प्रथमः खण्डः
पशौ
॥१॥इष्टिरुभयतोऽन्यतरतो वा
॥२॥आग्नेयी वा
॥३॥आग्नावैष्णवी वा
॥४॥उभे वा
॥५॥अन्यतरा पुरस्तात्
॥६॥उक्तमग्निप्रणयनं
॥७॥पश्चात् पाशुबन्धिकाया वेदेरुपविश्य प्रेषितो यूपायाज्यमानायाञ्जन्ति त्वामध्वरे देवयन्त इत्युत्तमेन वचनेनार्द्धर्च आरमेत्
॥८॥उच्छ्रयस्व वनस्पते समिद्धस्य श्रयमाणः पुरस्तादूर्ध्व ऊषुण ऊतय इति द्वे जातो जायते सुदिनत्वे अह्नामित्यर्द्धर्च आरमेत् । युवा सुवासाः परिवीत आगादिति परिदध्यात्
॥९॥यत्रैकतन्त्रे बहवः सपशवोऽन्त्यं परिधाय संस्तुयादनभिहिङ्कृत्य यान्वो नरो देवयन्तो निमिम्युरिति षड्भिः
॥१०॥पञ्चभिर्वा । अनभ्यासमेके
॥११॥उक्तमग्निमन्थनं तथा धाय्ये कृताकृतावाज्यभागौ । आवाहने पशुदेवताभ्यो वनस्पतिमनन्तरं
॥१२॥सम्मार्गैः सम्मृज्य प्रवृताहुतीर्जुहुयात्
॥१३॥जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाक् । यद्वाचो मधुमत्तमं तस्मिन्माधाः सरस्वत्यै वाचे स्वाहा । पनरादाय पञ्चविग्राहं स्वाहा वाचे स्वाहा वाचस्पतये स्वाहा सरस्वत्यै स्वाहा सरस्वते महोभ्यः संमहेभ्यः स्वाहेति
॥१४॥सोम एवैके
॥१५॥प्रशास्तारं तीर्थेन प्रपाद्य दण्डमस्मै प्रयच्छेद्दक्षिणोत्तराभ्यां पाणिभ्यां मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रयच्छामीति
॥१६॥तथायुक्ताभ्यामेवेतरो मित्रावरुणयोस्त्वा बाहुभ्यां प्रशास्त्रोः प्रशिषा प्रतिगृह्णाम्यवक्रो विथुरो भूयासमिति
॥१७॥प्रतिगृह्योत्तरेण होतारमतिव्रजेद्दक्षिणेन दण्डं हरेन्न चानेन संस्पृशेदात्मानं वान्यं वा प्रैषवचनात्
॥१८॥अन्यान्यपि यज्ञाङ्गान्युपयुक्तानि न विहारेण व्यवेयात्
॥१९॥दक्षिणो होतृषदनात् प्रह्वोऽवस्थाय वेद्यां दण्डमवष्टभ्य ब्रूयात् प्रैषांश्चादेशं
॥२०॥अनुवाक्याञ्च सप्रैषे । पूर्वां प्रैषात्
॥२१॥पर्यग्निस्तोकमनीतोन्नीयमानसूक्तानि च
॥२२॥सोम आसीनोऽन्यत्
॥२३॥द्वितीयः खण्डः
एकादश प्रयाजाः
॥१॥तेषां प्रैषाः
॥२॥प्रथमं प्रैषसूक्तं । उक्तं द्वितीये
॥३॥अध्वर्युप्रेषितो मैत्रावरुणः प्रेष्यति । प्रैषैर्होतारं
॥४॥होता यजत्याप्रीभिः प्रैषसलिङ्गाभिः
॥५॥समिद्धो अग्निरिति शुनकानां जुषस्व नः समिधमिति वसिष्ठानां समिद्धो अद्येति सर्वेषां
॥६॥यथाऋषि वा
॥७॥प्राजापत्ये तु जामदग्न्यः सर्वेषां
॥८॥दशसूक्तेषु प्रेषितो मैत्रावरुणोऽग्निर्होता न इति तृचं पर्यग्नयेऽन्वाह
॥९॥अध्रिगवे प्रेष्योपप्रेष्य होतरिति वोक्तोऽजैदग्निरसनद्वाजमिति प्रैषमुक्त्वान्तर्वेददण्डं निदध्यात्
॥१०॥अध्रिगुर्होतोहन्नङ्गानि दैवतं पशुमिति यथार्थं
॥११॥पुंवन्मिथुने
॥१२॥मेधपती
॥१३॥मेधायां विकल्पः
॥१४॥यथार्थमूर्द्ध्वमध्रिगोरन्यन्मिथुनेभ्यः
॥१५॥सर्वेषु यजुर्निगदेषु
॥१६॥प्रकृतौ समर्थनिगमेषु
॥१७॥प्राकृतास्त्वेव मन्त्राणां शब्दाः
॥१८॥प्रतिनिधिष्वपि
॥१९॥नाभिरुपमा मेऽदो हविरित्यनूह्यानि
॥२०॥तृतीयः खण्डः
