skipLink.label

श्री रुद्र लघुन्यासः

अथाऽऽत्मानं शिवात्मानं श्री रुद्र रूपं ध्यायेत्॥

शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम्। गङ्गाधरं दशभुजं सर्वाभरणभूषितम्॥

नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम्। व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम्॥

कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम्। ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम्॥

वृषस्कन्धसमारूढम् उमादेहार्धधारिणम्। अमृते नाप्लुतं शान्तं दिव्यभोगसमन्वितम्॥

दिग्देवता समायुक्तं सुरासुरनमस्कृतम्। नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम्॥

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम्। एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत्॥

अथातो रुद्र स्नानार्चनाभिषेकविधिं व्या᳚ख्यास्या॒मः ।

प्र॒जन॑ने ब्र॒ह्मा ति॑ष्ठतु । पाद॑योर्वि॒ष्णुस्ति॑ष्ठतु । हस्त॑योर्ह॒रस्ति॑ष्ठतु । बा॑ह्वोरि॒न्द्रस्ति॑ष्ठतु । जठ॒रे अ॒ग्निस्ति॑ष्ठतु । हृद॑ये शि॒वस्ति॑ष्ठतु । कण्ठे वसव॑स्तिष्ठ॒न्तु । व॒क्त्रे स॒रस्वती॑ तिष्ठतु । नासि॑कयोर्वा॒युस्ति॑ष्ठतु । नय॑नयोश्च॒न्द्रादित्यौ॑ तिष्ठे॒ताम् । कर्ण॑योर॒श्विनौ॑ तिष्ठे॒ताम् । लला॑टे रु॒द्रास्ति॑ष्ठन्तु । मू॑र्ध्न्यादि॒त्यास्ति॑ष्ठन्तु । शि॑रसि म॒हादे॑वस्तिष्ठतु । शिखा॑यां वा॒मदेव॑स्तिष्ठतु । पृ॒ष्ठे पि॒नाकी॑ तिष्ठतु । पुर॑तः शू॒ली ति॑ष्ठतु । पार्श्व॑योः शि॒वाशङ्करौ॑ तिष्ठे॒ताम् । सर्व॑तो वा॒युस्ति॑ष्ठतु । ततो बहिः सर्वतोऽग्निर्ज्वालामालापरिवृत॑स्तिष्ठ॒तु । सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं॑ तिष्ठ॒न्तु । मां रक्षन्तु । सर्वान् महाजनान् सकुटुम्बं रक्षन्तु ॥

अ॒ग्निर्मे॑ वा॒चि श्रि॒तः। वाग्घृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (जिह्वा)

वा॒युर्मे᳚ प्रा॒णे श्रि॒तः। प्रा॒णो हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (नासिका)

सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः। चक्षु॒र्॒हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (नेत्रे)

च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः। मनो॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (वक्षः)

दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः। श्रोत्र॒ꣳ॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (श्रोत्रे)

आपो॑ मे॒ रेत॑सि श्रि॒ताः। रेतो॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (गुह्यम्)

पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता। शरी॑र॒ꣳ॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (शरीरम्)

ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः। लोमा॑नि॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (लोमानि)

इन्द्रो॑ मे॒ बले᳚ श्रि॒तः। बल॒ꣳ॒ हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (बाहू)

प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः। मू॒र्धा हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (शिरः)

ईशा॑नो मे म॒न्यौ श्रि॒तः। म॒न्युर्हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (हृदयम्)

आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः। आ॒त्मा हृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि। (हृदयम्)

पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त्। पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त्। वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः। अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः॥

अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य। अघोर ऋषिः। अनुष्टुप् छन्दः। सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता॥

नमः शिवायेति बीजम्। शिवतरायेति शक्तिः। महादेवायेति कीलकम्। श्री साम्बसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः॥

॥करन्यासः॥
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः। दर्शपूर्णमासात्मने तर्जनीभ्यां नमः। चातुर्मास्यात्मने मध्यमाभ्यां नमः। निरूढपशुबन्धात्मने अनामिकाभ्यां नमः। ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः। सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः।

॥अङ्गन्यासः॥
अग्निहोत्रात्मने हॄदयाय नमः। दर्शपूर्णमासात्मने शिरसे स्वाहा। चातुर्मास्यात्मने शिखायै वषट्। निरूढपशुबन्धात्मने कवचाय हुं। ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट्। सर्वक्रत्वात्मने अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः।

ध्यानम् आपाताल नभः स्थलान्त भुवन ब्रह्माण्डमाविस्फुरत् ज्योतिः स्फाटिक लिङ्ग मौलि विलसत्पूर्णेन्दु वान्तामृतैः अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन् ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ब्रह्माण्ड व्याप्त देहा भसित हिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दा कलित शशिकलाश्चण्ड कोदण्ड हस्ताः त्र्यक्षा रुद्राक्षमालाः प्रकटित विभवाः शाम्भवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्त प्रकटित विभवा नः प्रयच्छन्तु सौख्यम्

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒-मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥
ॐ श्री महागणपतये॒ नमः॥

शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे॥३॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