मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ग्रहगृहीतस्याभिमन्त्रणादयः

Also spelled: Grahagrihitasyabhimantranadaya · Grahagrihithasyabhimanthranadaya

ग्रहगृहीतस्याभिमन्त्रणादयः. Also called graha grhitasya, Grahagṛhītasyābhimantraṇādayaḥ. Svara-marked text on Vaidhika Dharma.

3
अध्ययनम्
अनुक्रमणिका
ग्रहगृहीतस्याभिमन्त्रणादयः
मूलम्
याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६३५–६३७ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।

ग्रहगृहीतस्याभिमन्त्रणादयः

कू॒र्कु॒रः सुकू᳚र्कु॒रः कूकु॒रो वा॑लब॒न्धनः॑। उ॒परि॑ष्टा॒द्यदेजा॑य तृ॒तीय॑स्या इ॒तो दि॒वः। औल॑ब॒ इत्तमुपा᳚ह्वयथा॒र्जीञ्छ्या॒मः श॒बलः॑। अ॒धोरा॑म उलुम्ब॒लः सा॑र॒मेयो॑ ह॒ धाव॑ति स॒मु॒द्रम॑व॒चाक॑शत्। बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्र॑ꣳ सुबीरि॒णः। सुबी॑रिण॒ सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत्।

॥१॥

तत्स॒त्यं यत्त्वेन्द्रो᳚ऽब्रवी॒द् गाः स्पा॑शय॒स्वेति॒ तास्त्वꣴ स्पा॑शयि॒त्वाऽऽग॑च्छ॒स्तं त्वा᳚ऽब्रवी॒दवि॑द॒ हा३ इत्यवि॑द॒ꣳहीति॒ वरं॑ वृणी॒ष्वेति॑ कुमा॒रमे॒वाहं वरं॑ वृण॒ इत्य॑ब्रवीर्वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम॑व॒चाक॑शत्। बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्र॑ꣳ सुबीरि॒णः।

॥२॥

सुबी॑रिण॒ सृज॒सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत्। तत्स॒त्यं यत्ते॑ सर॒मा मा॒ता लोहि॑तः पि॒ता। अ॒मी एके॑ सरस्य॒का अ॑व॒धाव॑ति तृ॒तीय॑स्या इ॒तो दि॒वः। तेक॑श्च ससरमत॒ण्डश्च॒ तूल॑श्च॒ वितू॑ल॒श्चार्जु॑नश्च॒ लोहि॑तश्च। दुला॑ ह॒ नाम॑ वो मा॒ता मन्था॑क॒को ह॑ वः पि॒ता। सं॒ तक्षा॑ हन्ति च॒क्री वो॒ न सीस॑रीदत।

॥३॥

छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर। समश्वा॒ वृष॑णः प॒दो न सीस॑रीदत। छ॒द॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर। श्वान॒मिच्छ्वाऽद॒न्न पु॑रुषं॒ छत्। ए॒ते ते॒ प्रति॑दृश्येते समा॒नव॑सने उ॒भे। ते अ॒हꣳ सा॒रये॑ण॒ मुस॑ले॒नाव॑हन्म्यु॒लूख॑ले। ह॒तः श॒ङ्खो ह॒तः श॑ङ्खपि॒ता ह॒तः श॑ङ्खकुतुर्व॒कः। अप्ये॑षाꣳ स्थ॒पति॑र्ह॒तः।

॥४॥

ऋषि॑र्बो॒धः प्रबो॑धः॒ स्वप्नो॑ मात॒रिश्वा᳚। ते ते᳚ प्रा॒णान् स्प॑रि॒ष्यन्ति॒ मा भै॑षी॒र्न म॑रि॒ष्यसि॑। ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑ध्व॒रः स्वाहा॑ ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिः॒ स्वाहा॑᳚ ज॒ग्धा वितृ॑ष्टिर्ज॒ग्धो व्य॑ध्व॒रो ज॒ग्धो मश॑कः॒ स्वाहा᳚॥१६॥

॥५॥

इन्द्र॑ जहि दन्द॒शूकं॑ प॒क्षिणं॒ यः सरी॑सृ॒पः। दं॒क्ष्णन्तं॑ च द॒शन्तं॑ च॒ सर्वा॒ꣴस्तानि॑न्द्र जम्भय॒ स्वाहा᳚। अ॒प्सु जा॑त॒ सरे॑ वृद्ध दे॒वाना॒मपि॑ हस्त्य। त्वम॑ग्न इन्द्र॒प्रेषि॑तः॒ स नो॒ मा हि॑ꣳसीः॒ स्वाहा᳚। त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि।

॥६॥

अन्ने॑न मनु॒ष्या॑ꣴ स्त्राय॑से॒ तृणैः᳚ प॒शून्ग॒र्तेन॑ स॒र्पान् य॒ज्ञेन॑ दे॒वान् स्व॒धया॑ पि॒तॄन् स्वाहा᳚। तत्स॒त्यं यत्ते॑ऽमावा॒स्या॑यां च पौर्णमा॒स्यां च॑ विषब॒लिꣳ हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑। तत्ते॒ प्रेर॑ते॒ त्वयि॒ संवि॑शन्ति॒ त्वयि॑ नः स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि।

॥७॥

(नमो॑ अस्तु स॒र्पेभ्य॒ इति॑ ति॒स्रः।) {नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑। ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑॥ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑। येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑॥ या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ रनु॑।

॥८॥

ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑॥} नमो॑ अस्तु स॒र्पेभ्यो॒ ये पार्थि॑वा॒ य आ᳚न्तरि॒क्ष्या॑ ये दि॒व्या ये दि॒श्याः᳚। तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि॒ तेभ्य॑ इ॒मं ब॒लिमहा॑र्षम्। तक्ष॑क॒ वैशा॑लेय धृ॒तरा᳚ष्ट्रैरावत॒स्ते जी॑वा॒स्त्वयि॑ नः स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि।

॥९॥

धृ॒तरा᳚ष्ट्रैरावत॒ तक्ष॑क॒ वैशा॑लेय॒स्ते जी॑वा॒स्त्वयि॑ नः स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि। अ॒हि॒ꣳसा॒ऽति॒ब॒लस्ते जि॑वा॒स्त्वयि॑ नः स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि। अ॒ति॒ब॒ला॒ऽहि॒ꣳसस्ते जि॑वा॒स्त्वयि॑ नः स॒तस्त्वयि॑ स॒द्भ्यो व॒र्षाभ्यो॑ नः॒ परि॑देहि।

॥१०॥

ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्ताꣴस्त्वमि॒तः प॒रोगव्यू॑ति॒ निवे॑शय। सन्ति॒ वै नः॑ श॒फिनः॒ सन्ति॑ द॒ण्डिन॒स्ते वो॒ नेद्धि॒नसा॒न्न्येद्यू॒यम॒स्मान् हि॒नसा॑त। (स॒मीची॒ नामा॑सि॒ प्राची॒ दिग्घे॒तयो॒ नाम॒ स्थेति॒ द्वाद॑श पर्या॒याः।) अप॑श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाऽप॑रेण च। स॒प्त च॒ मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्धवीः।

॥११॥

न वै श्वे॒तस्या᳚ध्याचा॒रेऽहि॑र्ज॒घान॒ कञ्च॒न। श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑॥१७॥

॥१२॥