| खण्डः | सूत्राणि |
|---|---|
| प्रथमः खण्डः | 22 |
| द्वितीयः खण्डः | 17 |
| तृतीयः खण्डः | 23 |
| चतुर्थः खण्डः | 15 |
| पञ्चमः खण्डः | 23 |
| षष्ठः खण्डः | 7 |
| सप्तमः खण्डः | 12 |
| अष्टमः खण्डः | 4 |
| नवमः खण्डः | 4 |
| दशमः खण्डः | 8 |
| एकादशः खण्डः | 40 |
| द्वादशः खण्डः | 20 |
प्रथमः खण्डः
सत्राणां
॥१॥उक्ता दीक्षोपसदः
॥२॥एतेनाह्ना सुत्यानि
॥३॥प्रातरनुवाकाद्युदवसानीयान्तान्यन्त्यानि
॥४॥पत्नीसंयाजान्तानीतराणि
॥५॥द्रप्सप्राशनख्यविसर्जने त्वन्त्य एव
॥६॥ध्रुवाः शस्त्राणामातानाः
॥७॥सूक्तान्येव सूक्तस्थानेष्वहीनेषु
॥८॥दैवतेन व्यवस्थाः
॥९॥तृचाः प्रउगे
॥१०॥सर्वाहर्गणेषु तायमानरूपाणां प्रथमादह्नः प्रवर्त्तेते अभ्यासातिप्रैषौ
॥११॥अह्न उत्तमे शस्त्रे परिधानीयाया उत्तमे वचन उत्तमं चतुरक्षरं द्विरुक्त्वा प्रणुयात्
॥१२॥द्वितीयादिषु त्यमूषु वाजिनन्देवजूतमिति तार्क्ष्यमग्ने निष्केवल्यसूक्तानां
॥१३॥जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानां
॥१४॥आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव
॥१५॥तानि सर्वाणि सर्वात्रान्यत्राह्न उत्तमात्
॥१६॥वैकल्पिकान्यग्निष्टोमेऽहर्गणमध्यगते
॥१७॥अग्निष्टोमायनेषु वा
॥१८॥अन्यान्यभ्यासातिप्रैषाभ्यामिति कौत्सो विकृतौ तद्गुणभावात्
॥१९॥नित्यानि होतुरिति गौतमः सङ्घातादावनुप्रवृत्तत्वादच्युतशब्दत्वाच्च
॥२०॥होत्रकाणामपि गाणगारिर्नित्यत्वात्सत्रधर्मान्वयस्य
॥२१॥प्रगाथतृचसूक्तागमेष्वैकाहिकं तावदुद्धरेत्
॥२२॥द्वितीयः खण्डः
चतुर्विंशे होताऽजनिष्टेत्याज्यं
॥१॥आ नो मित्रावरुणा मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणा पुरूरुणा चिद्ध्यस्ति प्रति वां सूर उदित इति षडहस्तोत्रिया मैत्रावरुणस्य
॥२॥इन्द्राग्नी आगतं सुतमिन्द्रेअग्ना नमो बृहत्ता हुवे ययोरिदमियं वामस्य मन्मन इन्द्राग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेत्यच्छावाकस्य
॥४॥तेषां यस्मिंत्स्तुवीरन्त्स स्तोत्रियः
॥५॥यस्मिंच्छ्वः सोऽनुरूपः
॥६॥एकस्तोत्रियेष्वहःसु योऽन्योऽनन्तरः सोऽनुरूपो न चेत् सर्वोऽहर्गणः षडहो वा
॥७॥ऐकाहिकस्तथा सति
॥८॥अन्त्ये च
॥९॥ऊर्ध्वमनुरूपेभ्य ऋजुनीनिनो वरुण इन्द्रं वो विश्वतस्परि यत् सोम आसुते नर इत्यारम्भणीयाः शस्त्वा स्वान्त्स्वान् परिशिष्टानावपेरंश्चतुर्विंशमहाव्रताभिजिद्विश्वजिद्विषुवत्सु
॥१०॥सर्वस्तोमसर्वपृष्ठेषु च
॥११॥ऊर्ध्वमावापात् प्रति वां सूर उदिते व्यन्तरिक्षमतिरत्थ्या वाश्वस्य सुन्वत इति तृचाः पर्यासाः
॥१२॥स त्वेव मैत्रावरुणस्य षडहस्तोत्रिय उत्तमः सपर्यासः
॥१३॥तद्दैवतमन्यं पूर्वस्य स्थाने कुर्वीत
॥१४॥अन्यत्रापि सन्निपातेन तृचं सूक्तं वाऽनन्तर्हितमेकासने द्विःशंसेत्