दैव्याः शमितार आरभध्वमुत मनुष्या उपनयत मेध्यादुर आशासाना मेधपतिभ्यां मेधं । प्रास्मा अग्निं भरत स्तृणीत बर्हिरन्वेनं माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनुसखा सयूथ्यः । उदीचीनां अस्य पदो निधत्तात् सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरं । एकधाऽस्य त्वचमाच्छ्यतात् पुरा नाभ्या अपि शसो वपामुत्खिदतादन्तरेवोष्माणं वारयध्वात् । श्येनमस्य वक्षः कृणुतात् प्रशसा बाहू शला दोषणी कश्यपे वांसाछिद्रेश्रोणी कवषोरूस्रे कपर्णाष्ठीवन्ता षड्विंशतिरस्य वंक्रयस्ता अनुष्ट्यो च्यावयताद्गात्रं गात्रमस्यानूनं कृणुतात् । ऊवध्य गोहम्पार्थिवं खनतात् । अस्ना रक्षः संसृजतात् । वनिष्ठुमस्य माराविष्टोरूकम्मन्यमानानेद्वस्तोके तनये रवितारवच्छमितारः । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३उ अपाप
॥१॥अस्ना रक्षः संसृजताच्छमितारोऽपापेत्युपांशु
॥२॥एकधा षड्विंशतिरिति द्विर्द्विबहूनां
॥३॥पुरान्तरिति चैके । अध्रिग्वादि त्रिरुक्त्वा शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृतमन्यत्र तदिति जपित्वा दक्षिणावृदावर्त्तते
॥४॥मैत्रावरुणश्च
॥५॥सव्यावृतौ ब्रह्मयजमानौ । संज्ञप्ते पशावावर्त्तेरन्
॥६॥चतुर्थः खण्डः
वपायां श्रप्यमाणायां प्रेषितः स्तोकेभ्योऽन्वाह जुष सप्रथस्तममिमं नो यज्ञमिति
॥१॥उक्तमादापनं स्वाहाकृतिभ्यः
॥२॥होता यक्षदग्निं स्वाहाज्यस्य स्वाहा मेदस इति प्रष उत्तमाऽऽप्रीयाज्या
॥३॥वपा पुरोडाशो हविरिति पशोः प्रदानानि
॥४॥तानि पृथङ्नानादेवतेषु
॥५॥मनोताञ्च
॥६॥न मनोताऽऽवर्त्तेतेत्येके
॥७॥तेषां सलिङ्गाः प्रैषाः
॥८॥तेष्वग्नीषोमयोः स्थाने या या पशुदेवता
॥९॥छागस्थान उस्रो गौर्मेषोऽविको हयोऽश्वोऽन्वादेशे व्यक्तचोदनां
॥१०॥एवं वनस्पतिस्विष्टकृत्सूक्तवाकप्रैषेषु
॥११॥प्राजापत्ये त्वग्निचित्या संयुक्ते वायव्यं पशुपुरोडाशं । एके वायव्ये प्राजापत्यं । तेन पशुदेवता वर्धत इत्याचार्याः पुरोडाशतत्प्रधानत्वात्
॥१२॥पुरोडाशनिगमेषु पुरोडाशवद्धवींष्याज्यवर्जं येषां तेन समवत्तहोमः
॥१३॥मेधो रभीयानिति पश्वभिधाने
॥१४॥आदद्घसत् करज्जुषतामघदग्नभीदवीवृधतेति देवतानां
॥१५॥पञ्चमः खण्डः
हुतायां वपयां सब्रह्मकाश्चात्वाले मार्जयन्ते निधाय दण्डं मैत्रावरुणः
॥१॥इदमापः प्रवहत सुमित्र्या न आप ओषधयः सन्तु दुर्मित्र्यास्तस्मै सन्तु योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इति
॥२॥एतावन्मार्जनं पशौ
॥३॥तीर्थेन निष्क्रम्यासीताऽऽपुरोडाशश्रपणात्
॥४॥तेन चरित्वा स्विष्टकृता चरेयुः
॥५॥यदि त्वन्वायात्यानि तैरग्रे चरेयुः
॥६॥न तु तेषां निगमेष्वनुवृत्तिः
॥७॥नान्येषामूर्द्ध्वमावाहनादुत्पन्नानां
॥८॥ऊर्ध्वमिडायाः
॥१०॥षष्ठः खण्डः
मनोतायै सम्प्रेषितस्त्वं ह्यग्ने प्रथम इत्यन्वाह
॥१॥हविषा चरन्ति
॥२॥तत्र प्रैषेकतर एवाग्नीषोमावेवमित्यैतरेयिणः
॥३॥अन्यत्र द्विदेवतान्मैत्रावरुणदेवते च
॥४॥तथा दृष्टत्वा
॥५॥प्रकृत्या गाणगारिः
॥६॥उपन्नानां स्मृत आम्नायेऽनर्थभेदे निरर्थो विकारः
॥७॥याज्याया अन्तरार्धर्चौ वसाहोम आरमेत्
॥८॥वनस्पतिना चरन्ति । प्रैषमभितो याज्यानुवाक्ये
॥९॥यत्राग्नेराज्यस्य हविष इत्यत्राज्यभागौ
॥१०॥अयाडग्निरग्नेराज्यस्य हविष इति स्विष्टकृति । इडामुपहूयानुयाजैश्चरन्ति
॥११॥तेषां प्रैषास्तृतीयं प्रैषसूक्तमेकादशेह
