प्रथमः खण्डः
दर्शपूर्णमासाभ्यामिष्ट्वेष्टिपशुचातुर्मास्यैरथ सोमेन
॥१॥ऊर्द्ध्वं दर्शपूर्णमासाभ्यां यथोपपत्त्येके । प्रागपि सोमेनैके
॥२॥तस्यर्त्विजः
॥३॥चत्वारस्त्रिपुरुषाः
॥४॥तस्य तस्योत्तरे त्रयः
॥५॥होता मैत्रावरुणोऽच्छावाको ग्रावस्तुदध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता ब्रह्मा ब्राह्मणाच्छंस्याग्नीध्रः पोतोद्गाता प्रस्तोता प्रतिहर्त्ता सुब्रह्मण्य इति
॥६॥एते हीनैकाहैर्याजयन्ति
॥७॥एत एवाहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशा दीक्षित्वा समोप्याग्नींस्तन्मुखाः सत्राण्यासते
॥८॥तेषां समावापादि यथार्थमभिधानमैष्टिके तन्त्रे
॥९॥दीक्षणाद्यनग्नीनां
॥१०॥अग्निर्मुखमिति च याज्यानुवाक्ययोः
॥११॥दण्डप्रदाने
॥१२॥प्रैषेषु निवित्सु
॥१३॥घृतयाज्यायां
॥१४॥कुह्वाञ्च
॥१५॥अच्छावाकनिगदोपहवप्रत्युपहवे च
॥१६॥आषयाणि गृहपतेः प्रवरित्वात्मादीनां मुख्यानां
॥१७॥एवं द्वितीयतृतीयचतुर्थानां
॥१८॥यावन्तोऽनन्तर्हिताः समानगोत्रास्तावतां सकृत्
॥१९॥आवर्त्तयेद्वा द्रव्यान्वयाः संस्काराः
॥२०॥साग्निचित्येषु क्रुतुषूखासम्भरणीयामिष्टिमेके
॥२१॥अग्निर्ब्रह्मण्वानग्निः क्षत्रवानग्निः क्षत्रभृत्
॥२२॥एतेनाग्ने ब्रह्मणा वावृधस्व ब्रह्म च ते जातवेदो नमश्च पुरूण्यग्ने पुरुधात्वाय सचित्र चित्रञ्चितयन्तमस्मे अग्निरीशे बृहतः क्षत्रियस्यार्चामिते सुमतिङ्घोष्यर्वागिति । इदम्प्रभृतिकर्मणां शनैस्तरामुत्तरोत्तरं
॥२३॥एतत्त्वपि पौर्णमासात्
॥२५॥प्रायणीयावत् सोमप्रवहणं
॥२६॥ऊर्ध्वं प्रथमाया अग्निप्रणयनीयाया औपवसथ्येऽनियमः
॥२७॥मध्यमादि घर्मे
॥२८॥द्वितीयः खण्डः
दीक्षणीयायां धाय्ये विराजौ
॥१॥अग्नाविष्णू
॥२॥अग्निर्मुखं प्रथमो देवतानां सङ्गतानामुत्तमो विष्णुरासीत् । यजमानाय परिगृह्य देवान् दीक्षयेदं हविरागच्छतं नः । अग्निश्च विष्णो तप उत्तमं महो दीक्षापालाय वनतं हि शक्रा । विश्वैर्देवैर्यज्ञियैः संविदानौ दीक्षामस्मै यजमानाय धत्तमिति । साग्निचित्ये त्रीण्यन्यानि
॥३॥वैश्वानर आदित्याः सरस्वत्यदितिर्वा
॥४॥धारयन्त आदित्यासो जगत्स्था इति द्वे एते एव भुवद्वद्भ्यो भवनपतिभ्यो वा
॥५॥नेदमादिषु मार्जनमर्वागुदयनीयायाः
॥६॥इदमादीडायां सूक्तवाके चागूराशिःस्थाने
॥७॥उपहूतोऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेति तस्मिन्नुपहूतः
॥८॥आशास्तेऽयं यजमानोऽस्य यज्ञस्यागुर उदृचमशीयेत्याशास्ते
॥९॥न चात्र नामादेशः
॥१०॥प्रकृत्याऽन्त्य ऊर्ध्वं पश्विडायाः
॥११॥दीक्षितानां सञ्चरो गार्हपत्याहवनीयावन्तराग्नेः प्रणयनात्
॥१२॥दीक्षणादिरात्रिसङ्ख्यानेन दीक्षा अपरिमिताः
॥१३॥एकाहप्रभृत्यासंवत्सरात् । संवत्सरन्त्वेव सव्रते
॥१४॥द्वादशाहतापश्चितेषु यथासुत्योपसदः
॥१५॥कर्माचारस्त्वेकाहानां
॥१६॥एका तिस्रो वा दीक्षास्तिस्र उपसदः सुत्यमहरुत्तमं
॥१९॥दीक्षान्ते राजक्रयः
॥१८॥तृतीयः खण्डः
तदहः प्रायणीयेष्टिः
