आपस्तम्ब — माध्यान्हिकम्
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥
ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
इति त्रि: उक्त्वा - प्राणायामान्ते दक्षिण कर्णं स्पृष्ट्वा
सङ्कल्पम्
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्यान्हिकं करिष्ये ।
इति सङ्कल्प्य
मार्जनम्
आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
प्राशनम्
आप॑: पुनंतु प्रुथि॒वीम् प्रु॑थि॒वी पू॒ता पु॑नातु॒माम् । पु॒नंतु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒मां ॥ यदुच्छि॑ष्ट॒म भो॑ज्यम्॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑ । सर्वं॑ पुनंतु॒॑ मामापो स॒तांच॑ प्रति॒ग्रहं॒ स्वाहा ॥
इति अप: प्राश्य
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
पुनर्माजनम्
द॒धिक्राव्णो॑ अकार्षम् । जि॒ष्णो रश्व॑स्य वा॒जि न॑: । सु॒र॒भिनो॒ मुका॑करत् । प्रण॒ आयूꣳ॑षि तारिषत् ॥
आपो॒हिष्ठा म॑यो॒भुव॑: । ता न॑ ऊ॒र्जे द॑धात न । म॒हेरणा॑य॒ चक्ष॑से ॥ योव॑श्शि॒वत॑मो॒ रस॑: । तस्य॑ भाजय ते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ॥ तस्मा॒ अर॑ङ्गमामव: । यस्य॒क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च न: ॥
इति शिरसि प्रोक्ष्य
ओं भूर्भुव॒:सुव॑: ।
इति आत्मानं परिषिच्य
अर्घ्य प्रदानं
ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
इति अर्घ्यं दद्यात्
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
प्रायश्चित्त अर्घ्यं
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याऩ्हिक कालातीत प्रायश्चित्त अर्घ्यप्रदानं करिष्ये ॥ ओं भूर्भुव॒:सुव॑: तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
ओं भूर्भुव॒:सुव॑ असावादित्यो ब्रह्मा । ब्रह्मैवाहमस्मि ।
इति आत्मानं परिषिच्य
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
नवग्रह - केशवादि तर्पणं
| १. आदित्यं तर्पयामि | २.सोमम् तर्पयामि | ३.अङ्गारकम् तर्पयामि |
| ४.बुधं तर्पयामि | ५.बृहस्पतिं तर्पयामि | ६.शुक्रं तर्पयामि |
| ७.शनैश्चरं तर्पयामि | ८.राहुं तर्पयामि | ९.केतुं तर्पयामि |
| १०.केशवं तर्पयामि | ११.नारायणं तर्पयामि | १२.माधवं तर्पयामि |
| १३.गोविन्दं तर्पयामि | १४.विष्णुं तर्पयामि | १५.मधुसूदनं तर्पयामि |
| १६.त्रिविक्रमं तर्पयामि | १७.वामनं तर्पयामि | १८.श्रीधरं तर्पयामि |
| १९.हृषीकेशं तर्पयामि | २०.पद्मनाभं तर्पयामि | २१.दामोदरं तर्पयामि |
इति जलेन नव - द्वादश च तर्पणानि कृत्वा
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
श्री गणपति ध्यानं
शुक्लां बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायेत् सर्व विध्नोप शांतये ॥
प्राणायाम:
ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥
ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
सङ्कल्पम्
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याऩ्हिक संध्याङ्ग यथा शक्ति गायत्रि महामंत्र जपं करिष्ये ॥
प्राणायाम - न्यासं
- प्रणवस्य ऋषि: ब्रह्मा, देवी गायत्री छंद:, परमात्मा देवता
- भूरादि सप्त व्याह्रुतीनाम् अत्रि - भ्रुगु - कुत्स - वसिष्ठ - गौतम - काष्यप - आङ्गीरस ऋषय:
- गायत्रि - उष्णिक् - अनुष्टुप् - ब्रुहती - पङ्ती - त्रिष्टुप् - जगत्यश्छ्न्दांसि
- अग्नि - वायु - अर्क - वागीश - वरुण - इन्द्र - विश्वेदेवा देवता: प्राणायामे विनियोग:
प्राणायाम:
ऒं भू: ऒं भुव: ओꣳसुव: ऒं मह: ऒं जन: ऒं तप: ऒं ꣳसत्यं । ऒं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया᳚त् ॥
ऒं आपो॒ ज्योती॒रसो॒म्रुतं॒ ब्रह्म॒ भूर्भुव॒सुव॒रोम् ।
गायत्री आवाहनम्
