनि चातिरात्रे प्रशास्तः प्रसुहीत्युक्तः सर्पतेति प्रशास्ताऽतिसृजेत् । होता दक्षिणेनौदुम्बरीमञ्जसेतरेऽपरया द्वारोत्तरां वेदिश्रोणीमभिनिःसर्पन्ति
॥१॥मृगतीर्थमित्येतदाचक्षते
॥२॥एतेन निष्क्रम्य यथार्थं न त्वेवान्यन्मूत्रेभ्यः
॥३॥एते न निष्क्रम्य कृत्वोदकार्थं वेद्यां समस्तानुपस्थायापरया द्वारा नित्ययाऽऽवृता सदोद्वार्ये चाभिमृश्य तूष्णीं प्रतिप्रसर्पन्ति
॥४॥एषाऽऽवृत् सर्पतेतिवचने
॥५॥पूर्वयैव गृहपतिः
॥६॥द्वादशः खण्डः
एतस्मिन् काले ग्रावस्तुत् प्रपद्यते
॥१॥तस्योक्तमुपस्थानं
॥२॥पूर्वया द्वारा हविर्धाने प्रपद्य दक्षिणस्य हविर्धानस्य प्रागुदगुत्तरस्याक्षशिरसस्तृणं निरस्य राजानमभिमुखोऽवतिष्ठते
॥३॥नात्रोपवेशनः
॥४॥यो अद्य सौम्य इति तु
॥५॥अथास्मा अध्वर्युरुष्णीषं प्रयच्छत ि
॥६॥तदञ्जलिना प्रतिगृह्य । त्रिः प्रदक्षिणं शिरः समुखं वेष्टयित्वा यदा सोमांशूनभिषवाय व्यपोहन्त्यथ ग्राव्णोऽभिष्टुयात्
॥७॥मध्यमस्वरेणेदं सवनं
॥८॥अभि त्वा देव सवितुर् युञ्जते मन उत युञ्जते धिय आ तू न इन्द्र क्षुमन्तम् मा चिद् अन्यद् विशंसत प्रैते वदत्व् इत्य् अर्बुदम्
॥९॥प्राग् उत्तमाया आ व ऋञ्जसे प्र वो ग्रावाण इति
॥१०॥सूक्तयोर् अन्तर उपरिष्टात् पुरस्ताद् वा पावमानीर् ओप्य यथा अर्थम् आवा ग्रह ग्रहणात् शिष्टया परिधाय वेद्यम् यजमानस्य उष्णीषम्
॥११॥आदाय यथा अर्थम् अन्त्येष्व् अहह्सु
॥१२॥प्रतिप्रयच्छेद् इतरेषु
॥१३॥अथ अपरम् अभिरूपम् कुर्याद् इति गाणगारिः
॥१४॥आप्यायस्व समेतु त इति तिस्रो मृजन्ति त्वा दश क्षिप एतम् उ त्यम् दश क्षिपो मृज्यमानः सुहस्त्या दशभिर् विवस्वतो दुहन्ति सप्त एकाम् अधुक्षत् पिप्युषीम् इषम् आ कलशेषु धावति पवित्रे परिषिच्यत इत्य् एका कलशेषु धावति श्येनो वर्म विगाहत इति द्वे । एतासाम् अर्बुदस्य चतुर्थीम् उद्धृत्य तृच अन्तेषु तृचान् अवदध्यात्
॥१५॥आप्याय्यमाने प्रथमम्
॥१६॥मृज्यमाने द्वितीयः
॥१७॥दुह्यमाने तृतीयम्
॥१८॥आसिच्यमाने चतुर्थम्
॥१९॥बृहत् शब्दे बृहत् शब्दे चतुर्थीम्
॥२०॥मा चिद् अन्यद्द् हि शंसत इति यदि ग्रावाणः संह्रादेरन्
॥२१॥समानम् अन्यत्
॥२२॥अर्बुदम् एव इत्य् एके
॥२३॥प्र वो ग्रावाण इत्य् एके
॥२४॥उक्तम् सर्पणम्
॥२५॥स्तुते माध्यंदिने पवमाने विहृत्य अङ्गारान्
॥२६॥त्रयोदशः खण्डः
दधिघर्मेण चरन्ति प्रवर्ग्यवांश्चेत्
