अध्ययनम्
- अनुक्रमणिका
- संहिता निर्देशाः
- मूलम्
तै॰सं॰ २.५.६
३३ ए॒ष वै दे॑वर॒थो यद्द॑र्शपूर्णमा॒सौ यो द॑र्शपूर्णमा॒सावि॒ष्ट्वा
सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑
स्यत्ये॒तानि॒ वा अङ्गा॒परूꣳ॑षि संवथ्स॒रस्य॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं
वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॒तेऽङ्गा॒परूग्॑ष्ये॒व सं॑वथ्स॒रस्य॒ प्रति॑
दधात्ये॒ते वै सं॑वथ्स॒रस्य॒ चक्षु॑षी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं
वि॒द्वान्द॑र्शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गं लो॒कमनु॑ पश्य
३४ त्ये॒षा वै दे॒वानां॒ विक्रा᳚न्ति॒र्यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान्
द॑र्शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मत ए॒ष वै
दे॑व॒यानः॒ पन्था॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ
यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्तꣳ स॒मारो॑हत्ये॒तौ वै दे॒वाना॒ꣳ॒
हरी॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते॒ यावे॒व
दे॒वाना॒ꣳ॒ हरी॒ ताभ्या॑
३५ मे॒वैभ्यो॑ ह॒व्यं व॑हत्ये॒तद्वै दे॒वाना॑मा॒स्यं॑ यद्द॑र्शपूर्णमा॒सौ य
ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते सा॒क्षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष
वै ह॑विर्धा॒नी यो द॑र्शपूर्णमास या॒जी सा॒यं प्रा॑तरग्निहो॒त्रं जु॑होति॒
यज॑ते दर्शपूर्ण मा॒सावह॑रहर् हविर्धा॒निनाꣳ॑ सु॒तो य ए॒वं वि॒द्वान्
द॑र्शपूर्णमा॒सौ यज॑ते हविर्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्हि॒ष्यं॑
द॒त्तंभ॑वति दे॒वा वा अह॑
३६ र्य॒ज्ञियं॒ नावि॑न्द॒न्ते द॑र्शपूर्णमा॒साव॑पुन॒न्तौ वा ए॒तौ पू॒तौ
मेध्यौ॒ यद्द॑र्शपूर्णमा॒सौ य ए॒वं वि॒द्वान् द॑र्शपूर्णमा॒सौ यज॑ते
पू॒तावे॒वैनौ॒ मेध्यौ॑ यजते॒ नामा॑वा॒स्या॑यां च पौर्णमा॒स्यां च॒
स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरिं॑द्रियः स्या॒थ्सोम॑स्य॒ वै राज्ञो᳚ऽर्धमा॒सस्य॒
रात्र॑यः॒ पत्न॑य आस॒न्तासा॑ममावा॒स्यां᳚ च पौर्णमा॒सीं च॒ नोपै॒त्
३७ ते ए॑नम॒भि सम॑नह्येतां॒ तं यक्ष्म॑ आर्च्छ॒द्राजा॑नं॒ यक्ष्म॑
आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑या॒नभ॑व॒त् तत्पा॑पय॒क्ष्मस्य॒
यज्जा॒याभ्या॒मवि॑न्द॒त् तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒
वेद॒ नैन॑मे॒ते यक्ष्मा॑ विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त्ते अ॑ब्रूतां॒
वरं॑ वृणावहा आ॒वं दे॒वानां᳚ भाग॒धे अ॑सावा॒
३८ ऽवदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मा᳚थ् स॒दृशी॑ना॒ꣳ॒
रात्री॑णाममावा॒स्या॑यां च पौर्णमा॒स्यां च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वानां᳚
भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वं वेद॑ भू॒तानि॒
क्षुध॑मघ्नन्थ्स॒द्यो म॑नु॒ष्या॑ अर्धमा॒से दे॒वा मा॒सि पि॒तरः॑ संवथ्स॒रे
वन॒स्पत॑य॒स्तस्मा॒दह॑रहर्मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्धमा॒से दे॒वा इ॑ज्यन्ते
मा॒सि पि॒तृभ्यः॑ क्रियते संवथ्स॒रे वन॒स्पत॑यः॒ फलं॑ गृह्णन्ति॒ य ए॒वं
वेद॒ हन्ति॒ क्षुधं॒ भ्रातृ॑व्यम् ॥ २। ५। ६॥ प॒श्य॒ति॒ ताभ्या॒मह॑रैदसाव॒
फलꣳ॑ स॒प्त च॑ ॥TS 2.5.6॥
॥१॥