अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰आ॰ १.२७
इ॒मानु॑कं॒ भु॑वना सीषधेम। इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः।
य॒ज्ञं च॑ नस्त॒न्वं च॑ प्र॒जां च॑। आ॒दि॒त्यैरिन्द्रः॑ स॒ह सी॑षधातु।
आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भिः॑। अ॒स्माकं॑ भूत्ववि॒ता त॒नूना᳚म्।
आप्ल॑वस्व॒ प्रप्ल॑वस्व। आ॒ण्डीभ॑वज॒ मा मु॒हुः।
सुखादीन्दुः॑खनि॒धनाम्। प्रति॑मुञ्चस्व॒ स्वां पु॒रम्॥११४॥
मरी॑चयः स्वायम्भु॒वाः। ये श॑री॒राण्य॑कल्पयन्।
ते ते॑ दे॒हं क॑ल्पयन्तु। मा च॑ ते॒ ख्यास्म॑ तीरिषत्।
उत्ति॑ष्ठत॒ मा स्व॑प्त। अ॒ग्निमि॑च्छध्वं॒ भार॑ताः।
राज्ञः॒ सोम॑स्य तृ॒प्तासः॑। सूर्ये॑ण स॒युजो॑षसः।
युवा॑ सु॒वासाः᳚। अ॒ष्टाच॑क्रा॒ नव॑द्वारा॥११५॥
दे॒वानां॒ पूर॑यो॒ध्या। तस्याꣳ॑ हिरण्म॑यः को॒शः।
स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः। यो वै तां᳚ ब्रह्म॑णो वे॒द।
अ॒मृते॑नाऽऽवृ॒तां पु॑रीम्। तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च।
आ॒युः कीर्तिं॑ प्र॒जां द॑दुः। वि॒भ्राज॑माना॒ꣳ॒ हरि॑णीम्।
य॒शसा॑ सम्प॒रीवृ॑ताम्। पुरꣳ॑ हिरण्म॑यीं ब्र॒ह्मा॥११६॥
वि॒वेशा॑ऽप॒राजि॑ता। पराङेत्य॑ज्याम॒यी।
पराङेत्य॑नाश॒की। इ॒ह चा॑मुत्र॑ चान्वे॒ति।
वि॒द्वान्दे॑वासु॒रानु॑भ॒यान्। यत्कु॑मा॒री म॒न्द्रय॑ते।
य॒द्यो॒षिद्यत्प॑ति॒व्रता᳚। अरि॑ष्टं॒ यत्किं च॑ क्रि॒यते᳚।
अ॒ग्निस्तदनु॑वेधति। अ॒शृता॑सः शृ॑तास॒श्च॥११७॥
य॒ज्वानो॒ येऽप्य॑य॒ज्वनः॑। स्व॑र्यन्तो॒ नापे᳚क्षन्ते।
इन्द्र॑म॒ग्निं च॑ ये वि॒दुः। सिक॑ता इव सं॒यन्ति॑।
र॒श्मिभिः॑ समु॒दीरि॑ताः। अ॒स्माल्लो॒काद॑मुष्मा॒च्च।
ऋ॒षिभि॑रदात्पृ॒श्निभिः॑।
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑। येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तम्॥११८॥
य॒मो द॑दात्वव॒सान॑मस्मै। नृ मु॑णन्तु नृपा॒त्वर्यः॑।
अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः। कु॒मारी॑षु क॒नीनी॑षु।
जा॒रिणी॑षु च॒ ये हि॒ताः। रेतः॑ पीता॒ आण्ड॑पीताः।
अङ्गा॑रेषु च॒ ये हु॒ताः। उ॒भया᳚न् पुत्र॑पौत्र॒कान्।
यु॒वे॒ऽहं य॒मराज॑गान्। श॒तमिन्नु श॒रदः॑॥११९॥
अदो॒ यद्ब्रह्म॑ विल॒बम्। पि॒तृ॒णां च॑ य॒मस्य॑ च।
वरु॑ण॒स्याश्वि॑नोर॒ग्नेः। म॒रुतां᳚ च वि॒हाय॑साम्।
का॒म॒प्र॒यव॑णं मे अस्तु। स ह्ये॑वास्मि॑ स॒नात॑नः।
इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम्। पु॒त्रानापो॑ दे॒वीरि॒हाऽऽहि॑त॥१२०॥ ॥TA 1.27॥
॥१॥