अध्ययनम्
- अनुक्रमणिका
- व्याहृतयः
- मूलम्
- तैत्तिरीय-ऋग्वेदपाठः याजुषमन्त्ररत्नाकरानुसारेण। स्वरः गुरोः समीपे एव।
व्याहृतयः
ॐ भूर्भुवः॒ सुवः॑। भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा᳚। भुवो॑ वा॒यवे॑ चा॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा᳚। सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा᳚। भूर्भुवः॒ सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा᳚॥
॥१॥