॥१॥पथ्या स्वस्तिरग्निः सोमः सविताऽदितिः स्वस्ति नः पथ्यासु धन्वस्विति द्वे अग्ने नय सुपथा राये अस्मान् आ देवानामपि पन्थामगन्म त्वं सोम प्रचिकितो मनीषा या ते धामानि दिवि या पृथिव्यामाविश्वदेवं सत्पतिं य इमा विश्वा जातानि सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानां सेदग्निरग्नींरत्यस्त्वन्यानिति द्वे संयाज्ये । शंय्वन्तेयं
॥२॥अनाज्यभागा
॥३॥संस्थितायां
॥४॥चतुर्थः खण्डः
राजानं क्रीणन्ति
॥१॥तम् प्रवक्ष्यत्सु पश्चाद् अनसस् त्रिपद मात्रे अन्तरेण वर्त्मनी अवस्थाय प्रेषितो अग्ने अभिहिंकारात् त्वम् विप्रस् त्वम् कविस् त्वम् विश्वानि धारयन्
॥२॥अप जन्यम् भयम् नुद इत्य् अस्यन्दयन् पार्ण्षीम् प्रपदेन दक्षिणा पासूंस् त्रिर् उदुप्य अनुब्रूयाद् भद्राद् अभिश्रेयः प्रेहि बृहस्पतिः पुरा एता ते अस्तु । अथ ईम् अवस्य वर आ पृथिव्या आ रे शत्रून् कृणुहि सर्व वीर इति तिष्ठन्
॥३॥अनुव्रजन्नुत्तरा अन्तरेणैव वर्त्मनी
॥४॥सोम यास्ते मयोभुव इति तिस्रः सर्वे नन्दन्ति यशसाऽऽगतेनागन्देव क्रतुभिर्वर्धतु क्षयमित्यर्धर्च आरभेत् । अवस्थितेऽनसि दक्षिणात् पक्षादभिक्रम्य राजानमभिमुखोऽवतिष्ठते
॥४॥प्रपाद्यमाने राजन्यग्रेणानोऽनुसंव्रजेत्
॥५॥या ते धामानि हविषा यजन्तीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्याद्राजानमुपस्पृशन्
॥६॥वसनेंऽशुषु वा
॥७॥पञ्चमः खण्डः
अथातिथ्येडान्ता
॥१॥तस्या अग्निमन्थनं
॥२॥धाय्ये अतिथिमन्तौ । समिधाग्निं दुवस्यताप्यायस्व समेतु त इति विष्णुरिदं विष्णुर्विचक्रमे तदस्य प्रियमभिपाथो अश्यां होतारं चित्ररथमध्वरस्य प्र प्रायमग्निर्भरतस्य शृण्व इति संयाज्ये । संस्थितायामाज्यन्तानूनप्त्रं करिष्यन्तोऽभिमृशन्ति । अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपाः । अनभिशस्त्यञ्जसा सत्यमुपगेषां स्विते माधा इति
॥३॥स्पृष्ट्वोदकं राजानमाप्याययन्ति
॥४॥इदमादि मदन्तीरबर्थ उपसत्सु
॥५॥अंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रःप्यायतामा त्वमिन्द्राय प्यायस्वाप्याययास्मान्त्सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामुदृचमशीयेति
॥६॥स्पृष्ट्वोदकं निह्नवन्ते प्रस्तरे पाणीन्निधायोत्तानान् दक्षिणान्त्सव्यान्नीच एष्टा राय एष्टा वामानि प्रेषे भगाय । ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति
॥७॥षष्ठः खण्डः
स्पृष्ट्वोदकं प्रवर्ग्येण चरिष्यत्सूत्तरेण खरं परिव्रज्य पश्चादस्योपविश्य प्रेषितोऽभिष्टुयादृगावानं
॥१॥ऋचमृचमनवानमुक्त्वा प्रणुत्यावस्येत्
॥२॥ब्रह्म जज्ञानम् प्रथमम् प्रस्ताद् विसीमतः सुरुचो वेन आ वः । सबुध्न्या उप मा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः । इयम् पित्रे राष्ट्र्या इत्य् अग्रे प्रथमाय जनुषे भूमनेष्ठाः । तस्मा एतम् सुरुचम् ह्वारम् अहम् घर्मम् श्रीणन्ति प्रथमस्य धासेः । महान् मही अस्तभायद् विजातो द्याम् पिता सद्म पार्थिवम् च रजः । सबुध्नाद् आष्ट जनुषा अभ्युग्नम् बृहस्पतिर् देवता तस्य संराट् । अभि त्यम् देवम् सवितारम् ओण्योः कवि क्रतुम् अर्चामि सत्य सवम् रत्नधाम् अभिप्रियम् मतिम् कविम् । ऊर्ध्वा यस्या मतिर् मा अदिद्युतत् सवीमनि हिरण्य पाणिर् अमिमीत सुक्रतुः कृपा स्वस् तृपा स्वर् इति वा
