दुःस्वप्नं यदि पश्येत्तु वान्ते तु क्षुरकर्मणि
मैथुने प्रेतधूमे च स्नानमेव विधीयते
॥१॥अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः
॥२॥अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च
निवर्तन्ते द्विजातीनां पुनः संस्कारकर्मणि
॥३॥विण्मूत्रभोजी शुध्यर्थं प्राजापत्यं समाचरेत्
पञ्चगव्यं च कुर्वीत स्नात्वा पीत्वा शुचिर्भवेत्
॥४॥जलाग्निपतने चैव प्रव्रज्यानाशकेषु च
प्रत्यावसितवर्णानां कथं शुद्धिर्विधीयते
॥५॥प्राजापत्यद्वयेनैव तीर्थाभिगमनेन च
वृषैकादशदानेन वर्णाः शुध्यन्ति ते त्रयः
॥६॥ब्राह्मणस्य प्रवक्ष्यामि वनं गत्वा चतुष्पथे
सशिखं वपनं कृत्वा प्राजापत्यद्वयं चरेत्
॥७॥गोद्वयं दक्षिणां दद्याच्छुद्धिं स्वायंभुवोऽब्रवीत्
मुच्यते तेन पापेन ब्राह्मणत्वं च गच्छति
॥८॥स्नानानि पञ्च पुण्यानि कीर्तितानि मनीषिभिः
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च
॥९॥आग्नेयं भस्मना स्नानमवगाह्य तु वारुणम्
आपो हि ष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम्
॥१०॥यत्तु सातपवर्षेण तत्स्नानं दिव्यमुच्यते
तत्र स्नात्वा तु गङ्गायां स्नातो भवति मानवः
॥११॥स्नातुं यान्तं द्विजं सर्वे देवाः पितृगणैः सह
वायुभूतास्तु गच्छन्ति तृषार्ताः सलिलार्थिनः
॥१२॥निराशास्ते निवर्तन्ते वस्त्रनिष्पीडने कृते
तस्मान्न पीडयेद्वस्त्रं अकृत्वा पितृतर्पणम्
॥१३॥रोमकूपेष्ववस्थाप्य यस्तिलैर्तर्पयेत्पितॄन्
पितरस्तर्पितास्तेन रुधिरेण मलेन च
॥१४॥अवधूनोति यः केशान्स्नात्वा यस्तूत्सृजेन्मलम्
आचामेद्वा जलस्थेऽपि स बाह्यः पितृदैवतैः
॥१५॥शिरः प्रावृत्त्य कण्ठं वा मुक्तकच्छशिखोऽपि वा
विना यज्ञोपवीतेन आचान्तोऽप्यशुचिर्भवेत्
॥१६॥जले स्थलस्थो नाचामेज्जलस्थश्च बहिःस्थले
उभे स्पृष्ट्वा समाचान्त उभयत्र शुचिर्भवेत्
॥१७॥स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे
आचान्तः पुनराचामेद्वासो विपरिधाय च
॥१८॥क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथानृते
पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत्
॥१९॥प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा
विप्रस्य दक्षिणे कर्णे सन्तीति मनुरब्रवीत्
॥२०॥अग्निरापश्च वेदाश्च सोमसूर्यानिलास्तथा
सर्व एव तु विप्रस्य श्रोत्रे तिष्ठन्ति दक्षिणे
॥२१॥भास्करस्य करैः पूतं दिवा स्नानं प्रशस्याते
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात्
॥२२॥स्नानं दानं जपो होमः कर्तव्यो राहुदर्शने
अन्यदा त्वशुची रात्रिस्तस्मात्तां परिवर्जयेत्
॥२३॥मरुतो वसवो रुद्रा आदित्याश्चैव देवताः
सर्वे सोमे प्रलीयन्ते तस्माद्दानं तु तद्ग्रहे
॥२४॥खलयज्ञे विवाहे च संक्रान्तौ ग्रहणे तथा
शर्वर्यां दानमस्त्येव नान्यत्रैव विधीयते
॥२५॥पुत्रजन्मनि यज्ञे च तथा चात्ययकर्मणि
राहोश्च दर्शने दानं प्रशस्तं नान्यदा निशि
॥२६॥महानिशा तु विज्ञेया मध्यस्थं प्रहरद्वयम्
प्रदोषपश्चिमौ यामौ दिनवत्स्नानमाचरेत्
॥२७॥चैत्यवृक्षश्चितिर्यूपश्चण्डालः सोमविक्रयी