॥१२॥प्रागुत्तमा द्वावावपेत । देवो वनस्पतिर्वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनां वसुवने वसुधेयस्य वेत्विति
॥१३॥अनवानं प्रेष्यति । अनवानं यजति
॥१४॥उक्तमुत्तमे
॥१५॥सूक्त वाक प्रैषे पूर्वस्मिन्न् निगमे गृह्णन्न् इत्य् अत्र आज्य भागौ
॥१६॥बध्नन्न् अमुष्मा अमुम् बध्नन्न् अमुष्मा अमुम् इति पशूंश् च देवताश् च
॥१७॥देवताश्चैवैकपशुकाः
॥१८॥पशूंश्चैवैकदेवतान्
॥१९॥उत्तर आज्येनेत्याज्यभागौ । अमुष्मा अमुनेति पूर्वेणोक्तं
॥२०॥समाप्य प्रैषमग्नौ दण्डमनुप्रहरेदनवभृथे
॥२१॥अवभृथेऽन्यत्र
॥२२॥कृताकृतं वेदस्तरणं । तीर्थेन निष्क्रम्याग्निपशुकेतनान्यव्यवयन्तो हृदयशूलमुपोयमानमनुमन्त्रयेरञ्छुगसि योऽस्मान द्वेष्टि यञ्च वयं द्विष्मस्तमभिशोचेति
॥२३॥तस्योपरिष्टादप उपस्पृशन्ति । द्वीपे राज्ञो वरुणस्य गृहो मितो हिरण्ययः । स नो धृतव्रतो राजा धाम्नो धाम्न इह मुञ्चतु । धाम्नो धाम्नो राजन्नितो वरुण नो मुञ्च । यदापो अघ्न्या इति वरुणेति शपामह ततो वरुण ना मञ्च । मैवापो मोषधीर्हिंसीरतो विश्वव्यचा अभूस्त्वेतो वरुण नो मुञ्च । सुमित्र्या न आप ओषधयः सन्त्विति च
॥२४॥अस्पृष्ट्वाऽनवेक्षमाणा असंस्पृशन्तः प्रत्यायन्तः समिधः कुर्वते तिस्रस्तिस्र एकैकः
॥२५॥अग्नेः समिदसि तेजोऽसि तेजो मे देहीति प्रथमां । एधोऽस्येधिषीमहीति द्वितीयां । समिदसि समेधिषीमहीति तृतीयां
॥२६॥एत्योपतिष्ठन्त आपो अद्यान्वचारिषमिति । ततः समिधोऽभ्यादधति यथागृहीतमग्नेः समिदसि तेजोऽसि तेजो मेऽदाः स्वाहा । सोमस्य समिदसि दुरिष्टेर्मा पाहि स्वाहा । पितॄणां समिदसि मृत्योर्मा पाहि स्वाहेति
॥२७॥ततः संस्थाजप इति पशुतन्त्रं
॥२८॥सप्तमः खण्डः
प्रदानानामुक्ताः प्रैषाः
॥१॥तेषां याज्यानुवाक्याः
॥२॥सर्वेषामग्रेऽग्रेऽनुवाक्यास्ततो याज्याः
॥३॥दैवतेन पशुनानात्वं
॥४॥अग्ने नय सुपथा राये अस्मानिति द्वे पाहि नो अग्ने पायुभिरजस्रैः प्र वः शुक्राय भानवे भरध्वं यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः
॥५॥एका चेतत् सरस्वती नदी नामुस्या नः सरस्वती जुषाणा सरस्वत्यभि नो नेषिवस्यः प्र क्षोदसा धायसा सस्र एषा पावीरवी कन्या चित्रायर्यस्ते स्तनः शशयो यो मयोभूः
॥६॥त्वं सोम प्रचिकितो मनीषेति द्वे त्वन्नः सोम विश्वतो वयोधा या ते धामानि दिवि या पृथिव्यामषाल्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजन्ति
॥७॥यास्ते पूषन्नावो अन्तः समुद्र इति द्वे पूषेमा आशा अनुवेद सर्वाः शुक्रन्ते अन्यद्यजतन्ते अन्यत् प्र पथे पथामजनिष्ट पूषा पथस्पथः परि पतिं वचस्या
॥८॥बृहस्पते या परमा परावदिति द्वे बृहस्पते अतियदर्यो अर्हात् तमृत्विया उप वाचः सचन्ते संयंस्तुभोऽवनयो नयन्त्येवापित्रे विश्वदेवाय वृष्णे
॥९॥विश्वे अद्य मरुतो विश्वऊत्या नो देवानामुपवेतु शंस आ नो विश्व आस्क्रागमन्तु देवा विश्वेदेवाः शृणुतेमं हवं मे ये के च ज्यामहिनो अहिमाया अग्ने याहि दृत्यं मारिषण्यः
॥१०॥इन्द्रं नरो नेमधिता हवन्त इति तिस्र उरुन्नो लोकमनुनेषि विद्वान् प्रससाहिषे पुरुहूत शत्रून् स्वस्तये वाजिभिश्च प्रणेतः
