मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

द्वितीयोऽध्यायः

3
मनुस्मृतिः · 2

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः

हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत

॥१॥

कामात्मता न प्रशस्ता न चैवेहास्त्यकामता

काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः

॥२॥

संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः

व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः

॥३॥

अकामस्य क्रिया का चिद्दृश्यते नेह कर्हि चित्

यद्यद्धि कुरुते किं चित्तत्तत्कामस्य चेष्टितम्

॥४॥

तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम्

यथा संकल्पितांश्चेह सर्वान्कामान्समश्नुते

॥५॥

वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च

॥६॥

यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्तितः

स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः

॥७॥

सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा

श्रुतिप्रामाण्यतो विद्वान्स्वधर्मे निविशेत वै

॥८॥

श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्हि मानवः

इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्

॥९॥

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः

ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ

॥१०॥

योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः

स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः

॥११॥

वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः

एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम्

॥१२॥

अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते

धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः

॥१३॥

श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ

उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः

॥१४॥

उदितेऽनुदिते चैव समयाध्युषिते तथा

सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः

॥१५॥

निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः

तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्य चित्

॥१६॥

सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम्

तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते

॥१७॥

तस्मिन्देशे य आचारः पारम्पर्यक्रमागतः

वर्णानां सान्तरालानां स सदाचार उच्यते

॥१८॥

कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः

एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः

॥१९॥

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः

स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः

॥२०॥

हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि

प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः

॥२१॥

आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात्

तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः

॥२२॥

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः

स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः

॥२३॥

एताण्द्विजातयो देशान्संश्रयेरन्प्रयत्नतः

शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः

॥२४॥

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता

संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत

॥२५॥

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्

कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च

॥२६॥

गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः

बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते

॥२७॥

स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः

महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः

॥२८॥

प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते

मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्

॥२९॥

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत्

पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते

॥३०॥

मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम्

वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्

॥३१॥

शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम्

वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम्

॥३२॥

स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम्

मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्

॥३३॥

चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्

षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले

॥३४॥

चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः

प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्

॥३५॥

गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्

गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः

॥३६॥

ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे

राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे

॥३७॥

आ षोदशाद्ब्राह्मणस्य सावित्री नातिवर्तते

आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः

॥३८॥

अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः

सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः

॥३९॥

नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित्

ब्राह्मान्यौनांश्च संबन्धान्नाचरेद्ब्राह्मणः सह

॥४०॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः

वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च

॥४१॥

मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला

क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी

॥४२॥

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः

त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा

॥४३॥

कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्

शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्

॥४४॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ

पैलवाउदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः

॥४५॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः

ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः

॥४६॥

ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः

अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः

॥४७॥

प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम्

प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि

॥४८॥

भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्

॥४९॥

मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम्

भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत्

॥५०॥

समाहृत्य तु तद्भैक्षं यावदन्नममायया

निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः

॥५१॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः

श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः

॥५२॥

उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः

भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत्

॥५३॥

पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्

दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः

॥५४॥

पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति

अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम्

॥५५॥

नोच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथान्तरा

न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्व चिद्व्रजेत्

॥५६॥

अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम्

अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत्

॥५७॥

ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत्

कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन

॥५८॥

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते

कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः

॥५९॥

त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम्

खानि चैव स्पृशेदद्भिरात्मानं शिर एव च

॥६०॥

अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित्

शौचेप्सुः सर्वदाचामेदेकान्ते प्रागुदङ्मुखः

