प्रथमः खण्डः
उक्थे तु होत्रकाणां
॥१॥एह्यूषु ब्रुवाणि त आग्निरगामि भारतश्चर्षणीधृतमस्तभ्नाद्यामसुर इति तृचाविन्द्रावरुणा युवमावां राजानाविन्द्रावरुणा मधुमत्तमस्येति याज्या । वयमु त्वामपूर्व्य यो न इदमिदं पुरेति प्रगाथौ सर्वाः ककुभः प्रमंहिष्ठायोदप्रुतोऽच्छाम इन्द्रं बृहस्पते युवमिन्द्रश्च वस्व इति याज्या । अघाहीन्द्र गिर्वण इयन्त इन्द्र गिर्वण क्रतुर्जनित्रीनूमर्त्तो भवा मित्रः स वां कर्मणेन्द्राविष्णू मदपती मदानामिति याज्या
॥२॥इत्यन्त उक्थ्यः
॥३॥द्वितीयः खण्डः
अथ षोळशी
॥१॥अथ षोडशी असावि सोम इन्द्र त इति स्तोत्रियानुरूपौ
॥२॥आ त्वा वहन्तु हरय इति तिस्रो गायत्र्यः
॥३॥उपोषु शृणुही गिरः सुसंदृशन्त्वा वयं मघवन्नित्येका द्वे च पङ्क्ती
॥४॥यदिन्द्रपृतना ज्येयन्ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ । आधूर्ष्वस्मा इति द्विपदा
॥५॥ब्रह्मन् वीर ब्रह्मकृतिं जुषाण इति त्रिष्टुप् । एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे । विस्रुतयो यथापथ इन्द्र त्वद्यन्ति रातयः । त्वामिच्छवसस्पते यन्ति गिरो न संयत इति तिस्रो द्विपदाः । प्र ते महे विदथे शंसिषं हरी इति तिस्रो जगत्यः । त्रिकडुकेषु महिषो यवाशिरं प्रोष्वस्मै पुरोरथमिति तृचावातिच्छन्दसौ
॥६॥पच्छःपूर्वं द्वेधाकारं
॥७॥उत्तरमनुष्टुब्गायत्रीकारं
॥८॥प्रचेतन प्रचेतयायाहि पिब मत्स्व । क्रतुश्छन्द ऋतं बृहत् सुन्न आधेहि नो वसवित्यनुष्टुप् । प्र प्र वस्त्रिष्टुभमिषमर्चत प्रार्चतयोव्यतीँ रफाणयदिति तृचा आनुष्टुभाः
॥९॥उत्तमस्योत्तमां शिष्ट्वोत्तमां निविदन्दध्यात्
॥१०॥लिङ्गैः पदानुपूर्वं व्याख्यास्यामो मत्सदहिं वृत्रमपां जिन्वदुदार्यमुद्यान् दिवि समुद्रं पर्वता इह
॥११॥उद्यद्ब्रध्नस्य विष्टपमिति परिधानीया । एवाह्येवैवाहीन्द्र ३ । एवाहि शक्रो वशी हि शक्र इति जपित्वा । अपाः पूर्वेषां हरिवः सुतानामिति यजति
॥१२॥तृतीयः खण्डः
विहृतस्येन्द्रजुषस्व प्रवहायाहि शूर हरी इह । पिबा सुतस्य मतिर्न मध्वश्चकानश्चारुर्मदाय । इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न । अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अस्थुः । इन्द्र स्तुराषाण्मित्रो न जघान वृत्रं यतिर्न । बिभेद बलं भृगुर्न ससाहे शत्रून्मदे सोमस्य । श्रुधीहवं न इन्द्रो न गिरो जुषस्व वज्री न । इन्द्र सयुग्भिर्दिद्युन्नमत्स्वामदाय महेरणाय । आ त्वा विशन्तु कविर्न सुतास इन्द्र त्वष्टा न । पृणस्व कुक्षी सोमो नाविड्ढि शूरधिया हि या नः । साधुर्न गृध्नुरृभुर्नास्तेव शूरश्चमसो न । यातेव भीमो विष्णर्न त्वेषः समत्सुक्रतुर्नेति स्तोत्रियानुरूपौ