॥३॥संसीदस्व महान् असि इति संसाद्यमाने । अञ्जन्ति यम् प्रथयन्तो न विप्रा इत्य् अज्यमाने । पतङ्गम् अक्तम् अस्रस्य मायया यो नः स नुत्यो अभिदासद् अग्ने भवा नो अग्ने सुमना उपेताव् इति द्वृचाः । कृणुष्व पाजः प्रसितिम् न पृथ्वीम् इति पञ्च परि त्वा गिर्वणो गिरो अधि द्वयोर् अदधा उक्थम् वचः शुक्रम् ते अन्यद् यजतम् ते अन्यद् अपश्यम् गोपाम् अनिपद्यमानम् स्रक्वे द्रप्सस्य अयम् वेनश् चोदयत् पृश्नि गर्भाः पवित्रम् ते विततम् ब्रह्मणस्पत इति द्वे वियत् पवित्रम् धिषणा अतन्वत घर्मम् शोचन्तम् प्रणवेषु विभ्रतः । समुद्रे अन्तराय वो विचक्षणम् त्रिर् अह्नो नाम सूर्यस्य मन्वत । गणानाम् त्वा प्रथश् च यस्य अपश्यम् त्वा इत्य् एतस्या आद्यया यजमानम् ईक्षते द्वितीयया पत्नीम् तृतीयया आत्मानम् का राधद् होत्रा अश्विना वाम् इति नव । आभात्य् अग्निर् ग्रावाणेव इळे द्यावा पृथिवी इति प्राग् उत्तमाया अरूरुचद् उषसः पृश्निर् अग्रिय इत्य् आवपेत उत्तरेण अर्धर्चेन पत्नीम् ईक्षेत उत्तमया परिहिते समुत्थाप्य एनान् अध्वर्यवो वाचयन्ति इति तु पूर्वम् पटलम्
॥३॥सप्तमः खण्डः
अथोत्तरं
॥१॥उपविष्टेष्वध्वर्युर्घर्मदुघामाह्वयति स सम्प्रैष उत्तरस्य
॥२॥अनभिहिंकृत्य
॥३॥उपह्वय सुदुघां धेनुमेतामिति द्वे अभि त्वा देव सवितः समीं वत्सं न मातृभिः सं वत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीयेदनु वत्सं मिषन्तं नमसेदुपसीदत सञ्जानाना उपसीदन्नभिज्ञवा दशभिर्विवस्वतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना तप्तो वां घर्म आगतं । दुह्यन्ते गावो वृषणेह धेनवो दस्रा मदन्ति कारवः । समिद्धो अग्निर्वृषणा रतिर्दिवस्तप्तो घर्मो दुह्यते वामिषे मधु । वयं हि वां पुरुतमांसो अश्विना हवामहे सधमादेषु कारवः । तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतम्पय उत्तिष्ठ ब्रह्मणस्पत इत्येतामुक्त्वाऽवतिष्ठते दुग्धायामधुक्षत्पिप्युषीमिषमित्याह्रियमाण उपद्रव पयसा गोषमा घर्म सिञ्च फ्य उस्रियायाः । वि नाकमख्यत्सविता वरेण्यो नु द्यावापृथिवी सुप्रणीतिरित्यासिच्यमान आ नूनमश्विनोरृषिरिति गव्य आ सुते सिञ्चत श्रियमित्याज आसिक्तयोः समुत्ये महतीरप इति महावीरमादायोत्तिष्ठत्सूदूष्य देवः सविता हिरण्ययेत्यनूत्तिष्ठेत् प्रैतु ब्रह्मणस्पतिरित्यनुव्रजेद्गन्धर्व इत्यापदमस्य रक्षतीति स्वरमवेक्ष्य तमतिक्रम्य नाके सुपर्णमुप यत्पतन्तमिति समाप्य प्रणवेनोपविशेदनिरस्य तृणं प्रेषितो यजति । तप्तो वां घर्मो नक्षति स्वहोता प्र वामध्वर्युश्चरति प्रयस्वान् । मधोर्दुग्धस्याश्विना तनाया वीतम्पातं पयस उस्रियायाः । उभा पिबतमश्विनेति चोभाभ्यामनवानमग्ने