॥१॥तस्योक्तमृगावानं घर्मेण
॥२॥इज्या भक्षिणश्च
॥३॥होतर्वदस्वेत्युक्त उत्तिष्ठतावपश्यतेत्याह
॥४॥श्रातं हविरित्युक्तः श्रातं हविरित्यन्वाह
॥५॥श्रातं मन्य ऊधनि श्रातमग्नाविति यजति । अग्ने वीहीत्यनुवषट्कारः । दधिघर्मस्याग्ने वीहीति वा । मयि त्यदिन्द्रियं बृहन्मयि द्युम्नमुत क्रतुः । त्रिश्रुद्घर्मो विभातु म आकूत्या मनसा सह । विराजा ज्योतिषा सह । तस्य दोहमशीय ते तस्य त इन्द्रपीतस्य त्रिष्टुप्छन्दस उपहूतस्योपहूतस्योपहूतो भक्षयामीति भक्षजपः । यं धिष्णवतां प्राञ्चमङ्गारैरभिविहरेयुः । पश्चात् स्वस्य धिष्णस्योपविश्योपहवमिष्ट्वा परि त्वाऽग्ने पुरं वयमिति जपेत्
॥६॥अनिष्ट्वा दीक्षितः
॥७॥सवनीयानां पुरस्तादुपरिष्टाद्वा पशुपुरोडाशेन चरन्ति
॥८॥अक्रियामेकेऽन्यत्र तदर्थवादवदनात्
॥९॥क्रियामाश्मरथ्योऽन्विताप्रतिषेधात्
॥१०॥पुरोडाशाद्युक्तमानाराशंससादनात् । नत्विह द्विदेवत्या एतस्मिन् काले दक्षिणा नीयन्तेऽहीनैकाहेषु
॥११॥कृष्णाजिनानि धून्वन्तः स्वयमेव दक्षिणापथं यन्ति दीक्षिताः सत्रेष्विदमहं मां कल्याण्यै कीर्त्त्यै तेजसे यशसेऽमृतत्वायात्मानं दक्षिणां नयानीति जपन्तः
॥१२॥उन्नेष्यमाणास्वाग्नीध्रीय आहुती जुह्वति
॥२३॥ददानीत्यग्निर्वदति वायुराह तथेति तत् । हन्तेति चन्द्रमाः सत्यमादित्यः सत्यमोमापस्तत् सत्यमाभरन् । दिशो यज्ञस्य दक्षिणा दक्षिणानां प्रियो भूयासं स्वाहा । प्राचि ह्येधि प्राचीं जुषाणा प्राच्याज्यस्य वेतु स्वाहेति द्वितीयां
॥१४॥क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामं समुद्रमाविश कामेन त्वा प्रतिगृह्णामि कामैतत्ते । वृष्टिरसि द्यौस्त्वा ददातु पृथिवी प्रतिगृह्णात्वित्यतीतास्वनुमन्त्रयेत प्राणि
॥१५॥अभिमृशेदप्राणि
॥१६॥कन्याञ्च
॥१७॥सर्वत्र चैवं
॥१८॥प्रतिगृह्याग्नीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः । प्राश्य प्रतिप्रसृप्य
॥१९॥चतुर्दशः खण्डः
मरुत्वतीयेन ग्रहेण चरन्ति
॥१॥इन्द्र मरुत्व इह पाहि सोमं होता यक्षदिद्रं मरुत्वन्तं सजोषा इन्द्र सगणो मरुद्भिरिति । भक्षयित्वैतत् पात्रं मरुत्वतीयं शस्त्रं शंसेत्
॥२॥अध्वर्यो शॐ३सावोमिति माध्यन्दिने शस्त्रादिष्वाहावः
॥३॥आ त्वा रथं यथोतय इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ
॥४॥इन्द्र नेदीय एदिहीतीन्द्रनिहवः प्रगाथः
॥५॥प्र नूनं ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यः
॥६॥तृचाः प्रतिपदनुचरा द्वृचाः प्रगाथाः । आऽतोऽर्धर्चं सर्वं
॥७॥स्तोत्रियानुरूपाः प्रतिपदनुचराः प्रगाथाः सर्वत्र
॥८॥प्राक् छन्दांसि त्रैष्टुभात्
॥९॥सर्वाश्चैवाचतुष्पदाः
॥१०॥पङ्क्तिषु द्विरवस्येत् द्वयोर्द्वयोः पादयोः
॥११॥अर्धर्चशो वाऽऽश्विने
॥१२॥पच्छःशस्यगतां तु पच्छः
॥१३॥समासमुत्तमे पदे
॥१४॥पच्छोऽन्यत्
॥१५॥पादैरवसायार्धर्चान्तैः सन्तानः
॥१६॥अग्निर्नेता त्वं सोम क्रतुभिः पिन्वन्त्यप इति धाय्याः
॥१७॥प्र व इन्द्रा बृहत इति मरुत्वतीयः प्रगाथः
॥१८॥जनिष्ठा उग्र इति
॥१९॥एकभूयसीः शस्त्वा मरुत्वतीयां निविदन्दध्यात् सर्वत्र
॥२०॥एवमयुजासु माध्यन्दिने
॥२१॥एकां तृचे । अर्धा युग्मासु
॥२२॥एकां शिष्ट्वा तृतीयसवने
॥२३॥अक्षिणी मृजानः परिदध्याद् ध्यायन्नेन आत्मनः
॥२४॥अन्यत्राप्येतया परिदधदेवं
॥२५॥उक्थ्यं वाचीन्द्राय शृण्वते त्वेति शस्त्वा जपेत् । ये त्वा हि हत्ये मघवन्नवर्धन्निति याज्या
॥२६॥पञ्चदशः खण्डः
निष्केवल्यस्य अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ । यदि रथन्तरं पृष्ठं
॥२॥यद्यु वै बृहत्वामिद्धि हवामहे त्वं ह्येहि चेरव इति
॥३॥प्रगाथा एते भवन्ति
॥४॥तां द्वे तिस्रस्कारं शंसेत्
॥५॥चतुर्थषष्ठौ पादौ बार्हते प्रगाथे पुनरभ्यसित्वोत्तरयोरवस्येत्
॥६॥बृहतीकारञ्चेत् तावेव द्विः
॥७॥तृतीयपञ्चमौ तु काकुभेषु
॥८॥प्रत्यादानाद्युत्तरा
॥९॥एवमेतत्पृष्ठेष्वहःस्विन्द्रनिहवब्राह्मणस्पत्यान्
॥१०॥बृहतीकारमितरेषु पृष्ठेषु
॥११॥बृहद्रथन्तरयोश्च तृचस्थयोः
॥१२॥होत्रकाश्च येषां प्रगाथाः स्तोत्रियानुरूपाः
॥१३॥सर्वमन्यद्यथास्तुतं
॥१४॥परिमितशस्य एकाहः
॥१५॥स यद्युभयसामा यत् पवमाने तस्य योनिरनुरूपः
॥१६॥योनिस्थान एवैनामन्यत्र शंसेत्
॥१७॥ऊर्ध्वधाय्याया योनिस्थानं
॥१८॥अनेकानन्तर्ये सकृत् पृथग्वाऽऽह्वानं
॥१९॥एवमूर्ध्वमिन्द्रनिहवात् प्रगाथानां
॥२०॥यद्वा वानेति धाय्या । पिबा सुतस्य रसिन इति सामप्रगाथः
॥२१॥इन्द्रस्य नु वीर्य्याणीत्येतस्मिन्नैन्द्री ंनिविदं दध्यात्
॥२२॥अनुब्राह्मणं वा स्वरः । उक्थं वाचीन्द्रायोपशृण्वते त्वेति शस्त्वा जपेत् । पिबा सोममिन्द्रमन्दतु त्वेति याज्या
॥२३॥षोडशः खण्डः