॥१॥ऊर्ध्वं स्तोत्रियानुरूपाभ्यान्तदेव शस्यं विहरेत्
॥२॥पादान् व्यवधायाधर्चशः शंसेत्
॥३॥पूर्वासां पूर्वाणि पदानि
॥४॥गायत्र्यः पङ्क्तिभिः
॥५॥पंक्तीनां तु द्वे द्वे पदे शिष्येते ताभ्यां प्रणुयात्
॥६॥उष्णिहो बृहतीभिरुष्णिहान्तूत्तमान् पादान् द्वौ कुर्य्यात्
॥७॥चतुरक्षरमाद्यं
॥८॥द्विपदाश्चतुर्धा कृत्वा प्रथमां त्रिष्टुभोत्तरा जगतीभिः
॥९॥उत्तमायाश्चतुर्थमक्षरमन्त्यं पूर्वस्याद्यमुत्तरस्य
॥१०॥द्वितीयतृतीययोस्तृतीययोः पादयोरवसानत उपदध्यात् । प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्यां
॥११॥उत्तरास्वितरान् पादान् षष्ठान् कृत्वाऽनुष्टुप्कारं शंसेत्
॥१२॥ऊर्ध्वं स्तोत्रियानुरूपाभ्यामातो विहृतः
॥१३॥तत्र प्रतिगर ओथामो दैवमदे मदामो दैवोमथेति
॥१४॥याज्यां जपेनोपसृजेत्
॥१५॥एवाह्येवापाः पूर्वेषां हरिवः सुतामेवाहीन्द्रा ँअथो इदं सवनं केवलन्ते । एवा हि शक्रो मम द्विसोमं मधुमन्तमिन्द्रवशीहि शक्रः सत्रावृषन् जठर आवृषस्वेति
॥१६॥समानमन्यत्
॥१७॥स्तोत्रियाय निविदे परिधानीयाया इत्याहावः
॥१८॥आहुतं षोडशिपात्रं समुपहावं भक्षयन्ति
॥१९॥घर्मे च भक्षिणः
॥२०॥मैत्रावरुणस्त्रयश्छन्दोगाः
॥२१॥इन्द्र षोडशिन्नोजस्विंस्त्वन्देवेष्वस्योजस्वन्तमामायुष्मन्तं वर्च स्वन्तं मनुष्येषु कुरु । तस्य त इन्द्र पीतस्यानुष्टुप्छन्दस उपहूतस्योपहूतो भक्षयामीति भक्षजपः
॥२३॥चतुर्थः खण्डः
अतिरात्रे पर्यायाणामुक्तः शस्योपायो होतुरपि यथा होत्रकाणां
॥१॥प्रथमे पर्याये होतुराद्यां वर्जयित्वा प्रत्यृचं स्तोत्रियानुरूपेषु प्रथमानि पदानि द्विरुक्त्वाऽवस्यन्ति
॥२॥शिष्टे समसित्वा प्रणुवन्ति
॥३॥सर्वे सर्वासां मध्यमे मध्यमानि प्रत्यादाय ऋगन्तैः प्रणुवन्ति
॥४॥उत्तमान्युत्तमे
॥५॥चतुरक्षराणि त्वछावाकः
॥६॥चतुःशस्त्राः पर्यायाः
॥७॥होतुराद्यं
॥८॥याज्याभ्यः पूर्वे पर्यासाः
॥९॥पान्तमा वो अन्धसोपादुशिप्र्यन्धसस्त्यमु वः सत्रासाहमिति सूक्तशेषोऽभित्यं मेषमध्वर्यवो भरतेन्द्राय सोममिति याज्या । प्र व इन्द्राय मादनं प्रकृतान्यृजीषिणः प्रतिश्रुताय वो धृषदिति पञ्चदश दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति चास्य मदे पुरुवपांसि विद्वानिति याज्या । वयमु त्वा ददिदर्था वयमिन्द्रत्वाय