वीहीत्यनुवषट्कारो घर्मस्याग्ने वीहीति वा । ब्रह्मा वषट्कृते जपत्यनुवषट्कृते च विश्वा आशा दक्षिणसाद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मध्वः पिबतमश्विनेत्येवमेवापराह्णिके । यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आगतं । माध्वी धर्त्तारा विदथस्य सत्पती तप्तङ्घर्मं पिबतं सोम्यं मधु । अस्य पिबतमश्विनेति चाप्रेषितो होताऽनुवषट्कृते स्वाहाकृतः शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः । तमीं विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति । समुद्रादूर्मिमुदियर्त्ति वेनो द्रप्सः समुद्रमभि यज्जिगाति सखे सखायमभ्याववृत्स्वोर्ध्व ऊषण ऊतय द्वे तङ्घे मित्था नमस्विन इति प्रागाथीं पूर्वाह्ले काण्वीमपराह्लेऽन्यतरां वात्यन्तं काण्वीन्त्वेवोत्तमे पावक शोचे तव हि क्षयं परीत्युक्त्वा भक्षमाकाङ्क्षेद् वाजिनेन भक्षोपायो हुतं हविर्मधु हविरिन्द्रतमेऽग्नावश्याम ते देव घर्म । मधुमतः पितुमतो वा जवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिँ सीरिति भक्षजपः कर्मिणो घर्मं भक्षयेयुः सर्वे तु दीक्षिताः सर्वेषु दीक्षितेषु गृहपतेस्तृतीयोत्तमौ भक्षौ सम्प्रेषितः श्येनो न योनिं सदनन्धियाकृतमा यस्मिन् सप्त वासवा रोहन्तु पूव्यारुहः । ऋषिर्ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः । सूयवसाद्भगवती हि भूया इति परिदध्यात्
॥४॥उत्तमे प्रागुत्तमाया हविर्हष्मो महि सद्म दैव्यमित्यावपेत
॥५॥अष्टमः खण्डः
अथोपसत्
॥१॥तस्यां पित्र्यया जपाः
॥२॥प्रादेशोपवेशने च
॥३॥प्रकृत्ये होपस्थः
॥४॥उपसद्यायमीड्ढुष इति तिस्र एकैकान्त्रिरनवानन्ताः सामिधेन्यः
॥५॥तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमित्यावाह्योपविशेत्
॥६॥नावाहयेदित्येके । अनावाहनेऽप्येता एव देवताः
॥७॥अग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णुर्विचक्रमे त्रीणि पदा विचक्रम इति स्विष्टकृदादि लुप्यते । प्रयाजा आज्यभागौ च
॥८॥नित्यमाप्यायनं निह्नवश्च
॥९॥एषैवापराह्णे
॥१०॥इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः । विपर्यासो याज्यानुवाक्यानां । पाण्योश्व निह्नव इत्युपसदः
॥११॥सुपूर्वाह्णे स्वपराह्णे च
॥१२॥राजक्रयाद्यहःसंख्यानेनैकाहानान्तिस्रः
॥१३॥षड्वा
॥१६॥अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणां
॥१५॥प्रथमयज्ञेनैके घर्मं
॥१६॥औपवसथ्य उभे पूर्वाह्णे
॥१७॥प्रथमस्यामुपसदि वृत्तायां प्रेषितः पुरीष्यचितयेऽन्वाह होता दीक्षितश्चेत्
॥१८॥यजमानोऽदीक्षिते
॥१९॥पश्चात्पदमात्रेऽवस्थायाभिहिंकृत्य पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवां
॥२०॥अपि वा सुमन्द्रं
॥२१॥व्रजत्स्वनुव्रजेत्
॥२२॥तिष्ठत्सु विसृष्टवाक् प्रणयतेति ब्रूयात्
॥२३॥अथाग्निं सञ्चितमनुगीतमनुशंसेत्
॥२४॥पश्चादग्निपुच्छस्योपविश्याभिहिंकृत्याग्निरस्मि जन्मना जातवेदा इति त्रिर्मध्यमया वाचा
