| खण्डः | सूत्राणि |
|---|---|
| प्रथमः खण्डः | 15 |
| द्वितीयः खण्डः | 18 |
| तृतीयः खण्डः | 11 |
| चतुर्थः खण्डः | 9 |
| पञ्चमः खण्डः | 9 |
| षष्ठः खण्डः | 16 |
| सप्तमः खण्डः | 21 |
प्रथमः खण्डः
अथैतेषामह्नां योगविशेषान् वक्ष्यामो यथायुक्तानि यस्मै यस्मै कामाय भवन्ति
॥१॥अयमेवैकाहोऽतिरात्र आदौ प्रायणीयः
॥२॥एषोऽन्त्य उदयनीयः
॥३॥अव्यक्तो मध्ये
॥४॥अहीनेषु वैश्वानर एष एव
॥५॥तावन्तरेण व्यूल्हो दशरात्रः
॥६॥एषा प्रकृतिः सत्राणां
॥७॥तत्रावापस्थानं
॥८॥ऊर्ध्वं दशरात्रादेकाहार्थे महाव्रतं
॥९॥प्राग्दशरात्रादितरेषामह्नां
॥१०॥द्व्यहार्थे गोआयुषी । त्र्यहार्थे त्रिकद्रुकाः । अभिप्लवत्र्यहं पूर्वं त्रिकद्रुका इत्याचक्षते । चतुरहार्थे त्रिकद्रुका महाव्रतञ्च
॥११॥पञ्चाहार्थेऽभिप्लवपञ्चाहः । उत्तमस्य तु षष्ठात् तृतीयसवनं
॥१२॥षडहार्थेऽभिप्लवः षडहः । एवंन्याया आवापाः
॥१३॥षडहान्ताः पुनः पुनः
॥१४॥पूर्णः पूर्णश्च षडहस्तन्त्रतामेव गच्छति
॥१५॥द्वितीयः खण्डः
द्वौ त्रयोदशरात्रौ
॥१॥ऋद्धिकामानां प्रथमं । पृष्ठ्यं छन्दोमाश्चान्तरा सर्वस्तोमोऽतिरात्रः
॥२॥न्यायकॢप्तं व्रतवन्तं प्रतिष्ठाकामा द्वितीयं
॥३॥द्वौ पृष्ठ्यावावृत्त उत्तरः
॥५॥तल्पे वोदके वा विवाहे वा मीमांस्यमाना द्वितीयं
॥६॥पृष्ठ्यमभितस्त्रिकद्रुकाः
॥७॥न्यायकॢप्तं द्व्यहोपजनं प्रतिष्ठाकामास्तृतीयं
॥८॥चत्वारि पञ्चदश रात्राणि देवत्वमीप्सतां प्रथमं । प्रथमस्य चतुर्दशरात्रस्य पृष्ठ्यमध्ये महाव्रतं
॥९॥ब्रह्मवर्चसकामा द्वितीयं । द्वितीयस्य चतुर्दशरात्रस्याग्निष्टुत्प्रायणीयादनन्तरः
॥१०॥सात्राहैनिका उभौ लोकावाप्स्यतां तृतीयं
॥११॥तृतीयस्य चतुर्दशरात्रस्याग्निष्टुत् प्रायणीयस्थाने न्यायकॢप्तस्त्र्यहोपजनः शेषः
॥१२॥न्यायकॢप्तं त्र्यहोपजनं प्रतिष्ठाकामाश्चतुर्थं
॥१३॥षोडशरात्रं चतूरात्रोपजनमन्नाद्यकामाः
॥१४॥सप्तदशरात्रं पञ्चरात्रोपजनं पशुकामाः
॥१५॥अष्टादशरात्रमायुष्कामाः
॥१६॥षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः
॥१७॥एकान्नविंशतिरात्रमेकरात्रोपजनं ग्राम्यारण्यान् पशूनवरुरुत्स्यमानाः
॥१८॥विंशतिरात्रं प्रतिष्ठाकामाः । अभिजिद्विश्वजितावभिप्लवादूर्ध्वं
॥१९॥तृतीयः खण्डः
द्वावेकविंशतिरात्रौ प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानां प्रथमावन्तराऽतिरात्रः
॥१॥ब्रह्मवर्चसकामा द्वितीयं । नवरात्रस्याभिजिद्विश्वजितोः स्थाने द्वौ पृष्ठ्यावावृत्त उत्तरः
॥२॥संवत्सरसम्मिता इत्याचक्षते
॥३॥द्वाविंशतिरात्रं चतूरात्रोपजनमन्नाद्यकामाः
॥४॥त्रयोविंशतिरात्रं पञ्चरात्रोपजनं पशुकामाः
