अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- अन्यत्र ग्रन्थे
- मूलम्
तै॰सं॰ ५.६.१
पञ्चमकाण्डे षष्ठः प्रश्नः ६
१ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ ।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्तान॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु ॥
यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।
म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्तान॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु
॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याः पृ॑थि॒वीं पय॑सो॒ऽन्दन्ति॑
२ शु॒क्रास्ता न॒ आपः॒ श२ꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा
पश्यतापः शि॒वया॑ त॒नुवोऽप॑ स्पृशत॒ त्वच॑म् मे । सर्वाꣳ॑
अ॒ग्नीꣳर॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥ यद॒दः
सं॑ प्रय॒तीरहा॒वन॑दताह॒ ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि
सिन्धवः ॥ यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभꣳ॑ स॒मव॑ल्गत ।
३ तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन ॥ अ॒प॒का॒म२ꣳ स्यन्द॑माना॒
अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम्
॥ एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒
तस्मा॑दुद॒कमु॑च्यते ॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒
इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑
४ मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सागन् ॥ आदित्प॑श्याम्यु॒त वा॑
शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒
तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ॥ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑
ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑
भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒
क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥ दि॒वि श्र॑यस्वा॒न्तरि॑क्षे
यतस्व पृथि॒व्या संभ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा ॥ ५। ६। १॥
उ॒न्दन्ति॑ स॒मव॑ल्गत मधु॒पृचां᳚ मा॒तरो॒ द्वाविꣳ॑शतिश्च ॥TS 5.6.1॥
॥१॥