प्रथमः खण्डः
Devanāgarīअथैतेषामह्नां योगविशेषान् वक्ष्यामो यथायुक्तानि यस्मै यस्मै कामाय भवन्ति
॥१॥ IAST
Devanāgarīअयमेवैकाहोऽतिरात्र आदौ प्रायणीयः
॥२॥ IAST
Devanāgarīएषोऽन्त्य उदयनीयः
॥३॥ IAST
Devanāgarīअव्यक्तो मध्ये
॥४॥ IAST
Devanāgarīअहीनेषु वैश्वानर एष एव
॥५॥ IAST
Devanāgarīतावन्तरेण व्यूल्हो दशरात्रः
॥६॥ IAST
Devanāgarīएषा प्रकृतिः सत्राणां
॥७॥ IAST
Devanāgarīतत्रावापस्थानं
॥८॥ IAST
Devanāgarīऊर्ध्वं दशरात्रादेकाहार्थे महाव्रतं
॥९॥ IAST
Devanāgarīप्राग्दशरात्रादितरेषामह्नां
॥१०॥ IAST
Devanāgarīद्व्यहार्थे गोआयुषी । त्र्यहार्थे त्रिकद्रुकाः । अभिप्लवत्र्यहं पूर्वं त्रिकद्रुका इत्याचक्षते । चतुरहार्थे त्रिकद्रुका महाव्रतञ्च
॥११॥ IAST
Devanāgarīपञ्चाहार्थेऽभिप्लवपञ्चाहः । उत्तमस्य तु षष्ठात् तृतीयसवनं
॥१२॥ IAST
Devanāgarīषडहार्थेऽभिप्लवः षडहः । एवंन्याया आवापाः
॥१३॥ IAST
Devanāgarīषडहान्ताः पुनः पुनः
॥१४॥ IAST
Devanāgarīपूर्णः पूर्णश्च षडहस्तन्त्रतामेव गच्छति
॥१५॥ IAST
द्वितीयः खण्डः
Devanāgarīद्वौ त्रयोदशरात्रौ
॥१॥ IAST
Devanāgarīऋद्धिकामानां प्रथमं । पृष्ठ्यं छन्दोमाश्चान्तरा सर्वस्तोमोऽतिरात्रः
॥२॥ IAST
Devanāgarīन्यायकॢप्तं व्रतवन्तं प्रतिष्ठाकामा द्वितीयं
॥३॥ IAST
Devanāgarīद्वौ पृष्ठ्यावावृत्त उत्तरः
॥५॥ IAST
Devanāgarīतल्पे वोदके वा विवाहे वा मीमांस्यमाना द्वितीयं
॥६॥ IAST
Devanāgarīपृष्ठ्यमभितस्त्रिकद्रुकाः
॥७॥ IAST
Devanāgarīन्यायकॢप्तं द्व्यहोपजनं प्रतिष्ठाकामास्तृतीयं
॥८॥ IAST
Devanāgarīचत्वारि पञ्चदश रात्राणि देवत्वमीप्सतां प्रथमं । प्रथमस्य चतुर्दशरात्रस्य पृष्ठ्यमध्ये महाव्रतं
॥९॥ IAST
Devanāgarīब्रह्मवर्चसकामा द्वितीयं । द्वितीयस्य चतुर्दशरात्रस्याग्निष्टुत्प्रायणीयादनन्तरः
॥१०॥ IAST
Devanāgarīसात्राहैनिका उभौ लोकावाप्स्यतां तृतीयं
॥११॥ IAST
Devanāgarīतृतीयस्य चतुर्दशरात्रस्याग्निष्टुत् प्रायणीयस्थाने न्यायकॢप्तस्त्र्यहोपजनः शेषः
॥१२॥ IAST
Devanāgarīन्यायकॢप्तं त्र्यहोपजनं प्रतिष्ठाकामाश्चतुर्थं
॥१३॥ IAST
Devanāgarīषोडशरात्रं चतूरात्रोपजनमन्नाद्यकामाः
॥१४॥ IAST
Devanāgarīसप्तदशरात्रं पञ्चरात्रोपजनं पशुकामाः
॥१५॥ IAST
Devanāgarīअष्टादशरात्रमायुष्कामाः
॥१६॥ IAST
Devanāgarīषडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः
॥१७॥ IAST
Devanāgarīएकान्नविंशतिरात्रमेकरात्रोपजनं ग्राम्यारण्यान् पशूनवरुरुत्स्यमानाः
॥१८॥ IAST
Devanāgarīविंशतिरात्रं प्रतिष्ठाकामाः । अभिजिद्विश्वजितावभिप्लवादूर्ध्वं
॥१९॥ IAST
तृतीयः खण्डः
Devanāgarīद्वावेकविंशतिरात्रौ प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानां प्रथमावन्तराऽतिरात्रः
॥१॥ IAST
Devanāgarīब्रह्मवर्चसकामा द्वितीयं । नवरात्रस्याभिजिद्विश्वजितोः स्थाने द्वौ पृष्ठ्यावावृत्त उत्तरः
॥२॥ IAST
Devanāgarīसंवत्सरसम्मिता इत्याचक्षते
॥३॥ IAST
Devanāgarīद्वाविंशतिरात्रं चतूरात्रोपजनमन्नाद्यकामाः
॥४॥ IAST
Devanāgarīत्रयोविंशतिरात्रं पञ्चरात्रोपजनं पशुकामाः
॥५॥ IAST
Devanāgarīद्वौ चतुर्विंशतिरात्रौ प्रजातिकामाः पशुकामा वा प्रथमं
॥६॥ IAST
Devanāgarīषडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः । स्वर्गे लोके सत्स्यन्तो ब्रध्नस्य विष्टपं रोक्ष्यन्तो द्वितीयं
॥७॥ IAST
Devanāgarīपृष्ठ्यस्तोमस्त्रयस्त्रिंशो निरुक्तो विशालः पृष्ट्यस्तोमा एकविंशत्रिणवत्रयस्त्रिंशाः प्रतिलोमाः पूर्वस्मिंस्त्र्यहेऽनुलोमा उत्तरस्मिन् सविशालोऽपि वोत्तर एव त्र्यहः प्रतिलोमोऽनुलोमश्चानिरुक्तमहरावृत्तः पृष्ठ्यस्तोमः
॥८॥ IAST
Devanāgarīत्रिवृदनिरुक्तः
॥९॥ IAST
Devanāgarīज्योतिरुभयसामा
॥१०॥ IAST
Devanāgarīसंसदामयनमित्येतदाचक्षते । पञ्चविंशतिरात्रमेकरात्रोपजनमन्नाद्यकामाः । षड्विंशतिरात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः । सप्तविंशतिरात्रं त्रिरात्रोपजनमृद्धिकामाः । अष्टाविंशतिरात्रं चतूरात्रोपजनं ब्रह्मवर्चसकामाः । एकान्नत्रिशद्रात्रं पञ्चरात्रोपजनं परमां विजितिं विजिगीषमाणाः । त्रिंशद्रात्रमन्नाद्यकामाः । षडहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः । एकत्रिंशद्रात्रमेकरात्रोपजनमन्नाद्यकामाः । द्वात्रिंशद्रात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः
॥११॥ IAST
चतुर्थः खण्डः
Devanāgarīत्रीणि त्रयस्त्रिंशद्रात्राणि प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानामुपरिष्टादुपरिष्टादतिरात्रः
॥१॥ IAST
Devanāgarīब्रह्मवर्चसकामा द्वितीयं । चतुर्णां पञ्चरात्राणामावृत्त उत्तमः उत्तमौ चान्तरा सर्वस्तोमोऽतिरात्रः
॥२॥ IAST