॥५॥द्वौ चतुर्विंशतिरात्रौ प्रजातिकामाः पशुकामा वा प्रथमं
॥६॥षडहश्चात्र पूर्यते । सतन्त्रस्योपजनं वक्ष्यामः । स्वर्गे लोके सत्स्यन्तो ब्रध्नस्य विष्टपं रोक्ष्यन्तो द्वितीयं
॥७॥पृष्ठ्यस्तोमस्त्रयस्त्रिंशो निरुक्तो विशालः पृष्ट्यस्तोमा एकविंशत्रिणवत्रयस्त्रिंशाः प्रतिलोमाः पूर्वस्मिंस्त्र्यहेऽनुलोमा उत्तरस्मिन् सविशालोऽपि वोत्तर एव त्र्यहः प्रतिलोमोऽनुलोमश्चानिरुक्तमहरावृत्तः पृष्ठ्यस्तोमः
॥८॥त्रिवृदनिरुक्तः
॥९॥ज्योतिरुभयसामा
॥१०॥संसदामयनमित्येतदाचक्षते । पञ्चविंशतिरात्रमेकरात्रोपजनमन्नाद्यकामाः । षड्विंशतिरात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः । सप्तविंशतिरात्रं त्रिरात्रोपजनमृद्धिकामाः । अष्टाविंशतिरात्रं चतूरात्रोपजनं ब्रह्मवर्चसकामाः । एकान्नत्रिशद्रात्रं पञ्चरात्रोपजनं परमां विजितिं विजिगीषमाणाः । त्रिंशद्रात्रमन्नाद्यकामाः । षडहश्चात्र पूर्यते सतन्त्रस्योपजनं वक्ष्यामः । एकत्रिंशद्रात्रमेकरात्रोपजनमन्नाद्यकामाः । द्वात्रिंशद्रात्रं द्विरात्रोपजनं प्रतिष्ठाकामाः
॥११॥चतुर्थः खण्डः
त्रीणि त्रयस्त्रिंशद्रात्राणि प्रतिष्ठाकामानां प्रथमं । त्रयाणामभिप्लवानामुपरिष्टादुपरिष्टादतिरात्रः
॥१॥ब्रह्मवर्चसकामा द्वितीयं । चतुर्णां पञ्चरात्राणामावृत्त उत्तमः उत्तमौ चान्तरा सर्वस्तोमोऽतिरात्रः
॥२॥उभौ लोकावाप्स्यतां तृतीयं षण्णां पञ्चरात्राणां मध्ये विश्वजिदतिरात्रः
॥३॥आवृत्तास्तूत्तरे त्रयः
॥४॥चतुस्त्रिंशद्रात्रं चतूरात्रोपजनमन्नाद्यकामाः
॥५॥पशुकामानामुत्तराणि चत्वारि । पञ्चत्रिंशद्रात्रः पञ्चरात्रोपजनः
॥६॥षट्त्रिंशद्रात्रे षडह उपजायते । सतन्त्रस्योपजनं वक्ष्यामः । सप्तत्रिंशद्रात्र एकरात्रोपजनः
॥७॥अष्टात्रिंशद्रात्रो द्विरात्रोपजनः । एकान्नचत्वारिंशद्रात्रं त्रिरात्रोपजनमनन्तां श्रियमिच्छन्तः । चत्वारिंशद्रात्रं चतूरात्रोपजनं परमायां विराजि प्रतितिष्ठन्तः । एकचत्वारिंशद्रात्रप्रभृतीन्युत्तराणि न्यायेनाष्टाचत्वारिंशद्रात्रात् । पञ्चाशद्रात्रप्रभृतीनि चाषष्टिरात्रात् । द्विषष्टिरात्रप्रभृतीनि चैकोनशतरात्रात्
॥८॥तत्रैकरात्रचतूरात्रोपजनानि व्रतवन्ति
॥९॥पञ्चमः खण्डः
सप्तैकान्नपञ्चाशद्रात्राणि विपाप्मना वत्स्यन्तः प्रथमं
॥१॥अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यतिरात्रो दशपञ्चदशान्यतिरात्रो द्वादशसप्तदशान्यतिरात्रः पृष्ठ्योऽतिरात्रो द्वादशैकविंशान्यतिरात्रः
॥२॥त्रिवृतां प्रथमोऽग्निष्टोमः षोडश्युत्तमः पञ्चदशानां उक्थ्या इतरे विधृतय इत्याचक्षते