॥२५॥एतस्मिन्नेवासने वैश्वानरीयस्य यजति
॥२६॥त्रयमेतत् साग्निचित्ये
॥२७॥ब्रह्माऽप्रतिरथं जपित्वा दक्षिणतोऽग्नेर्बहिर्वेद्यास्त औदुम्बर्याभिहवनात्
॥२८॥उक्तमग्निप्रणयनं
॥२९॥दीक्षितस्तु वसोर्धारामुपसर्पेत्
॥३०॥नवमः खण्डः
हविर्धाने प्रवर्त्तयन्ति
॥१॥तदुक्तं सोमप्रवहणेन
॥२॥दक्षिणस्य तु हविर्धानस्योत्तरस्य चक्रस्यान्तरा वर्त्म पादयोः
॥३॥युज वां ब्रह्म पूर्व्यं नमोभिः प्रेतां यज्ञस्य शम्भुवा युवां यमे इव यतमाने यदैतमधिद्वयोरदधा उक्थं वच इत्यर्धर्च आरमेदव्यवस्ता चेद्रराटी
॥४॥विश्वा रूपाणि प्रतिमुञ्च ते कविरिति व्यवस्तायां
॥५॥मेथ्योरुपनिहतयोः परि त्वा गिर्वणो गिर इति परिदध्यात्
॥६॥दशमः खण्डः
अग्नीषोमौ प्रणेष्यत्सु तीर्थेन प्रपद्योत्तरेणाग्नीध्रीयायतनं सदश्च पूर्वया द्वारा पत्नीशालां प्रपद्योत्तरेण शालामुखीयमतिव्रज्य पश्चादस्योपविश्य प्रेषितोऽनुब्रूयात् । सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै । अथास्मभ्यं सवितः सर्वताता दिवे दिव आसु वा भूरिपश्व इत्यासीनः
॥१॥अनुव्रजन्नुत्तराः
॥२॥प्रैतु ब्रह्मणस्पतिर्होता देवो अमर्त्यः पुरस्तादुप त्वाग्ने दिवे दिवे दोषावस्तरुपप्रियं पनिप्रतमित्यर्धर्च आरमेत् । आग्नीध्रीये निहितेऽभिहूयमानेऽग्ने जुषस्व प्रतिहर्य तद्वच इति समाप्य प्रणवेनोपरमेत्
॥३॥उत्तरेणाग्नीध्रीयमतिव्रजत्स्वतिव्रज्य सोमो जिगाति गातुविद्देवानां तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत्
॥४॥प्रपद्यमानं राजानमनुप्रपद्येत । अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनिं सदनं धिया कृतमस्तभ्नाद् द्यामसुरो विश्ववेदा इति परिदध्यात् । उत्तरया वा क्षेमाचारे
॥५॥ब्रह्मैवमेव प्रपद्यापरेण वेदिमतिव्रज्य दक्षिणतः शालामुखीयस्योपविशेत्
॥६॥स होतारमनूत्थाय यथेतमग्रतो व्रजेद्यदि राजानं प्रणयेत्
॥७॥उक्तमप्रणयतः
॥८॥प्राप्य हविधाने गृहपतये राजानं प्रदाय हविर्धाने अग्रेणापरेण वाऽतिव्रज्य दक्षिणत आहवनीयस्योपविशेत्
॥९॥अग्निपुछस्य साग्निचित्यायां
॥१०॥एतद्ब्रह्मासनं पशौ
॥११॥प्रातश्चावपाहोमात्
॥१२॥यदि त्वग्रेण प्रत्येयात् प्रपाद्यमाने
॥१३॥एकादशः खण्डः
अथाग्नीषोमीयेण चरन्ति
॥१॥उत्तरवेद्यामादण्डप्रदानात्
॥२॥दण्डं प्रदाय मैत्रावरुणमग्रतः कृत्वोत्तरेण हविर्धाने अतिव्रज्य पूर्वया द्वारा सदः प्रपद्योत्तरेण यथास्वन्धिष्णावतिव्रज्य पश्चात् स्वस्य धिष्णंस्योपविशति होता
॥३॥अवतिष्ठत इतरः
॥४॥यदि देवसूनां हवींष्यन्वायातयेयुरग्निर्गृहपतिः सोमो वनस्पतिः सविता सत्यप्रसवी बृहस्पतिर्वाचस्पतिरिन्द्रोज्येष्ठो मित्रः सत्यो वरुणो धर्मपती रुद्रःपशुमान् पशुपतिर्वा
॥५॥त्वमग्ने बृहद्वयो हव्यवाडग्निरजरः पिता नस्त्वञ्च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनामाविश्वदेवं सत्पतिं न प्रमिये सवितुर्देव्यस्य तद्बृहस्पते प्रथमं वाचो अग्रं हंसैरिव सखिभिर्वावदद्भिः प्रससाहिषे पुरुहूत शत्रून् भुवस्त्वमिन्द्रब्रह्मणा महाननमीवास इडया मदन्तः प्रसमित्र मर्त्तो अस्तु प्रयस्वांस्त्वान्नष्टवान् महिमाय पृछते त्वया बद्धो मुमुक्षते । त्वं विश्वस्माद्भुवनात् पासि धर्मणा सूर्यात् पासि धर्मणा । यत् किञ्चेदं वरुण दैव्ये जन उप ते स्तोमान् पशुपा इवाकरमिति द्वे