आया॑तु॒ वर॑दा दे॒वि॒ अ॒क्षरं॑ ब्रह्म॒ सम्मि॑तम् । गा॒य॒त्री॑म् छंद॑सांमा॒तेतम् ब्र॑ह्म जु॒षस्व॑मे ॥
ओजो॑सि॒ - सहो॑सि॒ - बल॑मसि॒ - भ्राजो॑सि - दे॒वाना॒म् धाम॒नामा॑सि॒ - विश्व॑मसि वि॒श्वायु॒: सर्व॑मसि स॒र्वायुरभिभूरोम्
- गायत्रीं आवाहयामि
- सावित्रीं आवाहयामि
- सरस्वतीं आवाहयामि
इति गायत्रीं सूर्य मण्डले स्वहृदये वा आवाह्य
गायत्री न्यासम्
ध्यानम्
मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुखैस्त्रीक्षणै: युक्तामिंदुकला-निबद्धरत्ऩमकुटाम् तत्त्वार्थ - वर्णात्मिकाम् ।
गायत्रीं वरदाभयांकुश - कशा:शुभ्रम्गपालं गदां
शंखं - चक्र - मथारविंदयुगलं हस्तैर्वहंतीं भजे ॥
इति सावित्रीमूर्तिध्यानं कृत्वा
गायत्री जपम्
ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑॑त् ॥
कणिष्ठिकामूलमारभ्य प्रादक्षिण्येन गणयन् यथासङ्कल्पं पन्चावसानं गायत्री मन्त्रं जपेत्
प्राणायाम:
ऒं भू: ऒं भुव: ऒं स्व: ऒं मह: ऒं जन: ऒं तप: ऒं सत्यं । ऒं तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योन॑: प्रचो॒दया॑त् ॥
ऒं आपो॒ ज्योती॒रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्वरोम् ।
सङ्कल्पम् - उपस्थानं
ममोपात्त समस्त दुरित क्षयद्वारा श्री परमेश्वर प्रीत्यर्थं माध्याऩ्हिक सन्ध्या गायत्री उपस्थानं करिष्ये ॥
अभिवाद नमस्कार:
अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
इति ताम् ताम् दिशं प्रति अन्जलिं कृत्वा
| १. प्राच्यै नम: | २. दक्षिणायै नम: |
| ३. प्रतीच्यै नम: | ४. उदीच्यै नम: |
| ५. ऊर्ध्वाय नम: | ६. अधराय नम: |
| ७. अन्तरिक्षाय नम: | ८. भूम्यै नम: |
| ९. ब्रह्मणे नम: | १०. विष्णवे नम: |
| ११. मृत्यवे नम: | १२. यमाय नम: |
यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ।
औदुंबराय तध्नाय नीलाय परमेष्ठिने । व्रुकोधराय चित्राय चित्रगुप्ताय वै नम: ॥
चित्रगुप्ताय वै नमो नम इति ।
ऋतं सत्यं परं ब्रह्म पुरुषं क्रुष्ण पिंगलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपायवै नम: ॥ विश्वरूपायवै नमो नम इति ।
नर्मदायै नम: प्रातर्नर्मदायै नमो निशि । नमोस्तु नर्मदे तुभ्यं पाहिमां विषसर्पत: ॥ अपसर्प सर्प भत्रं ते दूरं गच्छ महायश: । जनमेजयस्य यञांते आस्तीक वचनं स्मरन् ॥ जरत्कारो जरत्कार्वां समुत्पन्नो महायशा: । आस्तीक: सत्य संधोमां पन्नगेभ्योभिरक्षतु ॥
नमस्सवित्रे जगदेक चक्षुषे जगत्प्रसूति-स्थिति नाशहेतवे । त्रयीमयाय त्रिगुणात्म धारिणे विरिंचि नारायण शंकरात्मने ॥ध्येयस्स्दा सवित्रुमंडल मध्यवर्ती नारायण: सरसिजासन सन्निविष्ट: ।केयूरवान् मकरकुंडलवान् किरीटिहारि हिराण्मय वपुर्ध्रुत शंख चक्र: ॥
शंखचक्र गदापाणे द्वारका निलयाच्युत । गोविंद पुंडरीकाक्ष रक्षमां शरणागतम् ॥
आकशात्पतितम्तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार: केशवं प्रतिगच्छति ॥
केशवं प्रतिगच्छत्योम् नम इति ।
अभिवाद नमस्कार:
अभिवादये ___ त्रयार्षेय।पञ्चार्षेय प्रवरान्वित ___ गोत्र: ___ आपस्तम्ब सूत्र: ___ यजुश्शाखाध्यायी ___ शर्मा नाम अहं अस्मि भो:।
आचमनं — पुनः
आचमनं
| ओं अच्युताय नम: | ओं अनन्ताय नम: | ओं गोविन्दाय नम: |
| केशव | नारायण | माधव |
| गोविन्द | विष्णु | मधुसूदन |
| त्रिविक्रम | वामन | श्रीधर |
| हृषीकेश | पद्मनाभ | दामोदरा |
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मनावा प्रक्रुते स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायाणायेति समर्पयामि
अ॒द्यानो॑ देव सवित: । प्र॒जाव॑त्सवी॒: सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यम् सुव ।
विश्वा॑नि देव सवित: । दुरि॒तानि॒ परा॑सुव । यद् भ॒द्रं तन्म॒ आसु॑व ।
जप स्थलं प्रोक्ष्य तन्मृदं हृदि धारयेत्