॥११॥शुची वो हव्या मरुतः शुचीनां नूस्थिरं मरुतो वीरिवन्तमा वो होता जोहवीति सत्तः प्र चित्रमर्कं गृणते तुरायाराइवेदचरमा अहेव या वः शर्म शशमानाय सन्ति
॥१२॥आ वृत्रहणा वृत्रहभिः शुष्मैराभरतं शिक्षतं वज्रबाहू उभा वामिन्द्राग्नी आहुवध्यै शुचिन्नु स्तोमन्नवजातमद्य गीर्भिर्विप्र प्रमतिमिच्छमानः प्रचर्षणिभ्यः पृतना हवेषु
॥१३॥आ देवो यातु सविता सुरत्नः सघानो देवः सविता सहावेति द्वे उदीरय कवितमं कवीनां भगन्धियं वाजयन्तः पुरन्धिमिति द्वे
॥१४॥अव सिन्धुम् वरुणो द्यौर् इव स्थाद् अयम् सु तुभ्यम् वरुण स्वधाव एवा वन्दस्व वरुणम् बृहन्तम् तत् त्वा यामि ब्रह्मणा वन्दमान इति द्वे अस्तभ्नाद् द्याम् असुरो विश्व वेदा इत्य् ऐकादशिनः
॥१५॥अष्टमः खण्डः
अग्नीषोमाविमं सु मे युवमेतानि दिवि रोचनानीति तृचाव् आवां मित्रावरुणा हव्यजुष्टिमायातं मित्रावरुणा सुशस्त्या आ नो मित्रावरुणा हव्यजुष्टिं युव वस्त्राणि पीवसा वसाथे प्र बाहवा सिसृतं जीवसेनो यद्वंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्त्तताग्र इति षट् प्राजापत्याश्चित्रं देवानामुदगादनीकमिति पञ्च शन्नो भव चक्षसा शन्नो अह्ना वायो भूष शुचिपा उप नः प्रयाभिर्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनीभिरध्वरं पीवो अन्नाँ रयिवृधः सुमेधा रायेऽनुयं जज्ञतू रोदसी मे प्र वायुमछा बृहती मनीषा तव वायवृतस्य ते त्वां हि सुप्सरस्तममिति द्वे कुविदङ्ग नमसा ये वृधास ईशानाय प्र हुतिं यस्त आनट् प्र वो वायुं रथयुजं कृणुध्वं उत त्वामदिते मह्यनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसं महीमूषु मातरं सुव्रतानामदितिर्द्यौरदितिरन्तरिक्षं न ते विष्णो जायमानो न जातस्त्वं विष्णो सुमतिं विश्वजन्यां विचक्रमे पृथिवीमेष एतान्त्रिर्देवः पृथिवीमेष एतां परोमात्रया तन्वा वृधानेरावती धेनुमती हि भूतं विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः किंस्विदासीदधिष्ठानं यो नः पिता जनिता यो विधाता या ते धामानि परमाणि यावं आ य इमे द्यावापृथिवी जनित्री तन्नस्तुरीयमथ पोषयित्नु देवस्त्वष्टा सविता विश्वरूपो देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः प्रथमभाजं यशसं वयोधां सोमापूषणा जनना रयीणामिति सूक्तं आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यो घृतस्नूस्त आदित्यास उरवो गभीरा इमं स्तोमं सक्रतवो मे अद्य तिस्रो भूमीर्धारयन्त्रीरुत द्यून्न दक्षिणा विचिकितेन सव्या मही द्यावापृथिवी इह ज्येष्ठे ऋतं दिवे तदवोचं पृथिव्या इति द्वे प्र द्यावा यज्ञैः पृथिवी नमोभिरिति द्वे प्र द्यावायज्ञैः पृथिवी ऋतावृधा मृडानो रुद्रोतनोमयस्कधीति द्वे आ ते पितर्मरुतां सुम्नमेतु प्र बभ्रवे वृषभाय श्विती च इति तिस्रः आ पश्चातान्नासत्या पुरस्तादागोमता नासत्या रथेनेति चतस्रो हिरण्यत्वङ्मधुवर्णो घृतस्नुः अभि क्रत्वेन्द्रभूरध ज्मस्त्वं महाँ इन्द्र तुभ्यं रुक्षाः सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानु पुरुहूत क्षियन्तं