॥६॥द्वादशः खण्डः
यद्यु वै सर्वपृष्ठान्यग्निर्गायत्रस्त्रिवृद्राथन्तरो वासन्तिक इन्द्रस्त्रैष्टुभः पञ्चदशो बार्हतो ग्रैष्मो विश्वेदेवा जागताः सप्तदशा वैरूपा वार्षिका मित्रावरुणावानुष्टभावेकविंशौ वैराजौ शारदौ बृहस्पतिः पांक्तस्त्रिणवः शाक्वरो हैमन्तिकः सविताऽतिच्छन्दास्त्रयस्त्रिंशो रैवतः शैशिरोऽदितिर्विष्णुपत्न्यनुमतिः
॥१॥समिद्दिशामाशया नः स्वर्विन्मधुरेतो माधवः पात्वस्मान् । अग्निर्देवो दुष्टरीतुरदाभ्य इदं क्षत्रं रक्षतु पात्वस्मान् । रथन्तरं सामभिः पात्वस्मान् गायत्री छन्दसां विश्वरूपा । त्रिवृन्नो विष्ठया स्तोमो अह्नां समुद्रो वात इदमोजः पिपर्त्तु । उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रेऽहन्योजसीनां । इन्द्राधिपतिः पिपृतादतो नो महि क्षत्रं विश्वतो धारयेदं । बृहत्साम क्षत्रभृद्वृद्धवृष्ण्यं त्रिष्टुभौजः शुभितमुग्रवीरं । इन्द्र स्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष । प्राची दिशां सहयशा यशस्वती विश्वेदेवाः प्रावृषाह्नां स्वर्वती । इदं क्षत्रं दुष्टरमस्त्वोजो नाधुष्यं सहस्यं सहस्वत् । वैरूपे सामन्निह तच्छकेयं जगत्येनं विक्ष्वावेशयानि । विश्वेदेवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातमुग्रं । धर्त्री दिशां क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः । मित्रावरुणा शरदाह्नां चिकित्वमस्मै राष्ट्राय महि शर्म यछतं । वैराजे सामन्नधि मे मनीषानुष्टुभा सम्भूतं वीर्यं सहः । इदं क्षत्रं मित्रवदार्द्रदातुं मित्रावरुणा रक्षतमाधिपत्ये । सम्राड्दिशां सहनाम्नी सहस्वत्त्यृतुर्हेमन्तो विष्ठया नः पिपर्त्तु । अवस्यु वाता बृहती तु शक्वरीमं यज्ञमवतु नो घृताची । स्वर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची । त्वङ्गोपाः पुर एतोत पश्चाद्बृहस्पते याम्यां युङ्धि वाचं । ऊर्ध्वा दिशां रन्तिराशौषधीनां संवत्सरेण सविता नो अह्नां । रेवत्सामातिछन्दा उच्छन्दोऽजातशत्रुः स्योना नो अस्तु । स्तोम त्रयस्त्रिंशे भुवनस्य पत्नि विवस्वद्वाते अभि नो गृणीहि । घृतवती सवितराधिपत्ये पयस्वती रन्तिराशा नो अस्तु । ध्रुवा दिशां विष्णुपत्न्यघोरास्येशाना सहसो याम नोता । बृहस्पतिर्मातरिश्वोत वायुः सन्ध्वाना वाता अभि नो गृणन्तु । विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । व्यचस्वतीषयन्तो सुभूतिः शिवा नो अस्त्वदितेरुपस्थे । अनुनोद्यानुमतिर्यज्ञं देवेषु मन्यतां । अग्निश्च हव्यवाहनो भवतं दाशुषे मयः । अन्विदनुमते त्वं मन्यासै शञ्च नस्कृधि । क्रत्वेदक्षायनो हिनु प्र ण आयूंषि तारिषदिति । वैश्वानरीयं नवमं कायं दशमं