वोऽभिवार्त्रहत्यायेत्युत्तमामुद्धरेदिन्द्रोअङ्ग महद्भयमभिन्यूषु वावमप्सु धूतस्य हरिवः पिबेहेति याज्या । इन्द्राय मद्वने सुतमिन्द्रमिद्गाथिनो बृहदेन्द्रसानसिमेतोऽन्विन्द्रस्तवामेशानं मा नो अस्मिन् मघवन्निन्द्रपिब तुभ्यं सुतो मदायेति याज्या । अयन्त इन्द्र सोमोऽयन्ते मानुषे जन उद्घेदभीत्युत्तमामुद्धरेदहं भुवमपाय्यस्यान्धसो मदायेति याज्या । आतून इन्द्र क्षुमन्तमा प्रद्रव परावतो न ह्यन्यं बडाकरमित्यष्टावींखयन्तीरहन्दां पाता सुतमिन्द्रोअस्तु सोमं हन्ता वृत्रमिति याज्या । अभि त्वा वृषभा सुतेऽभि प्र गोपतिङ्गिरातून इन्द्रमद्रय्गितिसूक्ते अश्वावतिप्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या । इदं वसो सुतमन्ध इन्द्रेहि मत्स्यन्धसः प्र सम्राजमुपक्रमस्वाभर धृषता तदस्मै नव्यमस्य पिब यस्य जज्ञान इन्द्रेति याज्या । इदं ह्यन्वोजसा महाँ इन्द्रो य ओजसा समस्य मन्यवे विश इति द्विचत्वारिंशद्विश्वजिते तिष्ठाहरीरथ आयुज्यमानेति याज्या । आत्वेता निषीदता त्वशत्रवागहि नकिरिन्द्रत्वदुत्तर इत्युत्तमामुद्धरेच्छ्रत्ते दधामीदन्त्यत् यत् पात्रमिन्द्रपानमिति याज्या । योगे योगे तव स्तरं युजन्ति ब्रध्नमरुषं यदिन्द्राहं प्रतेमह ऊती शची वस्तव वीर्येणेति याज्या । इन्द्रःसुतेषु सोमेषु य इन्द्र सोमपातम आद्या ये अग्निमिन्धत इति सप्तदश य इन्द्र चमसेष्वा सोमः प्र वः सतां प्रोद्रोणे हरयः कर्माग्मनिनि याज्या
॥१०॥इति पर्यायाः
॥११॥पर्यासवर्जं गायत्राः
॥१२॥पञ्चमः खण्डः
संस्थितेष्वाश्विनाय स्तुवते
॥१॥शंसिष्यन् विसंस्थितसञ्चरेण निष्क्रम्याग्नीध्रीये जान्वाच्याहुतीर्जुहुयात् । अग्निरज्वी गायत्रेण छन्दसा तमश्यान्तमन्वारभे तस्मै मामवतु तस्मै स्वाहा । उषा अज्विनी त्रैष्टुभेन छन्दसा तामश्यान्तामन्वारभे तस्मै मामवतु तस्मै स्वाहा । अश्विनावज्विनौ जागतेन छन्दसा तावश्यान्तावन्वारभे ताभ्यां मामवतु ताभ्यां स्वाहा । बण्महाँ असि सूर्येति द्वाभ्यामिन्द्रवो विश्वतस्परीति च
॥२॥प्राश्याज्यशेषमप उपस्पृशेन्नाचामेद्विज्ञायते देवरथो वा एष यद्धोता नाक्षमद्भिः करवाणीति
॥३॥प्राश्य प्रतिप्रसृप्य पश्चात् स्वस्य धिष्णस्योपविशेत् समस्तजङ्घोरुररत्निभ्यां जानुभ्यां चोपस्थं कृत्वा यथा शकुनिरुत्पतिष्यन्
॥४॥उपस्थकृतस्त्वेवाश्विनं शंसेत्
॥५॥अग्निर्होता गृहपतिः स राजेति प्रतिपदेकपातिनी पच्छः
॥६॥एतयाऽऽग्नेयं गायत्रमुपसन्तनुयात्
॥७॥प्रातरनुवाकन्यायेन तस्यैव समाम्नायस्य सहस्रावममोदेतोः शंसेत्
