अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ ४.३.१२
२६ अग्ने॑ जा॒तान् प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदोनुदस्व । अ॒स्मे दी॑दिहि
सु॒मना॒ अहे॑ड॒न्तव॑ स्या॒ꣳ॒ शर्म॑न् त्रि॒वरू॑थ उ॒द्भित् ॥ सह॑सा जा॒तान्
प्रणु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ताञ्जातवेदोनुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो
व॒य२ꣳ स्या॑म॒ प्रणु॑दा नः स॒पत्नान्॑ ॥ च॒तु॒श्च॒त्वा॒रि॒ꣳ॒शः स्तोमो॒
वर्चो॒ द्रवि॑णꣳ षोड॒शः स्तोम॒ ओजो॒ द्रवि॑णं पृथि॒व्याः पुरी॑षम॒स्य
२७ प्सो॒ नाम॑ । एव॒श्छन्दो॒ वरि॑व॒श्छंदः॑ शं॒भूश्छंदः॑ परि॒भूश्छंद॑
आ॒च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छंदः॒ सिन्धु॒श्छंदः॑ समु॒द्रं छंदः॑
सलि॒लं छंदः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथंत॒रं
छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छंदः॑
स॒ष्टुप्छन्दो॑ऽनु॒ष्टुप्छंदः॑ क॒कुच्छंद॑स्त्रिक॒कुच्छंदः॑ का॒व्यं
छन्दो᳚ऽङ्कु॒पं छंदः॑
२८ प॒दप॑ङ्क्ति॒श्छन्दो॒ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छंदः॑,
क्षु॒रो भृज्वा॒ञ्छंदः॑ प्र॒च्छच्छंदः॑ प॒क्षश्छंद॒ एव॒श्छन्दो॒
वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लं छन्दो॒
विष्प॑र्धा॒श्छंद॑श्छ॒दिश्छन्दो॑ दूरोह॒णं छंद॑स्त॒न्द्रं छन्दो᳚ऽङ्का॒ङ्कं
छंदः॑ ॥ ४। ३। १२॥ अ॒स्यं॒कु॒पं छंद॒स्त्रय॑स्त्रिꣳशच्च ॥TS 4.3.12॥
॥१॥