॥३॥यमातिरात्रं यमां द्विगुणामिव श्रियमिच्छन्तः
॥४॥द्वावभिप्लवौ गोआयुषी अतिरात्रौ द्वावभिप्लवावभिजिद्विश्वजितावतिरात्रावेकोऽभिप्लवः । सर्वस्तोमनवसप्तदशावतिरात्रौ महाव्रतं
॥५॥स्वानां श्रैष्ठ्यकामास्तृतीयं । चतुर्णां पृष्ठ्याह्नामेकैकं नवकृत्वः
॥६॥नववर्गाणां प्रथमषष्ठसप्तमोत्तमान्यहान्यग्निष्टोमाः
॥७॥उक्थ्या इतरे पञ्च महाव्रतं
॥८॥सवितुःककुभ इत्याचक्षते
॥९॥षष्ठः खण्डः
त्रयाणामुत्तरेषां न्यायकॢप्ता अभिप्लवाः
॥१॥प्रथमस्य तूर्ध्वं चतुर्थात् सर्वस्तोमोऽतिरात्रः
॥२॥उपसत्सु गार्हपत्ये गुग्गुलुसुगन्धितेजनपैतुदारुभिः पृथक्सर्पींषि विपच्यानुसवनं सन्नेषु नाराशंसेष्वाञ्जीरन्नभ्यञ्जीरंश्च
॥३॥ये वर्चसा न भायुर्ये वात्मानं नैव जानीरंस्त एता उपेयुः
॥४॥आञ्जनाभ्यञ्जनीया इत्याचक्षते
॥५॥एता एव प्रतिष्ठाकामानामाञ्जनाभ्यञ्जनवर्जं
॥६॥एतासामेव सर्वस्तोमस्थाने महाव्रतं
॥७॥ऐन्द्रमत्यन्याः प्रजा बुभूषन्तः
॥८॥एतासामेव सर्वस्तोममुद्धृत्य यथास्थानं महाव्रतं
॥९॥संवत्सरकामानाप्स्यन्त उत्तमं
॥१०॥अतिरात्रश्चतुर्विंशन्त्रयोऽभिप्लवा नवरात्रोऽभिप्लवौ गोआयुषी दशरात्रो व्रतमतिरात्रः
॥११॥संवत्सरसम्मिता इत्याचक्षते
॥१२॥एकषष्टिरात्रं प्रतिष्ठाकामाः । एतासामेव पृष्ठ्यावभितो नवरात्रं
॥१३॥तयोरावृत्त उत्तरः
॥१४॥शतरात्रमायुष्कामाः । चतुर्द्दशाभिप्लवाश्चतुरहोपजनाः
॥१५॥इति रात्रिसत्राणि
॥१६॥सप्तमः खण्डः
अथ गवामयनं सर्वकामाः
॥१॥प्रायणीयचतुर्विंशे उपेत्य चतुरभिप्लवान् पृष्ठ्यपञ्चमान् पञ्च मासानुपयन्ति
॥२॥अथ षष्ठं सम्भरन्ति
॥३॥त्रीनभिप्लवान् पृष्ठ्यमभिजितं स्वरसाम्न इति
॥४॥आद्याभ्यां पूर्यतेऽहोभ्यां
॥५॥इति नु पूर्वं पक्षः
॥६॥अथ विषुवानेकविंशः
॥७॥न पूर्वस्य पक्षसो नोत्तरस्य
॥८॥आवृत्ताः स्वरसामानः षडहाश्चोत्तरस्य पक्षसः
॥९॥स्वरसाम्नो विश्वजितं पृष्ठं त्रीनभिप्लवानिति सप्तमन्द्विरात्रोनं कृत्वाऽथ पृष्ठ्यमुखांश्चतुरभिप्लवांश्चतुरो मासानुपयन्ति
॥१०॥अथोत्तमं सम्भरन्ति । त्रीनभिप्लवान् गोआयुषी दशरात्रं । व्रतोदयनीयाभ्यां सप्तमः पूर्यते
॥११॥इति न्वेकसम्भार्यमुत्तरं पक्षः
॥१२॥अथ द्विसम्भार्यं
॥१३॥व्रतोदयनीये एवोत्तमस्य । गोआयुषी सप्तमस्य
॥१४॥गोआयुषी वा विहरेयुः
॥१५॥गां विश्वजितोऽनन्तरं
॥१६॥आयुषं पूर्वं दशरात्रात्
॥१७॥अपि वोर्ध्वं विश्वजितः सप्तमं सवनमासं कृत्वोद्धरेयुर्गोआयुषी दशरात्रञ्च
॥१८॥अपि वोत्तरस्य पक्षसोऽहान्येवावर्त्तेरन्ननुलोमाः षडहाः स्युः षडहा वाऽऽवर्त्तरन्ननुलोमान्यहानि
॥१९॥इति गवामयनं
॥२०॥सर्वे वा षडहा अभिप्लवाः स्युरभिप्लवाः स्युः
॥२१॥