Devanāgarīउभौ लोकावाप्स्यतां तृतीयं षण्णां पञ्चरात्राणां मध्ये विश्वजिदतिरात्रः
॥३॥ IAST
Devanāgarīआवृत्तास्तूत्तरे त्रयः
॥४॥ IAST
Devanāgarīचतुस्त्रिंशद्रात्रं चतूरात्रोपजनमन्नाद्यकामाः
॥५॥ IAST
Devanāgarīपशुकामानामुत्तराणि चत्वारि । पञ्चत्रिंशद्रात्रः पञ्चरात्रोपजनः
॥६॥ IAST
Devanāgarīषट्त्रिंशद्रात्रे षडह उपजायते । सतन्त्रस्योपजनं वक्ष्यामः । सप्तत्रिंशद्रात्र एकरात्रोपजनः
॥७॥ IAST
Devanāgarīअष्टात्रिंशद्रात्रो द्विरात्रोपजनः । एकान्नचत्वारिंशद्रात्रं त्रिरात्रोपजनमनन्तां श्रियमिच्छन्तः । चत्वारिंशद्रात्रं चतूरात्रोपजनं परमायां विराजि प्रतितिष्ठन्तः । एकचत्वारिंशद्रात्रप्रभृतीन्युत्तराणि न्यायेनाष्टाचत्वारिंशद्रात्रात् । पञ्चाशद्रात्रप्रभृतीनि चाषष्टिरात्रात् । द्विषष्टिरात्रप्रभृतीनि चैकोनशतरात्रात्
॥८॥ IAST
Devanāgarīतत्रैकरात्रचतूरात्रोपजनानि व्रतवन्ति
॥९॥ IAST
पञ्चमः खण्डः
Devanāgarīसप्तैकान्नपञ्चाशद्रात्राणि विपाप्मना वत्स्यन्तः प्रथमं
॥१॥ IAST
Devanāgarīअतिरात्रस्त्रीणि त्रिवृन्त्यहान्यतिरात्रो दशपञ्चदशान्यतिरात्रो द्वादशसप्तदशान्यतिरात्रः पृष्ठ्योऽतिरात्रो द्वादशैकविंशान्यतिरात्रः
॥२॥ IAST
Devanāgarīत्रिवृतां प्रथमोऽग्निष्टोमः षोडश्युत्तमः पञ्चदशानां उक्थ्या इतरे विधृतय इत्याचक्षते
॥३॥ IAST
Devanāgarīयमातिरात्रं यमां द्विगुणामिव श्रियमिच्छन्तः
॥४॥ IAST
Devanāgarīद्वावभिप्लवौ गोआयुषी अतिरात्रौ द्वावभिप्लवावभिजिद्विश्वजितावतिरात्रावेकोऽभिप्लवः । सर्वस्तोमनवसप्तदशावतिरात्रौ महाव्रतं
॥५॥ IAST
Devanāgarīस्वानां श्रैष्ठ्यकामास्तृतीयं । चतुर्णां पृष्ठ्याह्नामेकैकं नवकृत्वः
॥६॥ IAST
Devanāgarīनववर्गाणां प्रथमषष्ठसप्तमोत्तमान्यहान्यग्निष्टोमाः
॥७॥ IAST
Devanāgarīउक्थ्या इतरे पञ्च महाव्रतं
॥८॥ IAST
Devanāgarīसवितुःककुभ इत्याचक्षते
॥९॥ IAST
षष्ठः खण्डः
Devanāgarīत्रयाणामुत्तरेषां न्यायकॢप्ता अभिप्लवाः
॥१॥ IAST
Devanāgarīप्रथमस्य तूर्ध्वं चतुर्थात् सर्वस्तोमोऽतिरात्रः
॥२॥ IAST
Devanāgarīउपसत्सु गार्हपत्ये गुग्गुलुसुगन्धितेजनपैतुदारुभिः पृथक्सर्पींषि विपच्यानुसवनं सन्नेषु नाराशंसेष्वाञ्जीरन्नभ्यञ्जीरंश्च
॥३॥ IAST
Devanāgarīये वर्चसा न भायुर्ये वात्मानं नैव जानीरंस्त एता उपेयुः
॥४॥ IAST
Devanāgarīआञ्जनाभ्यञ्जनीया इत्याचक्षते
॥५॥ IAST