स्तुत इन्द्रो मघवा यद्ध वृत्रैवावस्व इन्द्रःसत्यः सम्राड् यद्वाग्वदन्त्यविचेतनानि पतङ्गो वाचं मनसा बिभर्त्ति चत्वारि वाक्परिमिता पदानि यज्ञेन वाचः पदवीयमायन्निति द्वे देवीं वाचमजनयन्त देवाः जनीयन्तोऽन्वग्रव इति तिस्रो दिव्यं सुपर्णं वायसं बृहन्तं स वावृधेनर्यो योषणासु यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रतमुपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम पशुकर्मोपसंहारनिर्देशः सौम्याश्च निर्मिताश्च
॥१॥इति पशवः
॥२॥सौम्याश् च निर्मिताश् च
॥३॥निर्मित ऐन्द्राग्नः
॥४॥षाण्मास्यः सांवत्सरो वा
॥५॥प्राजापत्य उपांशु सावित्र सौर्य वैष्णव वैश्वकर्मणाश् च एतेषाम् तत्र उपांशु याज विकारान् वक्ष्यामः
॥६॥प्रैष आदिर् आगुर् अस्थाने
॥७॥आदद् घसत् करद् इति च एतानि यथा स्थानम् उपांशु
॥८॥नवमः खण्डः
सौत्रामण्यां
॥१॥आश्विनसारस्वतैन्द्राःपशवः । बार्हस्पत्यो वा चतुर्थः । ऐन्द्रसावित्रवारुणाः पशुपुरोडाशाः
॥२॥मार्जयित्वा युवं सुराममश्विनेति ग्रहाणां पुरोनुवाक्या । होता यक्षदश्विना सरस्वतीमिन्द्रं सुत्रामाणं सोमानां सुराम्णाञ्जुषन्तां व्यन्तु पिवन्तु मदन्तु सोमान् सुराम्णो होतर्यजेति प्रैषः । पुत्रमिव पितरावश्विनोभेति याज्या
॥३॥अग्ने वीहीत्यनुवषट्कारः सुरासुतस्याग्ने वीहीति वा । नाना हि वां देवहितं सदस्कृतं मासं सृक्षाथां परमे व्योमनि । सुरा त्वमसि शुष्मिणीति सुरामवेक्ष्याधो बाहू सोम एष इति सोमं
॥४॥यदत्र रिप्तं रसिनः सुतस्य यदिन्द्रोअपिवछचीभिः । इदं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति भक्षजपः
॥५॥प्राणभक्षोऽत्र
॥६॥दशमः खण्डः
विध्यपराधे प्रायश्चित्तिः
॥१॥शिष्टाभावे प्रतिनिधिः
॥२॥अन्वाहिताग्नेः प्रयाणोपपत्तौ पृथगग्नीन्नयेयुः
॥३॥तुभ्यन्ता अङ्गिरस्तमेति वाऽऽज्याहुतिं हुत्वा समारोपयत्
॥४॥अयं ते योनिरृत्वियत्यरणी गार्हपत्ये प्रतितपेत्
॥५॥पाणी वायाते अग्ने यज्ञिया तनूस्तयेह्यारोहात्मात्मानम छावसूनि कृण्वन्नर्यापुरूणि । यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति
॥६॥एवमनन्वाहिताग्निरहुत्वा
॥७॥यदि पाण्योररणी संस्पृश्य मन्थयेत् प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । प्रजां पुष्टिं रयिमस्मासु धेह्यथाभव यजमानाय शंयोरिति
॥८॥आहवनीयमवदीप्यमानमर्वाक् शम्यापरासादिदन्त एकम्पर ऊत एकमिति संवपेत्
॥९॥यदि त्वतीयाद्यद्यमावास्यां पौर्णमासीं वातीयाद्यदि वाऽन्यस्याग्निषु यजेत यदि वास्यान्योऽग्निषु यजेत यदि वास्यान्योऽग्निरग्नीन् व्यवेयाद्यदि वास्याग्निहोत्र उपसन्ने हविषि वा निरुप्ते चक्रीवच्छ्वा पुरुषो वा विहारमन्तरियाद्यदि वाध्वे प्रमीयेतेष्टिः
॥१०॥अग्निः पथिकृत्
॥११॥वेत्था हि वेधो अध्वन आ देवानामपि पन्थामगन्मेति । अनड्वान् दक्षिणा
॥१२॥व्यवाये त्वनग्निना प्रागिष्टेर्गामन्तरेणातिक्रमयेत्
॥१३॥भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्विचक्रम इति
॥१४॥गार्हपत्याहवनीययोरन्तरं भस्मराज्योदकराज्या च सन्तनुयात्तन्तु तन्वन्रजसो भानुमन्विहीति