एतांस्तु ब्राह्मणः स्पृष्ट्वा सवासा जलमाविशेत्
॥२८॥अस्थिसंचयनात्पूर्वं रुदित्वा स्नानमाचरेत्
अन्तर्दशाहे विप्रस्य ह्यूर्ध्वमाचमनं भवेत्
॥२९॥सर्वं गङ्गासमं तोयं राहुग्रस्ते दिवाकरे
सोमग्रहे तथैवोक्तं स्नानदानादिकर्मसु
॥३०॥कुशैः पूतं तु यत्स्नानं कुशेनोपस्पृशेद्द्विजः
कुशेन चोद्धृतं तोयं सोमपानसमं भवेत्
॥३१॥अग्निकार्यात्परिभ्रष्टाः संध्योपासनवर्जिताः
वेदं चऐवानधीयानाः सर्वे ते वृषलाः स्मृताः
॥३२॥तस्माद्वृषलभीतेन ब्राह्मणेन विशेषतः
अध्येतव्योऽप्येकदेशो यदि सर्वं न शक्यते
॥३३॥शूद्रान्नरसपुष्टस्याप्यधीयानस्य नित्यशः
जपतो जुह्वतो वापि गतिरूर्ध्वा न विद्यते
॥३४॥शूद्रान्नं शूद्रसंपर्कः शूद्रेण तु सहासनम्
शूद्राज्ज्ञानागमश्चैव ज्वलन्तमपि पातयेत्
॥३५॥यः शूद्र्या पाचयेन्नित्यं शूद्री च गृहमेधिनी
वर्जितः पितृदेवेभ्यो रौरवं याति स द्विजः
॥३६॥मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजनः
अहं तन्न विजानामि कां कां योनिं गमिष्यति
॥३७॥गृध्रो द्वादशजन्मानि दशजन्मानि सूकरः
श्वयोनौ सप्तजन्मा स्यादित्येवं मनुरब्रवीत्
॥३८॥दक्षिणार्थम्तु यो विप्रः शूद्रस्य जुहुयाद्धविः
ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत्
॥३९॥मौनव्रतं समाश्रित्य आसीनो न वदेद्द्विजः
भुञ्जानो हि वदेद्यस्तु तदन्नं परिवर्जयेत्
॥४०॥अर्धे भुक्ते तु यो विप्रस्तस्मिन्पात्रे जलं पिबेत्
हतं दैवं च पित्र्यं च आत्मानं चोपघातयेत्
॥४१॥भुञ्जानेषु तु विप्रेषु योऽग्रे पात्रं विमुञ्चति
स मूढः स च पापिष्ठो ब्रह्मघ्नः स खलूच्यते
॥४२॥भाजनेषु च तिष्ठत्सु स्वस्तिकुर्वन्ति ये द्विजाः
न देवास्तृप्तिमायान्ति निराशाः पितरस्तथा
॥४३॥अस्नात्वा नैव भुञ्जीता अजप्त्वाग्निमहूय च
पर्णपृष्ठे न भुञ्जीत रात्रौ दीपं विना तथा
॥४४॥गृहस्थस्तु दयायुक्तो धर्ममेवानुचिन्तयेत्
पोष्यवर्गार्थसिद्ध्यर्थं न्यायवर्ती सुबुद्धिमान्
॥४५॥न्यायोपार्जितवित्तेन कर्तव्यं ह्यात्मरक्षणम्
अन्यायेन तु यो जीवेत्सर्वकर्मबहिष्कृतः
॥४६॥अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः
दृष्टमात्राः पुनन्त्येते तस्मात्पश्येत्तु नित्यशः
॥४७॥अरणिं कृष्णमार्जारं चन्दनं सुमणिं घृतम्
तिलान्कृष्णाजिनं छागं गृहे चैतानि रक्षयेत्
॥४८॥गवां शतं सैकवृषं यत्र तिष्ठत्ययन्त्रितम्
तत्क्षेत्रं दशगणितं गोचर्मपरिकीर्तितम्
॥४९॥ब्रह्महत्यादिभिर्मर्त्यो मनोवाक्कायकर्मजैः
एतद्गोचर्मदानेन मुच्यते सर्वकिल्बिषैः
॥५०॥कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः
यद्दानं दीयते तस्मै तद्दानं शुभकारकम्
॥५१॥वापीकूपतडागाद्यैर्वाजपेयशतैर्मुखैः
गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति
॥५२॥अष्टादशदिनादर्वाक्स्नानमेव रजस्वला
अत ऊर्ध्वं त्रिरात्रं स्यादुशना मुनिरब्रवीत्
॥५३॥युगं युगद्वयं चैव त्रियुगं च चतुर्युगम्
चाण्डालसूतिकोदक्यापतितानामधः क्रमात्
॥५४॥ततः संनिधिमात्रेण सचैलं स्नानमाचरेत्
स्नात्वावलोकयेत्सूर्यमज्ञानात्स्पृशते यदि