॥१५॥महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन् गायत्रीकारं
॥१६॥सक्षपः परिषस्वज इति मैत्रावरुणो यः ककुभो निधारय इति वा पूर्वीष्ट इन्द्रोपमातय इति ब्राह्मणाच्छंसी ता हि मध्यंभराणामित्यच्छावाकः
॥१७॥तृतीयः खण्डः
मरुत्वतीये प्रैतु ब्रह्मणस्पतिरुत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्या वाऽऽवपते पूर्वौ नित्यात्
॥१॥बृहदिन्द्राय गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात्
॥२॥कया शुभेति च मरुत्वतीये पुरस्तात् सूक्तस्य शंसेत्
॥३॥एकैकं ब्राह्मणस्पत्यानां
॥५॥एवं मरुत्वतीयानां
॥६॥ध्रुव इन्द्र निहवः
॥७॥धाय्याश्च
॥८॥बृहत् पृष्ठं
॥९॥रथन्तरं वा
॥१०॥तयोरक्रियमाणस्य योनिं शंसेत्
॥११॥वैरूपवैराजशाक्वररैवतानाञ्च
॥१२॥पृष्ठ्यस्तोत्रिया योन्यः
॥१३॥अर्धर्चाः
॥१४॥तासां विधानमन्वहं
॥१५॥ताभ्य ऊर्ध्वं सामगाथान्
॥१६॥उक्तो रथन्तरस्य
॥१७॥उभयं शृणवच्च न इति बृहतः
॥१८॥इन्द्र त्रिधातु शरणं त्वमिन्द्रं प्रतूर्त्तिषु मोषु त्वा वाघतश्च नेति सद्विपद उपसमस्येद् द्विपदामिन्द्रमिद्देवतातय इतीतरेषां
॥१९॥पृष्ठ्य एवैकैकमन्वहं
॥२०॥तदिदासेति च पुरस्तात् सूक्तस्य शंसेत्
॥२१॥उक्थपात्रं चमसांश्चान्तरातिग्राह्यान् भक्षयन्ति निष्केवल्ये
॥२२॥नित्यो भक्षजपः
॥२३॥षोडशिपात्रेण भक्षिणः
॥२४॥चतुर्थः खण्डः
होत्रकाणां
॥१॥कया नश् चित्र आभुवत् कया त्वम् न ऊत्या मा चिद् अन्यद् विशंसत यच् चिद् धि त्वा जना इम इति स्तोत्रिय अनुरूपा मैत्रावरुणस्य । तम् वो दस्म मृतीषहम् तत् त्वा यामि सुवीर्यम् अभिप्रवः सुराधसम् प्रसुश्रुतम् सुराधसम् वयम् घ त्वा सुतावन्तः का ईम् वेद सुते सचा विश्वाः पृतना अभिभूतरम् नरम् तम् इन्द्रम् जोहवीमि या इन्द्र भुव आ भर इत्य् एका द्वे च
॥२॥इन्द्रो मदाय वावृधे मदे मदे हि नो ददिः सुरूप कृत्नुम् ऊतये शुष्मिन्तमम् न ऊतये श्रायन्त इव सूर्यम् बण् महान् असि सूर्य उद् उ त्यद् दर्शतम् वपुर् उद् उ त्ये मधुमत्तमास् त्वम् इन्द्र प्रतूर्तिषु त्वम् इन्द्र यशा असि इन्द्र क्रतुम् न आ भर इन्द्र ज्येष्ठम् न आ भर आ त्वा सहस्रमा शतम् मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः
॥३॥तरोभिर्वो विदद्वसुं तरणिरिंत्सिषासति त्वामिदाह्यो नरो वयमेनमिदाह्यो यो राजा चर्षणीनां यः सत्राहा विचर्षणिः स्वादोरित्था विषूवत इत्था हि सोम इन्मद उभे यदिन्द्ररोदसी अव यत्त्वं शतक्रतो नकिष्टं कर्मणा न शन्न त्वा बृहन्तो अद्रय उभयं शृणवच्च न आवृषस्व पुरूवसो कदाचन स्तरीरसि कदाचन प्रयुच्छसि यत इन्द्र भयामहे यथा गौरो अपाकृतं यदिन्द्रप्रागपागुदग् यथा गौरो अपाकृतमित्यच्छावाकस्य
॥४॥स्तोत्रियानुरूपाणां यद्यनुरूपे स्तुवीरन्त्स्तोत्रियोऽनुरूपः