॥८॥बार्हतास्त्रयस्तृचा स्तोत्रियाः प्रगाथा वा तान् पुरस्तादनुदैवतं स्वस्य छन्दसो यथास्तुतं शंसेत्
॥९॥येषु वान्येषु
॥१०॥पच्छो द्विपदाः
॥११॥उपसन्तनुयादेकपदाः
॥१२॥ताभ्यश्चोत्तराः
॥१३॥विच्छन्दस उद्धरेत्
॥१४॥अपि वा तन्न्यायेन शंसनं
॥१५॥न तु पच्छोऽन्यास्त्रिष्टुब्जगतीभ्यः
॥१६॥पाङ्क्तेनोदिते सौर्याणि प्रतिपद्यते
॥१७॥सूर्यो नो दिव उदु त्यं जातवेदसमिति नव चित्रं देवानां नमो मित्रस्येन्द्रक्रतुं न आभराभित्वा शूर नोनुमो बहवः सूरचक्षस इति प्रगाथा मही द्यौः पृथिवी च नस्ते हि द्यावापृथिवी विश्वशम्भुवा । विश्वस्य देवोमृचयस्य जन्मनोऽनया रोषातिनग्रभदिति द्विपदा
॥१८॥बृहस्पते अतियदर्यो अर्हादिति परिधानोया
॥१९॥प्रतिपदे परिधानीयाया इत्याहावः
॥२०॥बृहत् साम चेत् तस्य योनिं प्रगाथेषु द्वितीयां तृतीयां वा
॥२१॥न वा
॥२२॥आश्विनेन ग्रहेण सपुरोडाशेन चरन्ति
॥२३॥इमे सोमासस् तिरो अह्न्यासस् तीव्रास् तिष्ठन्ति पीतये युवाभ्याम् । हविष्मता नासत्या रथेन आ आतम् उपभूषतम् पिबध्या इत्य् अनुवाक्या
॥२२॥होता यक्षद् अश्विना सोमानाम् तिरो अह्न्यानाम् इति प्रैषः । प्र वाम् अन्धांसि मद्यान्य् अस्थुर् उभा पिबतम् अश्विना इति याज्ये अध्यर्धाम् अन्ववानम्
॥२४॥यद्येतस्य पुरोडाशस्य स्विष्टकृता चरेयुः । पुरोडा अग्ने पचतोऽग्ने वृधान आहुतिमिति संयाज्ये
॥२५॥षष्ठः खण्डः
यदि पर्यायानभिव्युच्छेत् सर्वेभ्य एकं सम्भरेयुः
॥१॥प्रथमाद्धोता द्वितीयान्मैत्रावरुणो ब्राह्मणाच्छंसी चोत्तमादच्छावाकः
॥२॥द्वौ चेत् द्वौ प्रथमात् द्वा उत्तमात्
॥३॥अपि वा सर्वे स्युः स्तोमनिर्ह्रस्ताः
॥४॥ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमांस्तृचाञ्छंसेयुः
॥५॥निर्ह्रास एवैकस्मिन्
॥६॥होतृवर्जमित्येके
॥७॥आश्विनायैकस्तोत्रियोऽग्ने विवस्वदुषस इति
॥८॥तं पुरस्तादनुदैवतं स्वस्य छन्दसो यथास्तुतं शंसेत्
॥९॥त्रीणि षष्टिशतान्याश्विनं
॥१०॥विमतानां प्रसवसन्निपाते संसवोऽनन्तर्हितेषु नद्या वा पर्वतेन वा
॥११॥अप्येकेऽन्तर्हितेष्वपि
॥१२॥तथा सति सन्त्वरा देवतावाहनात्
॥१३॥कयाशुभेति च मरुत्वतीये पुरस्तात् सूक्तस्य शंसेत्
॥१४॥यो जात एवेति निष्केवल्ये
॥१५॥ममाग्ने वर्च इति वैश्वदेवसूक्तस्य
॥१६॥अपि वैतेष्वेव निविदो दध्यादुद्धरेदितराणि
॥१७॥स्थानं चेन्निविदोऽतिहरेन्मा प्रगामेति पुरस्तात् सूक्तं शस्त्वाऽन्यस्मिंस्तद्दैवते दध्यात्
॥१८॥सप्तमः खण्डः
सोमातिरेके स्तुतशस्त्रोपजनः