॥१५॥अनुगमयित्वा चाहवनीयम्पुनः प्रणीयोपतिष्ठेत । यदग्ने पूर्वं प्रहितं पदं हिते सूर्यस्य रश्मीनन्वाततान । तत्र रयिष्ठामनुसम्भवतां सं नः सृज सुमत्या वाजवत्या । त्वमग्ने सप्रथा असीति च
॥१६॥अध्वे प्रमीतस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रं तूष्णीं सर्वहुतं जुहुयुरासमवायात्
॥१७॥यद्याहिताग्निरपरपक्षे प्रमीयेताहुतिभिरेनं पूर्वपक्षं हरेयुः
॥१८॥हविषां व्यापत्ता ओल्हासु देवतास्वाज्येनेष्टिं समाप्य पुन रिज्या
॥१९॥व्यापन्नानि हवींषि केशनखकीटपतङ्गैरन्यैर्वा बीभत्सैः
॥२०॥भिन्नसिक्तानि च
॥२१॥अपोऽभ्यवहरेयुः
॥२२॥प्रजापते न त्वदेतान्यन्य इति च वल्मीकवपायां वा सान्नाय्यं मध्यमेन पलाशपर्णेन जुहुयात्
॥२३॥विष्यन्दमानं मही द्यौः पृथिवी च न इत्यन्तः परिधिदेशे निर्वपेयुः
॥२४॥अन्यतरादोषे व्यासिच्य प्रचरेयुः
॥२५॥पुरोडाशं वा तत्स्थाने
॥२६॥उभयदोष ऐन्द्राग्नं पञ्चशरावमोदनं
॥२७॥तयोः पृथक् प्रचर्या
॥२८॥ऐन्द्रमेवेत्येके
॥२९॥वत्सानाधाने वायवे यवागूं
॥३०॥अग्निहोत्रमधिश्रितं स्रवदभिमन्त्रयेत । गर्भं स्रवन्तमगदमकर्माग्निर्होता पृथिव्यन्तरिक्षं यतश्चुतदग्नावेव तन्नाभिप्राप्नोति निरृतिम्परस्तादिति
॥३१॥एकादशः खण्डः
यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत्तामभिमन्त्रयेत । यस्माद्भीषा निषीदसि ततो नो अभयं कृधि । पशून्नः सर्वान् गोपाय नमो रुद्राय मील्हुष इति
॥१॥अथैनामुत्थापयेदुदस्थाद्देव्यदितिरायुर्यज्ञपतावधात् । इन्द्राय कृण्वतो भागं मित्राय वरुणाय चेति
॥२॥अथास्या ऊधसि च मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा ब्राह्मणं पाययेद्यस्याभोक्ष्यन्त्स्याद्यावज्जीवं संवत्सरं वा
॥३॥वाश्यमानायै यवसं प्रयच्छेत् सूयवसाद्भगवती हि भूया इति
॥४॥शोणितं दुग्धं गार्हपत्ये संक्षाप्यान्येन जुहुयात्
॥५॥भिन्नं सिक्तं वाऽभिमन्त्रयेत । समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अरिष्टा अस्माकं वीरा मयि गावः सन्तु गोपताविति
॥६॥यस्याग्निहोत्र्युपावसृष्टा दह्यमाना स्पन्देत सा यत् तत्र स्कन्दयेत् तदभिमृश्य जपेत् यदद्य दुग्धं पृथिवीमसृप्त यदोषधीरत्यसृपद्यदापः । पयो गृहेषु पयो अघ्र्यायां पयो वत्सेषु पयो अस्तु तन्मयीति
॥७॥तत्र यत् परिशिष्टं स्यात् तेन जुहुयात्
॥८॥अन्येन वाभ्यानीय
॥९॥एतद्दोहनाद्याप्राचीनहरणात्
॥१०॥प्रजापतेर्विश्वभृति तन्वं हुतमसीति तत्र स्कन्नाभिमर्शनं
॥११॥शेषेण जुहुयात्
॥१२॥पुनरुन्नीयाशेषे
॥१३॥आज्यमशेषे
॥१४॥एतदाहोमात्
॥१५॥वारुणीं जपित्वा वारुण्या जुहुयात्
॥१६॥अनशनमान्यस्माद्धोमकालात्
॥१७॥पुनर्होमञ्च गाणगारिः
॥१८॥अग्निहोत्रं शरशरायत् समोषामुमिति द्वेष्टारमुदाहरेत्
॥१९॥विष्यन्दमानं मही द्यौः पृथिवी च न इत्याहवनीयस्य भस्मान्ते निनयेत्
॥२०॥सान्नाय्यवद्बीभत्से
॥२१॥अभिवृष्टे मित्रो जनान्यातयति ब्रुवाण इति समिदाधानं
॥२२॥यत्र वेत्थ वनस्पत इत्युत्तरस्या आहुत्याः स्कन्दने
॥२३॥द्वादशः खण्डः
प्रदोषान्तो होमकालः
॥१॥सङ्गवान्तः प्रातः
॥२॥तमतिनीय चतुर्गृहीतमाज्यं जुहुयात्