॥५॥ऊर्द्ध्वं स्तोत्रियानुरूपेभ्यः कस्तमिन्द्रत्वा वसुं कन्नव्यो अतसीनां कदून्वस्याकृतमिति कद्वन्तः प्रगाथाः
॥६॥अपप्राच इन्द्र विश्वाँ अमित्रान् ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुन्नो लोकमनुनेषि विद्वानिति कद्वद्भ्य आरम्भणीयाः
॥७॥ऊर्ध्वमारम्भणीयाभ्यः सद्योहजात इत्यहरहः शस्यं मैत्रावरुणोऽस्मा इदु प्रतवसे शासद्वह्निरितीतरावहीनसूक्ते
॥८॥आसत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुण उदु ब्रह्माण्यभितष्टे वेतीतरावहरहःशस्ये
॥९॥नूनं सात इत्यन्तमुत्तमं
॥१०॥अहीनसूक्तानि षडहस्तोत्रियानावपत्सु
॥११॥उदुष्य देवः सविता हिरण्ययेति तिस्रस्ते हि द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवं
॥१२॥पृक्षस्य वृष्णो वृष्णे शर्द्धाय यज्ञेन वर्द्धतेत्याग्निमारुतं
॥१३॥अग्निष्टोम इदमहः
॥१४॥उक्थ्यो वा
॥१५॥पञ्चमः खण्डः
अभिप्लवपृष्ठ्याहानि
॥१॥रथन्तरपृष्ठान्ययुजानि
॥२॥बृहत्पृष्ठानीतराणि
॥३॥तृतीयादिषु पृष्ठ्यस्यान्वहं द्वितीयानि वैरूपवैराजशाक्वररैवतानि
॥४॥तेषां यथास्थाने क्रियायां योनीः शंसेत्
॥५॥सर्वत्र चास्वयोनिभावेऽन्यत्राश्विनात्
॥६॥यज्ञायज्ञीयस्य त्वक्रियमाणस्यापि सानुरूपां योनिं व्याहावं शंसेदूर्ध्वमितरस्यानुरूपात्
॥७॥होत्रकाः परिशिष्टानावापानुद्धृत्य
॥८॥मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणानो मित्रावरुणेति तृचाः प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत् प्र मित्रयोर्वरुणयोरिति षट् काव्येभिरदाभ्येति तिस्रो मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्यो यच्चिद्धि ते विश इति वारुणं
॥९॥एतस्य तृचमावपेत मैत्रावरुणो नित्यादधिकं स्तोमकारणात्
॥१०॥पञ्च सप्तदशे । नवैकविंशे ऽ द्वादश चतुर्विंशे । पञ्चदश त्रिणवे । एकविंशतिं त्रयस्त्रिंशे । द्वात्रिंशतं चतुश्चत्वारिंशे । षट्त्रिंशतमष्टाचत्वारिंशे
॥११॥एकाल्पीयसीर्वा
॥१२॥एकाहेष्वेकभूयसीर्वा
॥१३॥नारम्भणीया न पर्यासा अन्त्या ऐकाहिकास्तृचाः पर्यासस्थानेषु
॥१४॥ब्राह्मणाच्छंसिनः सुरूपकृत्नुमूतय इति षट् सूक्तानि
॥१५॥आवाप उक्तो मैत्रावरुणेन
॥१६॥इहेन्द्राग्नी इन्द्राग्नी आगतं ता हुवे ययोरिदमिति नवेयं वामस्य मन्मन इत्येकादश यज्ञस्य हि स्थ इत्यच्छावाकस्य
॥१७॥आयात्विन्द्रो ऽवस इति मरुत्वतीयमान इन्द्र इति निष्केवल्यं प्रथमस्याभिप्लविकस्य
॥१८॥मध्यन्दिन इत्युक्त एते शस्त्रे प्रतीयात्
॥१९॥अहीनसूक्तस्थान एवा त्वामिन्द्रयन्न इन्द्र कथामहामिन्द्रःपूर्भिद्य एक इद्यस्तिग्मशृङ्ग इमामूष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः
॥२०॥एकैकस्य त्रयस्त्रयः
॥२१॥उक्ता मरुत्वतीयैः
॥२२॥युञ्जते मन इहेहव इति चतस्रो देवान् हुव इति वैश्वदेवं
॥२३॥षष्ठः खण्डः
द्वितीयस्य चतुर्विंशेनाज्यं
