अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- अन्यत्र ग्रन्थे
- मूलम्
तै॰सं॰ ३.२.८
२९ श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमो॑
विष्टं॒भाय॒ धर्म॑णे॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑
परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑
ऊ॒र्जे होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒
होत्रा॑णा॒ग्॒ स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒
स्वाहा॒ वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपाः सुवर्वा॒ट् थ्स्वाहा॒
वट्थ्स्व॒यम॑भिगूर्ताय॒ नम॑स्तृं॒पन्ता॒ꣳ॒ होत्रा॒ मधो᳚र्घृ॒तस्य॑
य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा
३० ऽहुः । प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ᳚ स्तो॒कावप॒ तौ र॑राध
। सं न॒स्ताभ्याꣳ॑ सृजतु वि॒श्वक॑र्मा घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः ।
चक्षु॑ष एषां॒ मन॑सश्च स॒न्धौ बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ ।
नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान॑न॒न्यान्थ्सो॑म॒पान् मन्य॑मानः । प्रा॒णस्य॑
वि॒द्वान्थ्स॑म॒रे न धीर॒ एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् ॥ तं वि॑श्वकर्म॒न्
३१ प्र मु॑ञ्चा स्व॒स्तये॒ ये भ॒क्षय॑न्तो॒ न वसू᳚न्यानृ॒हुः ।
यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिं
न॒स्तां कृ॑णोतु वि॒श्वक॑र्मा ॥ नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न्,
यज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अ॑का॒मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा
न॒स्तस्मा॒देन॑सः पापयिष्ट । याव॑न्तो॒ वै स॑द॒स्या᳚स्ते सर्वे॑दक्षि॒ण्या᳚स्तेभ्यो॒
यो दक्षि॑णां॒ न
३२ नये॒दैभ्यो॑ वृश्च्येत॒ यद्वै᳚श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व
तत्प्री॑णात्य॒स्मे दे॑वासो॒ वपु॑षे चिकिथ्सत॒ यमा॒शिरा॒ दंप॑ती वा॒मम॑श्नु॒तः
। पुमा᳚न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ॥
आ॒शी॒र्दा॒या दंप॑ती वा॒मम॑श्नुता॒मरि॑ष्टो॒ रायः॑ सचता॒ꣳ॒ समो॑कसा
। य आसि॑च॒थ्संदु॑ग्धं कुं॒भ्या स॒हेष्टेन॒ याम॒न्नम॑तिं जहातु॒ सः ॥
स॒र्पि॒र्ग्री॒वी
३३ पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒हजा॑नि॒र्यः
सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरꣳ॑ स॒ह कुं॒भ्यादा᳚त् ॥ आ॒शीर्म॒ ऊर्ज॑मु॒त
सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑ण॒ꣳ॒ सव॑र्चसम् । स॒ञ्जय॒न् क्षेत्रा॑णि॒
सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्याꣳ अध॑रान्थ्स॒पत्नान्॑ ॥ भू॒तम॑सि भू॒ते
मा॑ धा॒ मुख॑मसि॒ मुखं॑ भूयासं॒ द्यावा॑पृथि॒वीभ्यां᳚ त्वा॒ परि॑ गृह्णामि॒
विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः
३४ प्र च्या॑वयन्तु दि॒वि दे॒वान् दृꣳ॑हा॒न्तरि॑क्षे॒ वयाꣳ॑सि पृथि॒व्यां
पार्थि॑वान्ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ नः॒
सर्व॒मिज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ यथा॑ न॒ इन्द्र॒ इद्विशः॒
केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद्दिशो॒ऽस्माकं॒
केव॑ली॒रसन्॑ ॥ ३। २। ८॥ एन॑सा विश्वकर्म॒न्॒ यो दक्षि॑णां॒ न स॑र्पिर्ग्री॒वी
वै᳚श्वान॒राश्च॑त्वारि॒ꣳ॒शच्च॑ ॥TS 3.2.8॥
॥१॥