॥१॥प्रातःसवनेऽस्ति सोमो अयं सुतो गौर्धयति मरुतामिति स्तोत्रियानुरूपौ । महाँ इन्द्रो य ओजसाऽऽतो देवा अवन्तु न इत्यैन्द्रीभिर्वैष्णवीभिश्च स्तोममतिशस्यैन्द्र् या यजेत्
॥२॥वैष्णव्या वा
॥३॥ऐन्द्रावैष्णव्येति गाणगारिर्देवतप्रधानत्वात्
॥४॥सं वां कर्मणा समिषा हिनोमीति
॥५॥माध्यन्दिने बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ । महाँ इन्द्रो नृवद्विष्णोर्नुकं या विश्वासां जनितारा मतीनामिति याज्या
॥६॥तृतीयसवन उत्तरोत्तरां संस्थामुपेयुराऽऽतिरात्रात्
॥७॥अतिरात्राच्चेत् प्र तत्ते अद्य शिपिविष्ट नाम प्र तद्विष्णुस्तव ते वीर्येणेति स्तोत्रियानुरूपौ । माध्यन्दिनेन शेषः
॥८॥त्वेषमित्थास मरणं शिमीवतोरिति वा याज्या
॥९॥अष्टमः खण्डः
क्रीते राजनि नष्टे दग्धे वा
॥१॥अपिदधानि सदो हविर्धानान्यनावृता क्रियेरन्
॥२॥आवृता वा
॥३॥अन्यं राजानमभिषुणुयुः
॥४॥अनधिगमे पूतीकान् फाल्गुनानि
॥५॥अन्या वा ओषधयः पूतीकैः सह
॥६॥प्रायश्चित्तं वा हुत्वोत्तरमारभेत
॥७॥सुत्यासूक्तमेव मन्येत
॥८॥प्रतिधुक् प्रातःसवने
॥९॥शृतं माध्यन्दिने
॥१०॥दधि तृतीयसवने
॥११॥श्रायन्तीयं ब्रह्म साम यदि फाल्गुनानि वारवन्तीयं यज्ञायज्ञीयस्य स्थाने श्रायन्तीयमेके
॥१२॥एकदक्षिणं यज्ञं संस्थाप्योदवसाय पुनर्यजेत
॥१४॥तस्मिन् पूर्वस्य दक्षिणा दद्यात्
॥१५॥सोमाधिगमे प्रकृत्या
॥१६॥नवमः खण्डः
दीक्षितानामुपतापे परिहिते प्रातरनुवाकेऽनुपाकृते वा पुष्टिपते पुष्टिश्चक्षुषे चक्षुः प्राणाय प्राणं त्मने त्मानं वाचे वाचमस्मै पुनर्देहि स्वाहेति ब्रह्माहुतिं हुत्वा शीतोष्णा अपः समानीयैकविंशतिं तासु यवान् कुशपिञ्जूलांश्चावधाय ताभिरद्भिरबर्थं कुर्वीत ताभिरेनमाप्लावयेज्जीवानामस्थता३ । इमममुञ्जीवयत जीविकानामस्थता३ । इमममुञ्जीवयत सञ्जीवानामस्थता३ । इमममुं सञ्जीवयत सञ्जीविकानामस्थता३ । इममुं सञ्जीवयतेत्यौषधिसूक्तेन च
॥१॥आप्लाव्यानुमृजेत्
॥२॥उपांश्वन्तर्यामौ ते प्राणापानौ पातामसा उपांशुसवनस्ते व्यानं पात्वसावैन्द्रवायवस्ते वाचं पात्वसौ मैत्रावरुणस्ते चक्षुषी पात्वसावाश्विनस्ते श्रोत्रं पात्वसावाग्रयणस्ते दक्षक्रतू पात्वसा उक्थस्तेऽङ्गानि पात्वसौ ध्रुवस्त आयुः पात्वसाविति
॥३॥यथासनमनुपरिक्रमणं
॥४॥त्रातारमिन्द्रमवितारमिन्द्रमिति तार्क्ष्यादिः
॥५॥यद्य् अप्य् अन्यद् ऐकाहिकाद् वैश्वदेवम् स्वस्त्य् आत्रेये निविदम् दध्यात्
॥६॥प्रकृत्याऽगदे
॥७॥दशमः खण्डः
संस्थिते तीर्थेन निर्हृत्यावभृथे प्रेतालङ्कारान् कुर्वन्ति
