अध्ययनम्
- अनुक्रमणिका
- उपनयने होममन्त्राः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६२१ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
उपनयने होममन्त्राः
(योगे॑योगे त॒वस्त॑रमि॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीति॒ द्वे।) {योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे। सखा॑य॒ इन्द्र॑मू॒तये᳚॥ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यꣳ रेतो॑ वरुण सोम राजन्। मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑देवा॒ जर॑दष्टि॒र्यथाऽस॑त्॥} श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना᳚म्।
॥१॥पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः᳚। आ॒ग्निष्ट॒ आयुः॑ प्रत॒रां द॑धात्व॒ग्निष्टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु। इन्द्रो॑ म॒रुद्भि॑र्ऋतु॒धा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒रा द॑धातु। मे॒धां मह्य॒मङि्ग॑रसो मे॒धाꣳ स॑प्त॒र्षयो॑ ददुः। मे॒धां मह्यं॑ प्र॒जाप॑तिर्मे॒धाम॒ग्निर्द॑दातु मे।
॥२॥अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑। दैवी॒ या मा॑नु॒षी मे॒धा सा मामावि॑शतादि॒ह। (इ॒मं मे॑ वरुण॒ तत्त्वा॑ यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने॒ त्वम॑ग्ने अ॒याऽसि॑।)
॥३॥