अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ ४.४.१
चतुर्थकाण्डे चतुर्थः प्रश्नः ४
१ र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जिन्व॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑
जि॒न्वान्वि॑तिरसि दि॒वे त्वा॒ दिवं॑ जिन्व सं॒धिर॑स्य॒न्तरि॑क्षाय त्वा॒न्तरि॑क्षं
जिन्व प्रति॒धिर॑सि पृथि॒व्यै त्वा॑ पृथि॒वीं जि॑न्व विष्टं॒भो॑ऽसि॒
वृष्ट्यै᳚ त्वा॒ वृष्टिं॑ जिन्व प्र॒वास्यह्ने॒ त्वाह॑र्जिन्वानु॒वासि॒ रात्रि॑यै त्वा॒
रात्रिं॑ जिन्वो॒शिग॑सि॒
२ वसु॑भ्यस्त्वा॒ वसू᳚ञ्जिन्व प्रके॒तो॑ऽसि रु॒द्रेभ्य॑स्त्वा रु॒द्राञ्जि॑न्व
सुदी॒तिर॑स्यादि॒त्येभ्य॑स्त्वादि॒त्यांजि॒न्वौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॑न्व॒
तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा
प॒शूञ्जि॑न्व रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जिन्वाभि॒जिद॑सि
यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वाधि॑पतिरसि प्रा॒णाय॑
३ त्वा प्रा॒णं जि॑न्व य॒न्तास्य॑पा॒नाय॑ त्वापा॒नं जि॑न्व स॒ꣳ॒ सर्पो॑ऽसि॒
चक्षु॑षे त्वा॒ चक्षु॑र्जिन्व वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्रं॑ जिन्व
त्रि॒वृद॑सि प्र॒वृद॑सि सं॒वृद॑सि वि॒वृद॑सि सꣳ रो॒हो॑ऽसि नीरो॒हो॑ऽसि
प्ररो॒हो᳚ऽस्यनुरो॒हो॑ऽसि वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिरसि ॥ ४। ४। १॥ उ॒शिग॑सि प्रा॒णाय॒ त्रि च॑त्वारिꣳशच्च ॥TS 4.4.1॥
॥१॥