॥१॥वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आगहीत्येको भा देवादि विस्पृशेति द्वे शुक्रस्याद्यगवाशिर इत्येकाऽयं वां मित्रावरुणेति पञ्च तृचाः
॥२॥गार्त्समदं प्रउगमित्येतदाचक्षते
॥३॥विश्वानरस्य वस्पतिमिन्द्रइत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ इन्द्र सोमं यात ऊतिरवमेति मध्यन्दिनः
॥४॥भारद्वाजो होता चेत् प्रकृत्या
॥५॥चातुर्विंशिकं तृतीयसवनं विश्वो देवस्य नेतुरित्येका तत् सवितुर्वरेण्यमिति द्वे आविश्वदेवं सप्ततिमिति तु वैश्वदेवस्य प्रतिपदनुचरौ
॥६॥आज्यप्रउगे प्रतिदनचराश्चोभयोर्युग्मेष्वेवमभिप्लवे
॥७॥सप्तमः खण्डः
तृतीयस्य त्र्यर्यमा यो जात एवेति मध्यन्दिनः
॥१॥तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रोऽनश्वो जातः परावतो य इति वैश्वदेवं वैश्वानराय धिषणां धारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतं चतुर्थस्योग्रो जज्ञ इति निष्केवल्यं
॥२॥ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवं
॥३॥वैश्वानरं मनसेति तिस्रः प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतं
॥४॥पञ्चमस्य कया शुभा यस्तिग्मशृङ्ग इति मध्यन्दिनः
॥५॥कयाशुभीयस्य तु नवम्युत्तमाऽन्यत्रापि यत्र निविद्धानं स्यात्
॥६॥घृतवती भुवनानामभिश्रियेन्द्रऋभुभिर्वाजवद्भिरिति तृचौ कदु प्रियायेति वैश्वदेवं
॥७॥पृक्षस्य वृष्णो वृष्णे शर्द्धाय नूचित् सहोजा इत्याग्निमारुतं षष्ठस्य सावित्रार्भवे तृतीयेन वैश्वानरीयञ्च कतरा पूर्वोषासानन्तेति वैश्वदेवं प्रयज्यव इमं स्तोममित्याग्निमारुतं
॥८॥इत्यभिप्लवः षडहः
॥९॥तस्याग्निष्टोमावभितः । उक्थ्या मध्ये
॥१०॥उक्थ्येषु स्तोत्रियानुरूपाः
॥११॥मैत्रावरुणस्य
॥१२॥अष्टमः खण्डः
एह्यूषु ब्रवाणि त आग्निरगामि भारतः प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिरग्निं वो वृधन्तमग्ने यं यज्ञमध्वरं यजिष्ठं त्वाऽववृमहे यः समिधाय आहुत्याऽऽते अग्न इधीमह्युभेसुश्चन्द्र सर्पिष इति द्वे एका चाग्निं तं मन्ये यो वसुरा ते वत्सो मनो यमदाऽऽग्ने स्थूरं रयिं भर प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत भद्रो नो अग्निराहुतो यदी घृतेभिराहुत आ घाये अग्निमिन्धत इमा अभिप्रणोनुम इति
॥१॥अथ ब्राह्मणाच्छंसिनोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथैवाह्यसि वीरयुरेवाह्यस्य सूनृता तन्ते मदं गृणीमसि तम्वभि प्रगायत वयमु त्वामपूर्व्य यो न इदमिदं पुरेन्द्राय साम गायत सखाय आशिषामहि य एक इद्विदयते य इन्द्र सोमपातम एन्द्र नो गध्येदु मध्वो मदिन्तरमेतो न्विन्द्रस्तवाम सखायः स्तुहीन्द्रं व्यश्वव त्वन्न इन्द्राभर वयमुत्वामपूर्व्य यो न इदमिदं पुराऽऽयाहीम इन्दव इति समाहार्योऽनुरूपोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथेति
॥२॥अथाछावाकस्येन्द्रं विश्वा अवीवृधन्नुक्थ्यमिन्द्राय शंस्यं श्रुधीहवन्तिरश्च्या आश्रुत्कर्ण श्रुधीहवमसावि सोम इन्द्र त इममिन्द्रसुतं पिब यदिन्द्रचित्रमेहना यस्ते साधिष्ठोऽवसे पुरां भिन्दुर्युवा कविर्वृषा ह्यसि राधसे गायन्ति त्वा गायत्रिण आ त्वा गिरो रथीरिवेति
॥३॥सूक्तानामेकैकं शिष्ट्वाऽऽवपेरन्
॥४॥नवमः खण्डः
स्तोमे वर्धमाने
॥१॥इमा उ वां भृमयो मन्यमाना इति तिस्र इन्द्रा को वामिति सूक्ते श्रुष्टी वां यज्ञो युवां नरा पुनीषे वाम् इमानि वां भागधेयानीत्येतस्य यथार्थं मैत्रावरुणः
॥२॥यस्तस्तम्भ यो अद्रिभिद् यज्ञे दिव इति सूक्ते अस्तेव सु प्रतरम् आयात्विन्द्रः स्वपतिः इमांं धियमिति ब्राह्मणाच्छंसी
॥३॥विष्णोर्नुकमिति सूक्ते परो मात्रयेत्यच्छावाकः
॥४॥दशमः खण्डः
पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आद्ये आद्याभ्यां
॥१॥तृतीयसवनानि चान्वहं
॥२॥उपप्रयन्त इति तु प्रथमेऽहन्याज्यं । अग्निं दूतमिति द्वितीये
॥३॥तृतीये युक्ष्वाहीत्याज्यं
॥४॥वायवायाहि वीतय इत्येका वायो याहि शिवादिव इति द्वे इन्द्रश्च वायवेषां सुतानामिति द्वयोरन्यतरां द्विरामित्रे वरुणे वयमश्विनावेह गच्छतमायाह्यद्रिभिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रियाप्रियास्वित्यौष्णिहं प्रउगं
॥५॥उत्तमेऽन्वृचमभ्यासाश्चतुरक्षराः
॥६॥न वा
॥७॥तृतीयेनाभिप्लविकेनोक्तो मध्यन्दिनः । तं तमिद्राधसे महे त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ । वैरूपं चेत् पृष्ठं यद्याव इन्द्र ते शतं यदिन्द्रयावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ
॥८॥एकादशः खण्डः
चतुर्थेऽहनि यत् प्रातरनुवाकप्रतिपद्यर्धर्चाद्यो न्यूङ्खः
॥१॥द्वितीयं स्वरमोकारं त्रिमात्रमुदात्तन्त्रिः
॥२॥तस्य तस्य चोपरिष्टादपरिमितान् पञ्च वार्धौकाराननुदात्तान्
॥३॥उत्तमस्य तु त्रीन्
॥४॥पूर्वमक्षरं निहन्यते न्यूङ्खमाने
॥५॥तदपि निदर्शनायोदाहरिष्यामः
॥६॥ओमिट्टेड्
॥७॥आग्निं न स्ववृक्तिभिरित्याज्यं
॥८॥तस्योत्तमावर्जं तृतीयेषु पादेषु न्यूङ्खो निनर्दश्च
॥९॥उक्तो न्यूङ्खः
॥१०॥स्वरादिरन्त ओकारश्चतुर्निनर्दः
॥११॥उदात्तौ प्रथमोत्तमौ । अनुदात्तावितरौ । उत्तरोऽनुदात्ततरः
॥१२॥प्लुतः प्रथमः । मकारान्त उत्तमः । तदपि निदर्शनायोदाहरिष्यामः
॥१३॥आग्निम् न स्ववृक्तिभिः । होतारम् त्वा वृणीमहे । ओमिट्टेड्
॥१४॥ओमिट्टेड्
॥१५॥अपि वोदात्तादनुदात्तं स्वरितमुदात्तमिति चतुर्निनर्दः
॥१६॥ओमिट्टेड्
॥१७॥प्रथमादर्धौकारादध्वर्युर्न्यूङ्खयेत्
॥८॥प्रथमात् द्वितीयाद्वा
॥१९॥व्युपरमं हैके
॥२०॥यथा वा सम्पादयिष्यन्तो मन्येरन्
