अध्ययनम्
- अनुक्रमणिका
- विवाहे तीर्थादिव्यक्तिजपादयः · टिप्पण्यः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६०७–६०८ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
विवाहे तीर्थादिव्यक्तिजपादयः
ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आध॒त्तꣳ र॒यिं द॒शवी॑रं वच॒स्यवे᳚। कृ॒तं ती॒र्थꣳ सु॑प्रपा॒णꣳ शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिꣳ ह॑तम्। अ॒यं नो॑ म॒ह्याः पा॒रꣴ स्व॒स्ति ने॑ष॒द्वन॒स्पतिः॑। सीरा॑ नः सु॒तरा॑ भव दीर्घायु॒त्वाय॒ वर्च॑से। अ॒स्य॒ पा॒रे नि॑र्ऋ॒तस्य॑ जी॒वा ज्योति॑रशीमहि। म॒ह्या इ॑न्द्रः स्व॒स्तये᳚।
॥१॥यदृ॒ते चि॑दभि॒ श्रिषः॑ पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑। संधा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र्निष्क॑र्ता॒ विहृ॑तं॒ पुनः॑। (इडा॑मग्न इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑।) {इडा॑मग्ने पुरु॒दꣳस॑ꣳ स॒निं गोः श॑श्वत्त॒मꣳ हव॑मनाय साध।
॥२॥स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते॑ सुम॒तिर्भू᳚त्व॒स्मे॥ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑॑शꣳ स॒ मा न॒ आयुः॒ प्रमो॑षीः॥ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑यासिषीष्ठाः।
॥३॥यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑ꣳसि॒ प्रमु॑मुग्ध्य॒स्मत्॥ स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ। अव॑यक्ष्व नो॒ वरु॑ण॒ꣳ ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि॥ त्वम॑ग्ने अ॒याऽस्य॒या सन्मन॑सा हि॒तः।
॥४॥अ॒या सन् ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम्॥} ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वृ॒क्षेषु॑ वानस्प॒त्येष्वास॑ते। शि॒वास्ते अ॒स्यै व॒ध्वै॑ भवन्तु॒ मा हि॑ꣳसिषुर्वह॒तुमू॒ह्यमा॑नाम्। या ओष॑धयो॒ या न॒द्यो॑ यानि॒ धन्वा॑नि॒ ये वना᳚। ते त्वा॑ वधु प्र॒जाव॑तीं॒ प्र त्वे मु॑ञ्च॒न्त्वꣳह॑सः।
॥५॥संका॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा॒ मैत्रे॑ण। प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यद॒स्याꣳ स्यो॒नं पति॑भ्यः सवि॒ता कृ॑णोतु॒ तत्। आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ꣳ अयꣳसत। अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्या॑ꣳ अशीमहि।
॥६॥अ॒यं नो॑ दे॒वः स॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये᳚। त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णः काम॒ आया॑तं॒ कामा॑य त्वा॒ वि मु॑ञ्चतु॥७॥
॥७॥टिप्पण्यः
“विह्रु॑तं॒ पुनः॑” इति वा
॥८॥