Devanāgarīएता एव प्रतिष्ठाकामानामाञ्जनाभ्यञ्जनवर्जं
॥६॥ IAST
Devanāgarīएतासामेव सर्वस्तोमस्थाने महाव्रतं
॥७॥ IAST
Devanāgarīऐन्द्रमत्यन्याः प्रजा बुभूषन्तः
॥८॥ IAST
Devanāgarīएतासामेव सर्वस्तोममुद्धृत्य यथास्थानं महाव्रतं
॥९॥ IAST
Devanāgarīसंवत्सरकामानाप्स्यन्त उत्तमं
॥१०॥ IAST
Devanāgarīअतिरात्रश्चतुर्विंशन्त्रयोऽभिप्लवा नवरात्रोऽभिप्लवौ गोआयुषी दशरात्रो व्रतमतिरात्रः
॥११॥ IAST
Devanāgarīसंवत्सरसम्मिता इत्याचक्षते
॥१२॥ IAST
Devanāgarīएकषष्टिरात्रं प्रतिष्ठाकामाः । एतासामेव पृष्ठ्यावभितो नवरात्रं
॥१३॥ IAST
Devanāgarīतयोरावृत्त उत्तरः
॥१४॥ IAST
Devanāgarīशतरात्रमायुष्कामाः । चतुर्द्दशाभिप्लवाश्चतुरहोपजनाः
॥१५॥ IAST
Devanāgarīइति रात्रिसत्राणि
॥१६॥ IAST
सप्तमः खण्डः
Devanāgarīअथ गवामयनं सर्वकामाः
॥१॥ IAST
Devanāgarīप्रायणीयचतुर्विंशे उपेत्य चतुरभिप्लवान् पृष्ठ्यपञ्चमान् पञ्च मासानुपयन्ति
॥२॥ IAST
Devanāgarīअथ षष्ठं सम्भरन्ति
॥३॥ IAST
Devanāgarīत्रीनभिप्लवान् पृष्ठ्यमभिजितं स्वरसाम्न इति
॥४॥ IAST
Devanāgarīआद्याभ्यां पूर्यतेऽहोभ्यां
॥५॥ IAST
Devanāgarīइति नु पूर्वं पक्षः
॥६॥ IAST
Devanāgarīअथ विषुवानेकविंशः
॥७॥ IAST
Devanāgarīन पूर्वस्य पक्षसो नोत्तरस्य
॥८॥ IAST
Devanāgarīआवृत्ताः स्वरसामानः षडहाश्चोत्तरस्य पक्षसः
॥९॥ IAST
Devanāgarīस्वरसाम्नो विश्वजितं पृष्ठं त्रीनभिप्लवानिति सप्तमन्द्विरात्रोनं कृत्वाऽथ पृष्ठ्यमुखांश्चतुरभिप्लवांश्चतुरो मासानुपयन्ति
॥१०॥ IAST
Devanāgarīअथोत्तमं सम्भरन्ति । त्रीनभिप्लवान् गोआयुषी दशरात्रं । व्रतोदयनीयाभ्यां सप्तमः पूर्यते
॥११॥ IAST
Devanāgarīइति न्वेकसम्भार्यमुत्तरं पक्षः
॥१२॥ IAST
Devanāgarīअथ द्विसम्भार्यं
॥१३॥ IAST
Devanāgarīव्रतोदयनीये एवोत्तमस्य । गोआयुषी सप्तमस्य
॥१४॥ IAST
Devanāgarīगोआयुषी वा विहरेयुः
॥१५॥ IAST
Devanāgarīगां विश्वजितोऽनन्तरं
॥१६॥ IAST
Devanāgarīआयुषं पूर्वं दशरात्रात्
॥१७॥ IAST
Devanāgarīअपि वोर्ध्वं विश्वजितः सप्तमं सवनमासं कृत्वोद्धरेयुर्गोआयुषी दशरात्रञ्च
॥१८॥ IAST
Devanāgarīअपि वोत्तरस्य पक्षसोऽहान्येवावर्त्तेरन्ननुलोमाः षडहाः स्युः षडहा वाऽऽवर्त्तरन्ननुलोमान्यहानि
॥१९॥ IAST
Devanāgarīइति गवामयनं
॥२०॥ IAST
Devanāgarīसर्वे वा षडहा अभिप्लवाः स्युरभिप्लवाः स्युः
॥२१॥ IAST