अध्ययनम्
- अनुक्रमणिका
- उपनयने मौञ्जीजन्मन्त्राः
- मूलम्
- याजुषमन्त्ररत्नाकरम् (मुद्रितग्रन्थः) पृष्ठम् ६१९ — मुद्रितग्रन्थस्य PDF-पाठात् स्वरसहितं यथावत् उद्धृतम्। कोष्ठकेषु सङ्ख्याः ग्रन्थस्य पृष्ठनिर्देशाः।
उपनयने मौञ्जीजन्मन्त्राः
इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा᳚त्। प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वाना॑ꣳ सु॒भगा॒ मेख॑ले॒यम्। ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्षः॒ सह॑माना॒ अरा॑तीः। सा नः॑ सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम।
॥१॥मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थ॒विर॒ꣳ समि॑द्धम्। अ॒ना॒ह॒न॒स्यं वस॑नं जरि॒ष्णु परी॒दं वा॒ज्यजिनं॑ दधे॒ऽहम्॥२॥
॥२॥