॥३॥यदि सायं दोषा वस्तर्नमः स्वाहेति । यदि प्रातः प्रातर्वस्तर्नमः स्वाहेति । अग्निहोत्रमुपसाद्य भूर्भुवः स्वरिति जपित्वा वरं दत्त्वा जुहुयात्
॥४॥इष्टिश्च वारुणी
॥५॥हुत्वा प्रातर्वरदानं
॥६॥अनुगमयित्वा चाहवनीयं पुनः प्रणयेदिहैव क्षेम्य एधि मा प्रहासीरमुम्मामुष्यायणमिति
॥७॥तत इष्टिर्मित्रः सूर्यः
॥८॥अभि यो महिनां दिवं प्र स मित्रमर्त्तो अस्तु प्रयस्वानिति संस्थितायां पत्न्या सह वाग्यतोऽग्नीन् ज्वलतोऽहरनश्नन्नुपासीत
॥९॥द्वयोर्दुग्धेन वासेऽग्निहोत्रं जुहुयात्
॥१०॥अधिश्रितेऽन्यस्मिन् द्वितीयमवनयेत्
॥११॥प्रातरिष्टिः
॥१२॥अग्निर्व्रतभृत्
॥१३॥त्वमग्ने व्रतभृच्छुचिरग्ने देवाँ इहावह । उप यज्ञं हविश्च नः । व्रतानि बिभ्रद्व्रतपा अदब्धो यजानो देवाँ अजरः सुवीरः । दधद्रत्नानि सुमृलीको अग्ने गोपायनो जीवसे जातवेद इति
॥१४॥एषैवार्त्त्याश्रुपाते
॥१५॥यद्याहवनीयमप्रणीतमभ्यस्तमियाद्बहुविद्ब्राह्मणोऽग्निं प्रणयेत् दर्भैर्हिरण्येऽग्रतो ह्रियमाणे
॥१६॥अभ्युदिते चतुर्गृहीतमाज्यं रजतञ्च हिरण्यवदग्रतो हरेयुः
॥१७॥अथैतदाज्यं जुहुयात् पुरस्तात् प्रत्यङ्मुख उपविश्योषाः केतुना जुषतां स्वाहेति
॥१८॥कालात्ययेन शेषः
॥१९॥न त्विहाग्निरनुगम्यः
॥२०॥आहवनीये चेद्ध्रियमाणे गार्हपत्योऽनुगच्छेत् स्वेभ्य एनमवक्षामेभ्यो मन्थेयुरनुगमयेत्त्वितरं
॥२१॥क्षामाभावे भस्मनाऽरणी संस्पृश्य मन्थयेदितो जज्ञे प्रथममेभ्यो योनिभ्यो अधिजातवेदाः । सा गायत्र्या त्रिष्टुभा जगत्याऽनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन्निति
॥२२॥मथित्वा प्रणीयाहवनीयमुपतिष्ठेताग्ने सम्राडिषे राये रमस्व सहसे द्युम्नायोर्जेऽपत्याय । सम्राडसि स्वराडसि सारस्वतौ त्वोत्सौ प्रावतामन्नादं त्वान्नपत्यायादध इति
॥२३॥अत एवैके प्रणयन्त्यन्वाहृत्य दक्षिणं
॥२४॥सहभस्मानं वा गार्हपत्यायतने निधायाथ प्राञ्चमाहवनीयमुद्धरेत्
॥२५॥तत इष्टिरग्निस्तपस्वान् जनद्वान् पावकवान्
॥२६॥आयाहि तपसा जनेष्वग्ने पावको अर्चिषा । उपेमां सुष्टुतिं मम । आ नो याहि तपसा जनेष्वग्ने पावक दीद्यत् । हव्या देवेषु नो दधदिति । प्रणीतेऽनुगते प्राग्घोमादिष्टिः
॥२७॥अग्निर्ज्योतिष्मान् वरुणः
॥२८॥उदग्ने शुचयस्तवाग्रे बृहन्नुषसामूर्ध्वो अस्थादिति सर्वांश्चदनुगतानादित्योऽभ्युदियाद्वाभ्यस्तमियाद्वाग्न्याधेयं पुनराधय वा
॥२९॥समारूल्हेषु चारणीनाशे
॥३०॥त्रयोदशः खण्डः
अथाग्नेय्य इष्टयः
॥१॥व्रतातिपत्तौ व्रतपतये
॥२॥साग्नावग्निप्रणयनेऽग्निवते
॥३॥क्षामायागारदाहे । शुचये संसर्जनेऽग्निनान्येन
॥४॥मिथश्चेद्विविचये
॥५॥गार्हपत्याहवनीययोर्वीतये
॥६॥ग्राम्येण संवर्गाय
॥७॥वैद्युतेऽप्सुमते । वैश्वानराय विमतानामन्नभोजने
॥८॥एषैव कपाले नष्टेऽनुद्वासिते
॥९॥अभ्याश्राविते वा
॥१०॥सुरभय एव यस्मिञ्जीवे मृतशब्दः
॥११॥त्वमग्ने व्रतपा असि यद्वो वयं प्रमिनाम व्रतान्यग्निनाग्निः समिध्यते त्वं ह्यग्ने अग्निनाग्ने त्वमस्मद्युयोध्यमीवा अक्रन्ददग्निस्तनयन्निव द्यौर्वि ते विष्वग्वातजूतासो अग्ने त्वामग्ने मानुषीरीडते विशोऽग्न आयाहि वीतये यो अग्निं देववीतये कुवित्सु नो गविष्टये मा नो अस्मिन् महाधनेऽप्स्वग्ने सधिष्टव यदग्ने दिविजा अस्यग्निर्होता न्यसीदद्यजीयात् साध्वीमकर्देववीतिन्नो अठ्येति । यस्य भार्या गौर्वा यमौ जनयेदिष्टिर्मरुतः