॥२॥को अद्य युक्ते धुरि गा ऋतस्येति द्वे । औपयजैरङ्गारैरनभिपरिहारे प्रयतेरन्
॥३॥आग्नीध्रीयाच्चेदुत्तरेण होतारं
॥४॥शामित्राच्चेद्दक्षिणेन मैत्रावरुणं
॥५॥उपोत्थानमग्रे कृत्वा निष्क्रम्य वेदं गृह्णीयात्
॥६॥नेदमादिषु हृदयशूलमर्वागनूबन्ध्यायाः
॥७॥संस्थिते वसतीवरीः परिहरन्ति दीक्षिता अभिपरिहारयेरन्
॥८॥त्रयोदशः खण्डः
अथैतस्या रात्रेर्विवासकाले प्राग्वयसां प्रवादात् प्रातरनुवाकायामन्त्रितो वाग्यतस्तीर्थेन प्रपद्याग्नीध्रीये जान्वाच्याहुतिं जुहुयात् । आसन्यान्मा मन्त्रात् पाहि कस्याश्चिदभिशस्त्यै स्वाहेति
॥१॥आहवनीये वागग्रेगा अग्र एतु सरस्वत्यै वाचे स्वाहा । वाचं देवीं मनोनेत्रां विराजमुग्रां जैत्रीमुत्तमामेह भक्षां । तामादित्या नावमिवारुहेमानुमतां पथिभिः पारयन्तीं स्वाहेति द्वितीयां
॥२॥आतः समानं ब्रह्मणश्च
॥३॥प्राप्य हविर्धाने रराटीमभिमृशत्यूर्व्यन्तरिक्षं वोहीति
॥४॥द्वार्ये स्थूणे देवी द्वारौ मामासन्ताप्तं लोकं मे लोककृतौ कृणुतमिति
॥५॥प्रपद्यान्तरेण युगधरा उपविश्य प्रेषितः प्रातरनुवाकमनुब्रूयान्मन्द्रेण
॥६॥आपो रेवतीः क्षयथा हि वस्व उप प्रयन्त इति सूक्ते अवा नो अग्न इति षळ् अग्निम् ईळे अग्निम् दूतम् वसिष्व हि इति सूक्तयोर् उत्तमाम् उद्धरेत् । त्वम् अग्ने व्रतपा इत्य् उत्तमाम् उद्धरेत् त्वम् नो अग्ने महोभिर् इति नव इमे विप्रस्य इति सूक्ते युक्ष्वा हि प्रेष्ठम् वस् त्वम् अग्ने बृहद्वय इत्य् अष्टादश । षोम सुत्या दय् प्रातर् अनुवाक । अर्चन्तस् त्वा इति सूक्ते अग्ने पावक दूतम् व इति सूक्ते अग्निर् होता नो अध्वर इति तिस्रो अग्निर् होता अग्न इळा इति चतस्रः । प्र वो वाजा उपसद्याय तम् अग्ने यज्ञानाम् इति तिस्र उत्तमा उद्धरेद् अग्ने हंस्य् अग्निम् ह्न्वन्तु नः प्राग्नये वाचम् इति सूक्त इमाम् मे अग्ने समिधम् इमाम् इति त्रयाणाम् उत्तमाम् उद्धरेद् इति गायत्रम् । त्वम् अग्ने वसूस् त्वम् हि क्षैतवद् अग्नायो होता अजनिष्ट प्र वो देवाय अग्ने कता त इति पञ्च । सखायः सम् वस् त्वाम् अग्ने हविष्मन्त इति सूक्ते बृहद्वय इति दशानाम् चतुर्थ नवमे उद्धरेद् उत्तमाम् उत्तमाम् च आदितस् त्रयाणाम् इत्य् आनुष्टुभम् । अबाध्य् अग्निः समिधा इति चत्वारि प्राग्नये बृहते प्रवेधसे कवये त्वम् नो अग्ने वरुणस्य विद्वान् इत्य् एतत् प्रभृतीनि चत्वार्य् । ऊर्ध्व ऊ षु णः ससस्य यद् वियुत इति पञ्च भद्रम् ते अग्न इति सूक्ते सोमस्य मा तवसम् प्रत्यग्निर् उषस इति त्रीण्य् आ होता इति दशानाम् तृतीया अष्टमे उद्धरेद् । दिवस् परि इति सूक्तयोः पूर्वस्य उत्तमाम् उद्धरेत् त्वम् ह्य् अग्ने प्रथम इति षण्णाम् द्वितीयम् उद्धरेत् पुरो वो मन्द्रम् इति चत्वारि । तम् सुप्रतीकम् इति षड् हुवे वः सुद्योत्नामन् नि होता होतृ षदन इति सूक्ते त्रिर् मूर्धानम् इति त्रीणि वह्निम् यशसम् उपप्रजिन्वन्न् इति त्रीणि । का उ उपेतर् इति सूक्ते हिरण्य केश इति तिस्रो अपश्यम् अस्य