॥१॥केशश्मश्रुलोमनखानि वापयन्ति
॥२॥नलदेनानुलिम्पन्ति
॥३॥नलदमालां प्रतिमुञ्चन्ति
॥४॥निःपुरीषमेके कृत्वा पृषदाज्यं पूरयन्ति
॥५॥अहतस्य वाससः पाशतः पादमात्रमवच्छिद्य प्रोर्णुवन्ति प्रत्यग्दशेनाऽऽविःपादं
॥६॥अवच्छेदमस्य पुत्रा अमाकुर्वीरन्
॥७॥अग्नीनस्य समारोप्य दक्षिणतो बहिर्वेदि दहेयुः
॥८॥आहायणानाहिताग्निं
॥९॥पत्नीञ्च
॥१०॥प्रत्येत्याहः समापयेयुः
॥११॥प्रातरनभ्यासमनभिहिंकृतानि शस्त्रानुवचनाभिष्टवनसंस्तवनानि
॥१२॥पुरा ग्रहग्रहणात् तीर्थेन निष्क्रम्य त्रिःप्रसव्यमायतनं परीत्य पर्युपविशन्ति
॥१३॥पश्चाद्धोता
॥१४॥उत्तरोऽध्वर्युः । तस्य पश्चाच्छन्दोगाः
॥१५॥आयङ्गौः पृश्निरक्रमीद् इत्युपांशु स्तुवते
॥१६॥स्तुते होता प्रसव्यमायतनं परिव्रजन् स्तोत्रियमनुद्रवेदप्रणुवन्
॥१७॥यामीश्च
॥१८॥प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयमुद्धरेत् । मैनमग्ने वि दहो माभिशोच इति षट् । पूषा त्वेतश्च्यावयतु प्र विद्वानिति चतस्र उपसर्प मातरं भूमिमेतामिति चतस्रः सोम एकेभ्यः
॥१९॥उरूणसावसुतृपा उदुग्बलाविति च समाप्य । सञ्चित्य तीर्थेन प्रपाद्य यथासनमासादयेयुः
॥२०॥भक्षेषु प्राणभक्षान् भक्षयित्वा दक्षिणे मार्जालीये निनयेयुः । दक्षिणस्यां वा वेदिश्रोण्यां
॥२१॥सप्तदशमहर्भवति त्रिवृतः पवमाना रथन्तरपृष्ठोऽग्निष्टोमः
॥२२॥संस्थितेऽवभृथमेके गमयन्त्येतस्यैतदहरभिशब्दयन्तः
॥२३॥निर्मन्थ्येन वा दग्ध्वा निखाय संवत्सरादेनमग्निष्टोमेन याजयेयुः
॥२४॥नेदिष्ठिनं वा दीक्षयेयुः
॥२५॥अपि वोत्थानं गृहपतौ
॥२६॥उक्तः स्तुतशस्त्रविकारः
॥२७॥एकाहेषु यजमानासने शयीत
॥२८॥संस्थितेऽपायतीष्ववभृथं गमयेयुरित्यालेखनः
॥२९॥पूर्वेण सदो दहेयुरित्याश्मरथ्यः
॥३०॥एष एवावभृथः
॥३१॥एकादशः खण्डः
अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति संस्थाः
॥१॥तासां यामुपयन्ति तस्या अन्ते यज्ञपुच्छं
॥२॥अनुयाजाद्युक्तं पशुनाशं युवाकात्
॥३॥उत्तमस्त्विह सूक्तवाकप्रैषः
॥४॥अवीवृधतेति पुरोडाशदेवतां
॥५॥एके यदि सवनीयस्य पशोः पशुपुरोडाशं कुर्युरवीवृधेतां पुरोडाशैरित्येव ब्रूयात्
॥६॥सवनीयैरेवेन्द्रोवर्धते पशुपुरोडाशेन पशुदेवता
॥७॥ऊर्ध्वं शंयुवाकाद्धारियोजनः
॥८॥अपाः सोममिन्द्रप्रयाहि धाना सोमानामिन्द्राद्धि च पिब च युनज्मि ते ब्रह्मणा केशिना हरी इति
॥९॥इज्यानुवाक्ये अन्त्येष्वहःसु
॥१०॥तिष्ठा सु कं मघवन्मा परागा अयं यज्ञो देवया अयं मियेध इतीतरेषु