॥१२॥सान्नाय्ये पुरस्ताच्चन्द्रमसाभ्युदितेऽग्निर्द्दातेन्द्रः प्रदाता विष्णुः शिपिविष्टः
॥१३॥अग्नेदा दाशुषे रयिं सयन्ता विप्र एषां दीर्घस्ते अस्त्वङ्कुशो भद्रा ते हस्ता सुकृतोत पाणी वषट् ते विष्णवास आकृणोमि प्र तत्ते अद्य शिपिविष्टनामेति । अपि वा प्रायश्चित्तेष्टीनां स्थाने तस्यै तस्यै देवतायै पूर्णाहुतिं जुहुयादिति विज्ञायते
॥१४॥हविषां स्कन्नमभिमृशेद्देवा जनमगन् यज्ञस्तस्य माशीरवतु वर्धतां । भूतिर्घृतेन मुञ्चतु यज्ञो यज्ञपतिमंहसः । भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा । यज्ञस्य त्वा प्र मयोन्मयाऽभि मया प्रति मया द्रप्सश्च स्कन्देति
॥१५॥आहुतिश्चेद्बहिष्परिध्याग्नीध्र एनां जुहुयात्
॥१६॥हुतवते पूर्णपात्रं दद्यात्
॥१७॥देवते अनुवाक्ये याज्ये वा विपरिहृत्याज्ये अवदाने हविषी वा यद्वो देवा अतिपातयानि वाचा च प्रयुती देवहेडनं । अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तन्निधेतन स्वाहेत्याज्याहुतिं हुत्वा मुख्यं धनं दद्यात्
॥१८॥स्थानिनीमनावाह्य देवतामुपोत्थायावाहयेत्
॥१९॥मनसेत्येके । आज्येनास्थानिनीं यजेत्
॥२०॥चतुर्दशः खण्डः
हविषि दुःशृते चतुःशरावमोदनं ब्राह्मणान् भोजयेत्
॥१॥क्षामे शिष्टेनेष्ट्वा पुनर्यजेत
॥२॥अशेषे पुनरावृत्तिः
॥३॥प्रागावाहनाच्च दोषे
॥४॥अप्यत्यन्तं गणभूतानां
॥५॥प्राक् स्विष्टकृत उक्तं प्रधानभूतानां
॥६॥अवदानदोषे पुनरायतनादवदानं
॥७॥द्वेष्ट्रे त्विह दक्षिणां दद्यात्
॥८॥दक्षिणादान उर्वरां दद्यात्
॥९॥कपालं भिन्नमनपवृत्तकर्म गायत्र्या त्वा शताक्षरया सन्दधामीति सन्धायापोऽभ्यवहरेयुरभिन्नो घर्मो जीरदानुर्यत आर्त्तस्तदगन् पुनः । इध्मो वेदिः परिधयश्च सर्वे यज्ञस्यायुरनुसन्तरन्तु । त्रयस्त्रिंशत्तन्तवो यान्वितन्वत इमं यज्ञं स्वधया ये यजन्ते । तेऽभिच्छिद्रं प्रतिदध्मो यजत्र स्वाहा यज्ञो अप्येतु देवानिति
॥१०॥एवमवलील्हाभिक्षिप्तेषु
॥११॥अप एवान्यानि मृण्मयानि भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति
॥१२॥यदि पुरोडाशः स्फुटेद्वोत्पतेत वा बर्हिष्येनं निधायाभिमन्त्रयेत किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि । अघोरो यज्ञियो भूत्वासीद सदनं स्वमासीद सदनं स्वमिति । मा हिंसीर्देवप्रेरित आज्येन तेजसाऽऽज्यस्वमानः किञ्चनरीरिषः । योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषीति
॥१३॥अग्निहोत्राय कालेऽग्नावजायमानेऽप्यन्यमानीय जुहुयुः
॥१४॥पूर्वालाभ उत्तरोत्तरं
॥१५॥ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेषु पृथिव्यां
॥१६॥हुत्वा त्वपि मन्थनं
॥१७॥पाणौ चेद्वासेऽनवरोधः
॥१८॥कर्णे चेन्मांसवर्जनं
॥१९॥स्तम्बे चेन्नाधिशयीत
॥२०॥अप्सु चेदविवेकः
॥२१॥एतत्सांवत्सरं व्रतं यावज्जीविकं वा
॥२२॥अग्नावनुगतेऽन्तराहुती । हिरण्य उत्तरां जुहुयाद्धिरण्य उत्तरां जुहुयात्
॥२३॥