महत इति सूक्ते द्वे विरूपे इति सूक्ते अग्ने नय अग्रे बृहन्न् इत्य् अष्टानाम् उत्तमाद् उत्तमास् तिस्र उद्धरेत् । त्वम् अग्ने सुहवो रण्व संदृग् इति पञ्च अग्निम् वो देवम् इति दशानाम् तृतीय चतुर्थे उद्धरद् इति त्रैष्टुभम् । एना वो अग्निम् प्र वो यह्वम् अग्ने विवस्वत् सखायस् त्वा अयम् अग्निर् अग्न आयाह्य् अच्छा नः शीर शोचिषम् इति षळ् । अदर्शि गातु वित्तम इति सप्त इति बार्हतम् अग्ने वाजस्य इति तिस्रः पुरु त्वा त्वाम् अग्न ईळिष्वाहि इत्य् औष्णिहम् । जनस्य गोपास् त्वाम् अग्न ऋतायव इमम् ऊ षु वो अतिथिम् उषर् बुधम् इति नव त्वम् अग्ने द्युभिर् इति सूक्ते त्वम् अग्ने प्रथमो अङ्गिरा नूचित् सहोजा अमृतो नितुन्दत इति पञ्च । वेदिषद इति षण्णाम् तृतीयम् उद्धरेद् इमम् स्तोमम् अर्हते संजागृवद्भिश् चित्र इत् शिशोर् वसुम् न चित्र महसम् इति जागतम् अग्निम् तम् मन्य इति पाङ्क्तम्
॥७॥इत्य् आग्नेयः क्रतुः
॥८॥चतुर्दशः खण्डः
अथोषस्यः
॥१॥प्रतिष्यासूनरीकस्त उष इति तिस्र इति गायत्रमुषो भद्रेभिरित्यानुष्टुभमिदं श्रेष्ठं पृथूरथ इतिसूक्ते प्रत्यर्चिरित्यष्टौ द्यतद्यामानमुषो वाजेनेदमुत्यदुदुश्रिय इतिसूक्ते व्युषा आ वो दिविजा इति षडिति त्रैष्टुभं प्रत्यु अदर्शि सह वामेनेति बार्हतमुषस्तच्चित्रमाभरेति तिस्र औष्णिहमेता उत्या इति चतस्रो जागतं महेनो अद्येति पांक्तमित्युषस्यः क्रतुः
॥२॥पञ्चदशः खण्डः
अथाश्विनः
॥१॥एषो उषाः प्रातर्युजेति चतस्रोऽश्विना यज्वरीरिष आश्विनावश्वावत्यागोमदूषु नासत्येति तृचा दूरादिहेवेति तिस्र उत्तमा उद्धरेद्वाहिष्टो वां हवानामिति चतस्र उदीराथामा मे हवमिति गायत्रं यदद्यस्थ इतिसूक्ते आ नो विश्वाभिस्त्यञ्चिदत्रिमित्यानुष्टभमाभात्यग्निरितिसूक्ते ग्रावाणेव नासत्याभ्यामिति त्रीणि धेनुः प्रत्नस्यक उ श्रवदितिसूक्ते स्तुषे नरेतिसूक्ते युवो रजांसीति पञ्चानां तृतीयमुद्धरेत् प्रतिवां रथमिति सप्तानां द्वितीयमुद्धरेदिति त्रैष्टभमिमा उ वामयं वामोत्यमह्व आरथमिति सप्त द्युम्नी वां यत्स्थ इति बार्हतमश्विनावर्त्तिरस्मदाश्विनावेह गच्छतमिति तृचौ युवोरुषूरथं हुव इति पञ्चदशेत्यौष्णिहमबोध्यग्निर्ज्म एषस्य भानुरावां रथमभूदिदं यो वां परिज्मेति त्रीणि त्रिश्चिन्नो अद्येडे द्यावापृथिवी इति जागतं प्रतिप्रियतममिति पांक्तं । इत्येतेषां छन्दसां पृथक् सूक्तानि प्रातरनुवाकः
॥२॥शतप्रभृत्यपरिमितः
॥३॥नान्यैराग्नेयं गायत्रमत्यावपेद्ब्राह्मणस्य
॥४॥न त्रैष्टुभं राजन्यस्य । न जागतं वैश्यस्य
॥५॥अध्यासवदेकपदद्विपदाः
॥६॥यथास्थानं ध्रुवाणि माङ्गलान्यगन्म महा तारिष्मेडे द्यावापृथिवी इति
॥७॥सञ्जागृवद्भिरिति च यः प्रेष्यत्स्वर्गकामः
॥८॥ईडेद्यावोयमावर्त्तयेदातमसोपघातात्
॥९॥काल उत्तमयोत्सृप्यासनान्मध्यमस्थानेन प्रतिप्रियतममित्युपसन्तनुयात्
॥१०॥पुनरुत्सृप्योत्तमयोत्तमस्थानेन परिदध्यादन्तरेण द्वार्ये स्थूणे अनभ्याहतमाश्रावयन्निवाश्रावयन्निव
॥११॥