॥११॥परायाहि मघवन्ना च याहीति वाऽनुवाक्योत्तरवत्स्वहःसु
॥१२॥अननुवषट्कृतेऽतिप्रैषं मैत्रावरुण आहेह मद एव मघवन्निन्द्रतेऽश्व इति
॥१३॥अद्येत्यतिरात्रे
॥१४॥अद्य सुत्यामिति च
॥१५॥तस्यान्तं श्रुत्वाऽऽग्नीध्रः श्वःसुत्यां प्राह श्वःसुत्यां वा एषां ब्राह्मणानां तामिन्द्रायेन्द्राग्निभ्यां प्रब्रवीमि मित्रावरुणाभ्यां वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सौम्येभ्यः सोमपेभ्यो ब्रह्मन् वाचं यच्छेति
॥१६॥द्वादशः खण्डः
आहृतमुन्नेत्रा द्रोणकलशमिडामिव प्रतिगृह्योपहवमिष्ट्वाऽवेक्षेत
॥१॥हरिवतस्ते हारियोजनस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षं भक्षयित्वा प्रतिप्रदाय द्रोणकलशमात्मानमाप्याय्य यथाप्रसृप्तं विनिसृप्याग्नीध्रीये विनिसृप्ताहुती जुह्वत्ययं पीत इन्दुरिन्द्रं मदेधादयं विप्रो वाचमर्चन्नियच्छन् । अयं कस्यचिद्द्रुहतादभीके सोमो राजा न सखायं रिषेधात् स्वाहा । इदं राधो अग्निना दत्तमागाद्यशोभर्गः सह ओजो बलञ्च । दीर्घायुत्वाय शतशारदाय प्रतिगृभ्नाभिमहते वीर्याय स्वाहेति
॥२॥आहवनीये षट् षट् शकलान्यभ्यादधति । देवकृतस्यैनसोऽवयजनमसि स्वाहा । पितृकृतस्यैनसोऽवयजनमसि स्वाहा । मनुष्यकृतस्यैनसोऽवयजनमसि स्वाहा । आत्मकृतस्यैनसोऽवयजनमसि स्वाहा । एनस एनसोऽवयजनमसि स्वाहा । यद्वो देवाश्चकृम जिह्वया गुर्विति च
॥३॥द्रोणकलशाद्धाना गृहीत्वाऽवेक्षेरन्नापूर्याऽस्थामापूरयत प्रजया च धनेन च । इन्द्रस्य कामदुघाः स्थ कामान् मे धुङ्ध्वं प्रजाञ्च पशूंश्चेति
॥४॥अवघ्रायान्तःपरिधिदेशे निवपेयुः
॥५॥प्रत्येत्य तीर्थदेशेऽपां पूर्णाश्चमसास्तान्त्सव्यावृतो व्रजन्ति
॥६॥हरिततृणानि विमृज्य प्रतिस्वञ्चमसेभ्यस्त्रिः प्रसव्यमुदकैरात्मनः पर्युक्षन्ते दक्षिणैः पाणिभिः
॥७॥इतरैर्वा प्रदक्षिणं
॥८॥स्वधा पित्रे स्वधा पितामहाय स्वधा प्रपितामहायेति
॥९॥उक्तं जीवमृतेभ्यः
॥१०॥पाणींश्चमसेष्ववधायाप्सु धूतस्य देव सोम ते मतिविदो नृभिः सुतस्य स्तुतस्तोमस्य शस्तोक्थस्येष्टयजुषो यो भक्षो गोसनिरश्वसनिस्तस्य त उपहूतस्योपहूतो भक्षयामीति प्राणभक्षान् भक्षयित्वा माऽहं प्रजां परासिचमित्येतेनाभ्यात्मं निनीयाच्छायं वो मरुतः श्लोक एत्वित्येतयाऽभिमृशन्ति
॥११॥दधिक्राब्णो अकारिषमित्याग्नीध्रीये दधिद्रप्सान् प्राश्य सख्यानि विसृजन्ते । उभा कवी युवाना सत्यादा धर्मणस्पती । परिसत्यस्य धर्मणा विसख्यानि सृजामह इति
॥१२॥त्रयोदशः खण्डः
पत्नीसंयाजैश्चरित्वाऽवभृथं व्रजन्ति