॥२१॥वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्रश्च वायवेषां सोमानामाचिकिता न सुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमपत्यं वृजिनं रिपुमम्बितमेनदीतम इत्यानुष्टुभं प्रउगं
॥२२॥एकपातिन्यः प्रथमः
॥२३॥तं त्वा यज्ञेभिरीमह इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रतिपदनुचरौ
॥२४॥श्रुधीहवनिन्द्रमरुत्वाँ इन्द्रेति मरुत्वतीयं
॥२५॥अन्त्ये निविदं दध्यादनेकभावे सूक्तानां
॥२६॥वराजं चेत् पृष्ठं पिबा सोममिन्द्रमन्दतु त्वेति स्तोत्रियानुरूपौ
॥२७॥कुहश्रुत इद्रोयुध्यस्य त इति निष्केवल्यं । श्रुधीहवीयस्य तु तृच आद्येऽर्धर्चादिषु न्यूङ्खः
॥२८॥एवं कुहश्रुतीयस्य
॥२९॥विराजां मध्यमेषु पादेषु
॥३०॥नित्य इह प्रतिगरो न्यूङ्खादिः
॥३१॥प्रणवान्तः प्रणवे कुहश्रुतीयानां
॥३२॥अर्धर्चशश्चैनदुत्तमावर्जं
॥३३॥न ते गिरो अपि मृष्ये तुरस्य प्रवोमहे महिवृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः
॥३४॥तासामूर्ध्वमारम्भणीयाभ्य स्तृचानावपेरन्
॥३५॥आद्यं मैत्रावरुणस्तस्योत्तमादिशस्तानां तृचं ब्राह्मणाच्छंसी
॥३६॥तस्य चाच्छावाकः
॥३७॥यजामह इन्द्र वज्रदक्षिणमिति द्वितीयानेवमेव
॥३८॥पञ्चमेऽहनि यच्चिद्धि सत्यसोमपा इत्येकैकमेवमेव
॥३९॥षष्ठेऽहनीन्द्राय हि द्यौरसुरो अनम्नतेत्येवमेव
॥४०॥द्वादशः खण्डः
स्तोमे वर्धमाने को अघनर्यो वनेन वाय आयाह्यर्वाङित्यष्टर्चान्यावपेरन्नुपरिष्टात् पारुच्छेपीनां
॥१॥तैरप्यनतिशस्त ऐन्द्राणि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन्
॥२॥न त्वेतान्यनोप्यातिशंसनं
॥३॥एकया द्वाभ्यां वा प्रातःसवने
॥४॥अपरिमिताभिरुत्तरयोः सवनयोः
॥५॥पञ्चमस्येममूषुवो अतिथिमुषर्बुधमिति नवाज्य
॥६॥आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महेतन इत्येका रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा सुतस्य रसिनो देवं देवं वो वसे देवं देवं बृहदुगायिषेव च इति बार्हतं प्रउगं
॥७॥प्रगाथानेके द्वितीयोत्तमवर्जं
॥८॥यत् पाञ्चजन्यया विशेन्द्रइत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ । अवितासीत्थाहीन्द्रपिब तुभ्यमिति मरुत्वतीयं
॥१०॥शाक्वरं चेत् पृष्ठं महानाम्न्यस्तोत्रियः । ता अध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति
॥१०॥ताभिः पुरीषपदान्युपसन्तनुयात्
॥११॥पञ्चाक्षरशः पूर्वाणि पञ्च
॥१२॥सर्वाणि वा यथानिशान्तं
॥१३॥योनिस्थाने तु यथानिशान्तं सपुरीषपदा उत्तमेन सन्तानः
॥१४॥स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्निति त्रयस्तृचा अनुरूपः
॥१५॥प्रेदं ब्रह्मेन्द्रोमदाय सत्रा मदास इति निष्केवल्यं
॥१६॥पाङ्क्ते पूवा सूक्ते मरुत्वतीये पाङ्के निष्केवल्ये
॥१७॥आद्ये तु त्रिष्टुबुत्तमे
॥१८॥तयोरवसाने शतक्रतो समप्सुजिदिति मरुत्वतीये
॥१९॥शचीपतेऽनेद्येति निष्केवल्ये निष्केवल्ये
॥२०॥