होत्रकाणां कया नश्चित्र आभुवत् कया त्वन्न ऊत्या कस्तमिन्द्रत्वा वसुं सद्यो ह जात एवा त्वामिन्द्रोशन्नुषुणः सुमना उ पाक इति याज्या
॥१॥तरोभिर्वो विदद्वसुन्तरणिरित्सिषासतीति प्रगाथौ स्तोत्रियानुरूपा उदिन्वस्य रिच्यते भूय इदिमामूष्वित्यपोत्तमामुद्धरेत् सर्वत्र पिबा वर्धस्व तव द्या सुतास इति याज्या
॥२॥सप्तदशः खण्डः
अथ तृतीयसवनमुत्तमस्वरेण
॥१॥आदित्यग्रहेण चरन्ति
॥२॥आदित्यानामवसा नूतनेन होता यक्षदादित्यान् प्रियान् प्रियधाम्न आदित्यासो अदितिर्मादयन्तामिति । नैतं ग्रहमीक्षेत हूयमानं
॥३॥स्तुत आर्भवे पवमाने विहृत्याङ्गारान्मनोतादि पश्विडान्तं पशुकर्म कृत्वा पुरोडाशाद्युक्तमानाराशंससादनात्
॥४॥सन्नेषु मृदिष्ठात् पुरोडाशस्य तिस्रस्तिस्रः पिण्ड्यो दक्षिणतः प्रतिस्वञ्चमसेभ्यः स्वेभ्यः पितृभ्य उपास्येयुरत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति
॥५॥सव्यावृत आग्नीध्रीयं प्राप्य हविरुच्छिष्टं सर्वे प्राश्नीयुः
॥६॥अष्टादशः खण्डः
सावित्रेण ग्रहेण चरन्ति अभूद्देवः सविता वन्द्यो नु नो होता यक्षद्देवं सवितारं दमूना देवः सविता वरेण्यो दधद्रत्नादक्ष पितृभ्य आयुनि । पिबात् सोमममदन्नेनमिष्टयः परिज्माचिद्रमते अस्य धर्मणीति वषट्कृते होता वैश्वदेवशस्त्रं शंसेत्
॥२॥सर्वा दिशो ध्यायेच्छंसिष्यन् । यस्यां द्वेष्यो न तां
॥३॥अध्वर्यो शो शॐ३सावोमिति तृतीयसवने शस्त्रादिष्वाहावः
॥४॥तत् सवितुर्वृणीमहेऽघानो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरावभूद्देव एकया च दशभिश्च स्वभूते द्वाभ्यामिष्टये विंशत्या च । तिसृभिश्च वहसे त्रिंशता च नियुद्भिर्वायविह ता विमुञ्च । प्र द्यावेति दैर्घतमसं सुरूपकृत्नुमूतये तक्षन्रथमयं वेनश्चोदयत् पृश्निगर्भा येभ्यो माता मधुमत् पिन्वते पय एवापित्रे विश्वदेवाय वृष्ण आ नो भद्राः क्रतवो यन्तु विश्वत इति नव वैश्वदेवं
॥५॥वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनिविदो दध्यात्
॥६॥चतस्रो वैश्वदेवे
॥७॥उत्तरास्तिस्र उत्तरे
॥८॥सूक्तानां तद्धि दैवतं
॥९॥दैवतेन सूक्तान्तः
॥१०॥धाय्याश्चात्रैकपातिनीः
॥११॥अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात् सर्वत्र वैश्वदेवे द्विः पच्छोऽर्धर्चशः सकृद्भूमिमुपस्पृशन्
॥१२॥उक्थं वाचीन्द्राय देवेभ्य आ श्रुत्यै त्वेति शस्त्वा जपेत् । विश्वेदेवाः शृणुतेमं हवं म इति याज्या