॥१॥व्रजन्तः साम्नो निधनम् उपयन्ति
॥२॥अवभृथेष्ट्या तिष्ठन्तश्चरन्ति
॥३॥प्रयाजाद्यनुयाजान्ता नास्यामिडा न बर्हिष्मन्तौ प्रयाजानुयाजावप्सुमन्तौ
॥४॥गायत्रौ
॥५॥वारुणं हविः
॥६॥अव ते हेडो वरुण नमोभिरिति द्वे । अग्नीवरुणौ स्विष्टकृदर्थे
॥७॥त्वन्नो अग्ने वरुणस्य विद्वानिति द्वे । संस्थितायां पादानुदकान्तेऽवदध्यर्नमो वरुणायाभिष्ठितो वरुणस्य पाश इति
॥८॥तत आचामन्ति भक्षस्यावभृथोऽसि भक्षितस्यावभृथोऽसि भक्षं कृतस्यावभृथोऽसीति
॥९॥प्रोथ्य प्रथमेन प्रष्ठीवन्ति प्रगिरन्त्युत्तराभ्यां
॥१०॥तत आचम्याप्लवन्त आपो अस्मान् मातरः शुन्धयन्त्विदमापः प्रवहत सुमित्र्या न आप ओषधयः सन्त्विति
॥११॥एतयाऽऽवृताऽभ्युक्षेरन्नेव वाप्यदीक्षिताः
॥१२॥उन्नेतैनानुन्नयति
॥१३॥उद्वयन्तमसस्परीत्युदेत्य
॥१५॥समानमत ऊर्ध्वं हृदयशूलेनासंस्थाजपात्
॥१६॥संस्थाजपेनोपतिष्ठन्ते ये येऽपवृत्तकर्माणः
॥१७॥चतुर्दशः खण्डः
गार्हपत्य उदयनीयया चरन्ति
॥१॥सा प्रायणीययोक्ता
॥२॥पथ्या स्वस्तिरिहोत्तमाज्यहविषां
॥३॥विपरीताश्च याज्यानुवाक्याः
॥४॥ते चैव कुर्युर्ये प्रायणीयां
॥५॥प्रकृत्या संयाज्ये
॥६॥संस्थितायां मैत्रावरुण्यनूबन्ध्या
॥७॥सदस्येके
॥८॥उत्तरवेद्यामेके
॥९॥हुतायां वपायां यद्येकादशिन्यग्रतः कृताऽग्नीषोमीयेण सञ्चरेण व्रजित्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरन्ति
॥१०॥अञ्जनादि पर्यग्नि कृत्वोत्सृजन्त्यपुनरायनाय
॥११॥यदि त्वध्वर्यव आज्येन समाप्नुयुस्तथैव होता कुर्यात्
॥१२॥सम्प्रैषवदादेशान्
॥१३॥पशुवन्निपातान्
॥१४॥यद्यनूबन्ध्ये पशुपुरोडाशमनुदेविकाहवींषि निर्वपेयुर्धातानुमती राका सिनीवाली कुहूः
॥१५॥धाता ददातु दाशुषे प्राचीं जीवातुमक्षितां । वयं देवस्य धीमहि सुमतिं वाजिनीवतः । धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान । धाता कृष्टीरनिमिषाभिचष्टे धात्र इद्धव्यं घृतवज्जुहोतेति
॥१६॥देवीनां चेत् सूर्यो द्यौरुषा गौः पृथिवी
॥१७॥स्मत्युरन्धिर्न आगहीति द्वे आद्यान्तनोषि रश्मिभिरावहन्ती पोष्यावार्याणि न ता अर्वारेणुककाटो अश्नुते न तानशन्ति न दभातितस्वरो बडित्था पर्वतानां दृड्हा चिद्या वनस्पतीन्
॥१८॥पश्वलाभे पयस्या मैत्रावरुण्यनूबंध्यास्थाने
॥१९॥आज्यभागप्रभृतिवाजिनान्ता
॥२०॥कर्मिणो वाजिनं भक्षयेयुः
॥२१॥सर्वे तु दीक्षिताः
॥२२॥सर्वे तु दीक्षितोत्थिताः पृथगग्नीन् समारोप्योदग्देवयजनान्मथित्वोदवसानीयया यजन्ते
॥२३॥पौनराधेयिक्यविकृताऽविकृता
॥२४॥