अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ १.१.२
य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒
प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒
त आव॑हन्ति क॒वयः॑ पु॒रस्ता᳚द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑
दे॒वानां᳚ परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर्हि॒र्मा त्वा॒ऽन्वङ्मा
ति॒र्यक्पर्व॑ ते राध्या समाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर्हिः श॒तव॑ल्शं॒
वि रो॑ह स॒हस्र॑वल्शा॒
३ वि व॒यꣳ रु॑हेम पृथि॒व्याः सं॒पृचः॑ पाहि सुसं॒भृता᳚
त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नं पू॒षा ते᳚
ग्र॒न्थिङ्ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒
बृह॒स्पते᳚र्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि ॥
स॒हस्र॑वल्शा अ॒ष्टात्रिꣳ॑शच्च ॥TS 1.1.2॥
॥१॥