॥१३॥एकोनविंशः खण्डः
त्वं सोम पितृभिः संविदान इति सौम्यस्य याज्या
॥१॥तं घृतयाज्याभ्यामुपांशूभयतः परियजन्ति
॥२॥घृताहवनो घृतपृष्ठो अग्निर्घृते श्रितो घृतग्वस्य धाम । घृतप्रुषस्त्वा हरितो वहन्तु घृतं पिबन् यजसि देव देवानिति पुरस्तात् । उरु विष्णो विक्रमस्वोरुक्षयाय नस्कृधि । घृतं घृतयोने पिब प्र प्र यज्ञपतिं तिरेत्युपरिष्टात् । अन्यतरतश्चेदग्नाविष्णू महि धाम प्रियं वामित्युपांश्वेव
॥३॥आहृतं सौम्यं पूर्वमुद्गातृभ्यो गृहीत्वाऽवेक्षेत । यत् ते चक्षुर्दिवि यत् सुपर्णे येनैकराज्यमजयोहिना । दीर्घं यच्चक्षुरदितेरनन्तं सोमो नृचक्षा मयि तद्दधात्विति
॥४॥अपश्यन् हृदिस्पृक् क्रतुस्पृग्वर्चोदा वर्चो अस्मासु धेहि । यन्मे मनो यमं गतं यद्वा मे अपरागतं । राज्ञा सोमेन तद्वयमस्मासु धारयामसि । भद्रं कर्णेभिः शृणुयाम देवाँ इति च
॥५॥अङ्गुष्ठोपकनिष्ठिकाभ्यामाज्येनाक्षिणी आज्य छन्दोगेभ्यः प्रयच्छेत्
॥६॥विहृतेषु शालाकेष्वाग्नीध्रः पात्नीवतस्य यजत्यैभिरग्ने सरथं याह्यर्वाङित्युपांश्वेव
॥७॥नेष्टारं विसंस्थितसञ्चरेणानुप्रपद्य तस्योपस्थ उपविश्य भक्षयेत्
॥८॥विंशः खण्डः
अथ यथेतं
॥१॥स्वभ्यग्रमाग्निमारुतं
॥२॥तस्याद्यां पच्छ ऋगावानं पच्छःशस्या चेत्
॥३॥अर्धर्चश इतरां
॥४॥सन्तानमुत्तमेन वचनेन
॥५॥वैश्वानराय पृथुपाजसे शन्नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीन्तव्यसीमापोहिष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रति प्रतीकमाह्वानमुत नोऽहिबुध्न्यः शृणोतु देवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्या चित्रायुरिमं यमप्रस्तरमाहिसीद मातलीकव्यैर्यमो अङ्गिरोभिरुदीरतामवर उत्परास आहं पितॄन्त्सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानं मदामो दैव मोदामो दैवोमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ । विष्णोर्नुकं वीर्याणि प्रवोचं तन्तु तन्वन् रजसोर्भानुमन् विह्येवान इन्द्रो मघवा विरप्शीति परिदध्यात् । भूमिमुपस्पृशन्
॥६॥उत्तमेन वचनेन ध्रुवावनयनं कांक्षेत्
॥७॥उक्थं वाचीन्द्राय देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत् । अग्ने मरुद्भिः शुभयद्भिरृक्वभिरिति याज्या । इत्यन्तोऽग्निष्टोमोऽग्निष्टोमः
॥८॥