॥५५॥विद्यमानेषु हस्तेषु ब्राह्मणो ज्ञानदुर्बलः
तोयं पिबति वक्त्रेण श्वयोनौ जायते ध्रुवम्
॥५६॥यस्तु क्रुद्धः पुमान्ब्रूयाज्जायायास्तु अगम्यताम्
पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत्
॥५७॥श्रान्तः क्रुद्धस्तमोऽन्धो वा क्षुत्पिपासाभयार्दितः
दानं पुण्यमकृत्वा तु प्रायश्चित्तं दिनत्रयम्
॥५८॥उपस्पृशेत्त्रिषवणं महानद्युपसंगमे
चीर्णान्ते चैव गां दद्याद्ब्राह्मणान्भोजयेद्दश
॥५९॥दुराचारस्य विप्रस्य निषिद्धाचरणस्य च
अन्नं भुक्त्वा द्विजः कुर्याद्दिनमेकमभोजनम्
॥६०॥सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः
भुक्त्वान्नं मुच्यते पापादहोरात्रान्तरान्नरः
॥६१॥ऊर्ध्वोच्छिष्टमधोच्छिष्टमन्तरिक्षमृतौ तथा
कृच्छ्रत्रयं प्रकुर्वीत अशौचमरणे तथा
॥६२॥कृच्छ्रं देव्ययुतं चैव प्राणायामशतद्वयम्
पुण्यतीर्थेऽनार्द्रशिरः स्नानं द्वादशसंख्यया
॥६३॥द्वियोजने तीर्थयात्रा कृच्छ्रमेकं प्रकल्पितम्
गृहस्थः कामतः कुर्याद्रेतसः स्खलनं भुवि
॥६४॥सहस्रं तु जपेद्देव्याः प्राणायामैस्त्रिभिः सह
चतुर्विद्योपपन्नस्तु विधिवद्ब्रह्मघातके
॥६५॥समुद्रसेतुगमनं प्रायश्चित्तं विनिर्दिशेत्
सेतुबन्धपथे भिक्षां चातुर्वर्ण्यात्समाचरेत्
॥६६॥वर्जयित्वा विकर्मस्थांश्छत्रोपानद्विवर्जितः
अहं दुष्कृतकर्मा वै महापातककारकः
॥६७॥गृहद्वारेषु तिष्ठामि भिक्षार्थी ब्रह्मघातकः
गोकुलेषु वसेच्चैव ग्रामेषु नगरेषु वा
॥६८॥तपो वनेषु तीर्थेषु नदीप्रस्रवणेषु वा
एतेषु ख्यापयन्नेनः पुण्यं गत्वा तु सागरम्
॥६९॥दशयोजनविस्तीर्णं शतयोजनमायतम्
रामचन्द्रसमादिष्टनलसंचयसंचितम्
॥७०॥सेतुं दृष्ट्वा समुद्रस्य ब्रह्महत्यां व्यपोहति
सेतुं दृष्ट्वा विशुद्धात्मा त्ववगाहेत सागरम्
॥७१॥यजेत वाश्वमेधेन राजा तु पृथिवीपतिः
पुनः प्रत्यागते वेश्म वासार्थमुपसर्पति
॥७२॥सपुत्रः सह भृत्यैश्च कुर्याद्ब्राह्मणभोजनम्
गाश्चैवैकशतं दद्याच्चतुर्विध्येषु दक्षिणाम्
॥७३॥ब्राह्मणानां प्रसादेन ब्रह्महा तु विमुच्यते
सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत्
॥७४॥मद्यपश्च द्विजः कुर्यान्नदीं गत्वा समुद्रगाम्
चान्द्रायणे ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम्
॥७५॥अनडुत्सहितां गां च दद्याद्विप्रेषु दक्षिणाम्
सुरापानं सकृत्कृत्वा अग्निवर्णं सुरां पिबेत्
॥७६॥स पावयेदथात्मानमिहलोके परत्र च
अपहृत्य सुवर्णं तु ब्राह्मणस्य ततः स्वयम्
॥७७॥गच्छेन्मुसलमादाय राजाभ्याशं वधाय तु
ततः शुद्धिमवाप्नोति राज्ञासौ मुक्त एव च
॥७८॥कामतस्तु कृतं यत्स्यान्नान्यथा वधमर्हति
आसनाच्छयनाद्यानात्संभाषात्सह भोजनात्
॥७९॥संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि
चान्द्रायणं यावकं तु तुलापुरुष एव च
॥८०॥गवां चैवानुगमनं सर्वपापप्रणाशनम्
एतत्पाराशरं शास्त्रं श्लोकानां शतपञ्चकं
द्विनवत्या समायुक्तं धर्मशास्त्रस्य संग्रहः
॥८१॥यथाध्ययनकर्माणि धर्मशास्त्रमिदं तथा
अध्येतव्यं प्रयत्नेन नियतं स्वर्गगामिना
॥८२॥