॥६१॥

हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः

वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः

॥६२॥

उद्धृते दक्षिने पाणावुपवीत्युच्यते द्विजः

सव्ये प्राचीनावीती निवीती कण्ठसज्जने

॥६३॥

मेखलामजिनं दण्डमुपवीतं कमण्डलुम्

अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्

॥६४॥

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते

राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः

॥६५॥

अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः

संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्

॥६६॥

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः

पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया

॥६७॥

एष प्रोक्तो द्विजातीनामौपनायनिको विधिः

उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत

॥६८॥

उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः

आचारमग्निकार्यं च संध्योपासनमेव च

॥६९॥

अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः

ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः

॥७०॥

ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा

संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः

॥७१॥

व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः

सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः

॥७२॥

अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः

अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत्

॥७३॥

ब्रह्मनः प्रणवं कुर्यादादावन्ते च सर्वदा

स्रवत्यन्ॐकृतं पूर्वं परस्ताच्च विशीर्यति

॥७४॥

प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः

प्राणायामैस्त्रिभिः पूतस्तत ॐकारमर्हति

॥७५॥

अकारं चाप्युकारं च मकारं च प्रजापतिः

वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च

॥७६॥

त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्

तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः

॥७७॥

एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम्

संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते

॥७८॥

सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः

महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते

॥७९॥

एतया र्चा विसंयुक्तः काले च क्रियया स्वया

ब्रह्मक्षत्रियविश्योनिर्गर्हणां याति साधुषु

॥८०॥

ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः

त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम्

॥८१॥

योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः

स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान्

॥८२॥

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः

सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते

॥८३॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः

अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः

॥८४॥

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः

उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः

॥८५॥

ये पाकयज्ञास्चत्वारो विधियज्ञसमन्विताः

सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्

॥८६॥

जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः

कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते

॥८७॥

इन्द्रियाणां विचरतां विषयेष्वपहारिषु

संयमे यत्नमातिष्ठेद्विद्वान्यन्तेव वाजिनाम्

॥८८॥

एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः

तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः

॥८९॥

श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी

पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता

॥९०॥

बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः

कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते

॥९१॥

एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम्

यस्मिन्जिते जितावेतौ भवतः पञ्चकौ गणौ

॥९२॥

इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्

संनियम्य तु तान्येव ततः सिद्धिं निगच्छति

॥९३॥

न जातु कामः कामानामुपभोगेन शाम्यति

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते

॥९४॥

यश्चैतान्प्राप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत्

प्रापणात्सर्वकामानां परित्यागो विशिष्यते

॥९५॥

न तथैतानि शक्यन्ते संनियन्तुमसेवया

विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः

॥९६॥

वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च

न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित्

॥९७॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः

न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः

॥९८॥

इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम्

तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम्

॥९९॥

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा

सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम्

॥१००॥

पूर्वां संध्यां जपांस्तिष्ठेत्सावित्रीमार्कदर्शनात्

पश्चिमां तु समासीनः सम्यगृक्षविभावनात्

॥१०१॥

पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति

पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम्

॥१०२॥

न तिष्ठति तु यः पूर्वां नोपास्ते यश्च पश्चिमाम्

स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः

॥१०३॥

अपां समीपे नियतो नैत्यकं विधिमास्थितः

सावित्रीमप्यधीयीत गत्वारण्यं समाहितः

॥१०४॥

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके

नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि

॥१०५॥

नैत्यके नास्त्यनध्यायो ब्रह्मसत्त्रं हि तत्स्मृतम्

ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम्

॥१०६॥

यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः

तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु

॥१०७॥

अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम्

आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः

॥१०८॥

आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः

आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः

॥१०९॥

नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः

जानन्नपि हि मेधावी जडवल्लोक आचरेत्

॥११०॥

अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति

तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति

॥१११॥

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा

तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे

॥११२॥

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना

आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत्

॥११३॥

विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम्

असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा

॥११४॥

यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम्

तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने

॥११५॥

ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात्

स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते

॥११६॥

लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा

आददीत यतो ज्ञानं तं पूर्वमभिवादयेत्

॥११७॥

सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः

नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी

॥११८॥

शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत्

शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत्

॥११९॥

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति

प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते

॥१२०॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः

चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम्

॥१२१॥

अभिवादात्परं विप्रो ज्यायांसमभिवादयन्

असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत्

॥१२२॥

नामधेयस्य ये के चिदभिवादं न जानते

तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च

॥१२३॥

भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने

नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः

॥१२४॥

आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने

अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः

॥१२५॥

यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम्

नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः

॥१२६॥

ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्

वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च

॥१२७॥

अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत्

भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित्

॥१२८॥

परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः

तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च

॥१२९॥

मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून्

असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः

॥१३०॥

मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा

संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया

॥१३१॥

भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि

विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः

॥१३२॥

पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि

मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी

॥१३३॥

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम्

त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु

॥१३४॥

ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम्

पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता

॥१३५॥

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी

एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्

॥१३६॥

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च

यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः

॥१३७॥

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः

स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च

॥१३८॥

तेषां तु समावेतानां मान्यौ स्नातकपार्थिवौ

राजस्नातकयोश्चैव स्नातको नृपमानभाक्

॥१३९॥

उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः

सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते

॥१४०॥

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः

योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते

॥१४१॥

निषेकादीनि कर्माणि यः करोति यथाविधि

संभावयति चान्नेन स विप्रो गुरुरुच्यते

॥१४२॥

अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान्

यः करोति वृतो यस्य स तस्य र्त्विगिहोच्यते

॥१४३॥

य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ

स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन

॥१४४॥

उपाध्यायान्दशाचार्य आचार्याणां शतं पिता

सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते

॥१४५॥

उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता

ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्

॥१४६॥

कामान्माता पिता चैनं यदुत्पादयतो मिथः

संभूतिं तस्य तां विद्याद्यद्योनावभिजायते

॥१४७॥

आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः

उत्पादयति सावित्र्या सा सत्या साजरामरा

॥१४८॥

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः

तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया

॥१४९॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता

बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः

॥१५०॥

अध्यापयामास पितॄन्शिशुराङ्गिरसः कविः

पुत्रका इति होवाच ज्ञानेन परिगृह्य तान्

॥१५१॥

ते तमर्थमपृच्छन्त देवानागतमन्यवः

देवाश्चैतान्समेत्योचुर्न्याय्यं वः शिशुरुक्तवान्

॥१५२॥

अज्ञो भवति वै बालः पिता भवति मन्त्रदः

अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्

॥१५३॥

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः

ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्

॥१५४॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः

वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः

॥१५५॥

न तेन वृद्धो भवति येनास्य पलितं शिरः

यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः

॥१५६॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः

यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति

॥१५७॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला

यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः

॥१५८॥

अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम्

वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता

॥१५९॥

यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा

स वै सर्वमवाप्नोति वेदान्तोपगतं फलम्

॥१६०॥

नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः

ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत्

॥१६१॥

सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव

अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा

॥१६२॥

सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते

सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति

॥१६३॥

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः

गुरौ वसन्सञ्चिनुयाद्ब्रह्माधिगमिकं तपः

॥१६४॥

तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः

वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना

॥१६५॥

वेदमेव सदाभ्यस्येत्तपस्तप्स्यन्द्विजोत्तमः

वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते

॥१६६॥

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः

यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम्

॥१६७॥

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्

स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः

॥१६८॥

मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने

तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात्

॥१६९॥

तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम्

तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते

॥१७०॥

वेदप्रदानादाचार्यं पितरं परिचक्षते

न ह्यस्मिन्युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात्

॥१७१॥

नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते

शूद्रेण हि समस्तावद्यावद्वेदे न जायते

॥१७२॥

कृतोपनयनस्यास्य व्रतादेशनमिष्यते

ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम्

॥१७३॥

यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला

यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि

॥१७४॥

सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन्

सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः

॥१७५॥

नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम्

देवताभ्यर्चनं चैव समिदाधानमेव च

॥१७६॥

वर्जयेन्मधु मांसं च गन्धं माल्यं रसान्स्त्रियः

शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम्

॥१७७॥

अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम्

कामं क्रोधं च लोभं च नर्तनं गीतवादनम्

॥१७८॥

द्यूतं च जनवादं च परिवादं तथानृतम्

स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च

॥१७९॥

एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित्

कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः

॥१८०॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः

स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत्

॥१८१॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान्

आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत्

॥१८२॥

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु

ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम्

॥१८३॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु

अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत्

॥१८४॥

सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसंभवे

नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत्

॥१८५॥

दूरादाहृत्य समिधः सन्निदध्याद्विहायसि

सायंप्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः

॥१८६॥

अकृत्वा भैक्षचरणमसमिध्य च पावकं

अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्

॥१८७॥

भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती

भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता

॥१८८॥

व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथ र्षिवत्

काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते

॥१८९॥

ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः

राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते

॥१९०॥

चोदितो गुरुणा नित्यमप्रचोदित एव वा

कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च

॥१९१॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च

नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम्

॥१९२॥

नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः

आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः

॥१९३॥

हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ

उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत्

॥१९४॥

प्रतिश्रावणसंभाषे शयानो न समाचरेत्

नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः

॥१९५॥

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः

प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः

॥१९६॥

पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम्

प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः

॥१९७॥

नीचं शय्यासनं चास्य नित्यं स्याद्गुरुसन्निधौ

गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्

॥१९८॥

नोदाहरेदस्य नाम परोक्षमपि केवलम्

न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम्

॥१९९॥

गुरोर्यत्र परिवादो निन्दा वापि प्रवर्तते

कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः

॥२००॥

परीवादात्खरो भवति श्वा वै भवति निन्दकः

परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी

॥२०१॥

दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः

यानासनस्थश्चैवैनमवरुह्याभिवादयेत्

॥२०२॥

प्रतिवातेऽनुवाते च नासीत गुरुणा सह

असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत्

॥२०३॥

गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च

आसीत गुरुणा सार्धं शिलाफलकनौषु च

॥२०४॥

गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत्

न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत्

॥२०५॥

विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु

प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि

॥२०६॥

श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत्

गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु

॥२०७॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि

अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति

॥२०८॥

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने

न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम्

॥२०९॥

गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः

असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः

॥२१०॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च

गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्

॥२११॥

गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः

पूर्णविंशतिवर्षेण गुणदोषौ विजानता

॥२१२॥

स्वभाव एष नारीणां नराणामिह दूषणम्

अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः

॥२१३॥

अविद्वांसमलं लोके विद्वांसमपि वा पुनः

प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम्

॥२१४॥

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्

बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति

॥२१५॥

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि

विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन्

॥२१६॥

विप्रोष्य पादग्रहणमन्वहं चाभिवादनम्

गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्

॥२१७॥

यथा खनन्खनित्रेण नरो वार्यधिगच्छति

तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति

॥२१८॥

मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखाजटः

नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित्

॥२१९॥

तं चेदभ्युदियात्सूर्यः शयानं कामचारतः

निम्लोचेद्वाप्यविज्ञानाज्जपन्नुपवसेद्दिनम्

॥२२०॥

सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः

प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा

॥२२१॥

आचम्य प्रयतो नित्यमुभे संध्ये समाहितः

शुचौ देशे जपञ्जप्यमुपासीत यथाविधि

॥२२२॥

यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत्

तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन्मनः

॥२२३॥

धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च

अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः

॥२२४॥

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः

नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः

॥२२५॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः

माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः

॥२२६॥

यं मातापितरौ क्लेशं सहेते संभवे नृणाम्

न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि

॥२२७॥

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा

तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते

॥२२८॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते

न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत्

॥२२९॥

त एव हि त्रयो लोकास्त एव त्रय आश्रमाः

त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः

॥२३०॥

पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः

गुरुराहवनीयस्तु साग्नित्रेता गरीयसी

॥२३१॥

त्रिष्वप्रमाद्यन्नेतेषु त्रीन्लोकान्विजयेद्गृही

दीप्यमानः स्ववपुषा देववद्दिवि मोदते

॥२३२॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्

गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते

॥२३३॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः

अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः

॥२३४॥

यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत्

तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः

॥२३५॥

तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत्

तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः

॥२३६॥

त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते

एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते

॥२३७॥

श्रद्दधानः शुभां विद्यामाददीतावरादपि

अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि

॥२३८॥

विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम्

अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम्

॥२३९॥

स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम्

विविधानि च शील्पानि समादेयानि सर्वतः

॥२४०॥

अब्राह्मणादध्यायनमापत्काले विधीयते

अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः

॥२४१॥

नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत्

ब्राह्मणे वाननूचाने काङ्क्षन्गतिमनुत्तमाम्

॥२४२॥

यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले

युक्तः परिचरेदेनमा शरीरविमोक्षणात्

॥२४३॥

आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम्

स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम्

॥२४४॥

न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित्

स्नास्यंस्तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थमाहरेत्

॥२४५॥

क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमासनम्

धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत्

॥२४६॥

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते

गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत्

॥२४७॥

एतेष्वविद्यमानेषु स्थानासनविहारवान्

प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः

॥२४८॥

एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः

स गच्छत्युत्तमस्थानं न चेह जायते पुनः

॥२४९॥