- १ॐ कुबेराय नमः
- २ॐ धनदाय नमः
- ३ॐ श्रीमते नमः
- ४ॐ यक्षेशाय नमः
- ५ॐ गुह्यकेश्वराय नमः
- ६ॐ निधीशाय नमः
- ७ॐ शङ्करसखाय नमः
- ८ॐ महालक्ष्मीनिवासभुवे नमः
- ९ॐ महापद्मनिधीशाय नमः
- १०ॐ पूर्णाय नमः
- ११ॐ पद्मनिधीश्वराय नमः
- १२ॐ शङ्खाख्यनिधिनाथाय नमः
- १३ॐ मकराख्यनिधिप्रियाय नमः
- १४ॐ सुकच्छपाख्यनिधीशाय नमः
- १५ॐ मुकुन्दनिधिनायकाय नमः
- १६ॐ कुन्दाख्यनिधिनाथाय नमः
- १७ॐ नीलनित्याधिपाय नमः
- १८ॐ महते नमः
- १९ॐ वरनिधिदीपाय नमः
- २०ॐ पूज्याय नमः
- २१ॐ लक्ष्मीसाम्राज्यदायकाय नमः
- २२ॐ इलपिलापत्याय नमः
- २३ॐ कोशाधीशाय नमः
- २४ॐ कुलोचिताय नमः
- २५ॐ अश्वारूढाय नमः
- २६ॐ विश्ववन्द्याय नमः
- २७ॐ विशेषज्ञाय नमः
- २८ॐ विशारदाय नमः
- २९ॐ नलकूबरनाथाय नमः
- ३०ॐ मणिग्रीवपित्रे नमः
- ३१ॐ गूढमन्त्राय नमः
- ३२ॐ वैश्रवणाय नमः
- ३३ॐ चित्रलेखामनःप्रियाय नमः
- ३४ॐ एकपिनाकाय नमः
- ३५ॐ अलकाधीशाय नमः
- ३६ॐ पौलस्त्याय नमः
- ३७ॐ नरवाहनाय नमः
- ३८ॐ कैलासशैलनिलयाय नमः
- ३९ॐ राज्यदाय नमः
- ४०ॐ रावणाग्रजाय नमः
- ४१ॐ चित्रचैत्ररथाय नमः
- ४२ॐ उद्यानविहाराय नमः
- ४३ॐ विहारसुकुतूहलाय नमः
- ४४ॐ महोत्सहाय नमः
- ४५ॐ महाप्राज्ञाय नमः
- ४६ॐ सदापुष्पकवाहनाय नमः
- ४७ॐ सार्वभौमाय नमः
- ४८ॐ अङ्गनाथाय नमः
- ४९ॐ सोमाय नमः
- ५०ॐ सौम्यादिकेश्वराय नमः
- ५१ॐ पुण्यात्मने नमः
- ५२ॐ पुरुहूतश्रियै नमः
- ५३ॐ सर्वपुण्यजनेश्वराय नमः
- ५४ॐ नित्यकीर्तये नमः
- ५५ॐ निधिवेत्रे नमः
- ५६ॐ लङ्काप्राक्तननायकाय नमः
- ५७ॐ यक्षिणीवृताय नमः
- ५८ॐ यक्षाय नमः
- ५९ॐ परमशान्तात्मने नमः
- ६०ॐ यक्षराजे नमः
- ६१ॐ यक्षिणीहृदयाय नमः
- ६२ॐ किन्नरेश्वराय नमः
- ६३ॐ किम्पुरुषनाथाय नमः
- ६४ॐ खड्गायुधाय नमः
- ६५ॐ वशिने नमः
- ६६ॐ ईशानदक्षपार्श्वस्थाय नमः
- ६७ॐ वायुवामसमाश्रयाय नमः
- ६८ॐ धर्ममार्गनिरताय नमः
- ६९ॐ धर्मसम्मुखसंस्थिताय नमः
- ७०ॐ नित्येश्वराय नमः
- ७१ॐ धनाध्यक्षाय नमः
- ७२ॐ अष्टलक्ष्म्याश्रितालयाय नमः
- ७३ॐ मनुष्यधर्मिणे नमः
- ७४ॐ सुकृतिने नमः
- ७५ॐ कोषलक्ष्मीसमाश्रिताय नमः
- ७६ॐ धनलक्ष्मीनित्यवासाय नमः
- ७७ॐ धान्यलक्ष्मीनिवासभुवे नमः
- ७८ॐ अष्टलक्ष्मीसदावासाय नमः
- ७९ॐ गजलक्ष्मीस्थिरालयाय नमः
- ८०ॐ राज्यलक्ष्मीजन्मगेहाय नमः
- ८१ॐ धैर्यलक्ष्मीकृपाश्रयाय नमः
- ८२ॐ अखण्डैश्वर्यसंयुक्ताय नमः
- ८३ॐ नित्यानन्दाय नमः
- ८४ॐ सुखाश्रयाय नमः
- ८५ॐ नित्यतृप्ताय नमः
- ८६ॐ निराशाय नमः
- ८७ॐ निरुपद्रवाय नमः
- ८८ॐ नित्यकामाय नमः
- ८९ॐ निराकाङ्क्षाय नमः
- ९०ॐ निरूपाधिकवासभुवे नमः
- ९१ॐ शान्ताय नमः
- ९२ॐ सर्वगुणोपेताय नमः
- ९३ॐ सर्वज्ञाय नमः
- ९४ॐ सर्वसम्मताय नमः
- ९५ॐ शर्वाणीकरुणापात्राय नमः
- ९६ॐ सदानन्दकृपालयाय नमः
- ९७ॐ गन्धर्वकुलसंसेव्याय नमः
- ९८ॐ सौगन्धिकुसुमप्रियाय नमः
- ९९ॐ सुवर्णनगरीवासाय नमः
- १००ॐ %Changing for Chandas! निधिपीठसमाश्रयाय नमः
- १०१ॐ महामेरूत्तरस्थाय नमः
- १०२ॐ महर्षिगणसंस्तुताय नमः
- १०३ॐ तुष्टाय नमः
- १०४ॐ शूर्पणखाज्येष्ठाय नमः
- १०५ॐ शिवपूजारताय नमः
- १०६ॐ अनघाय नमः
- १०७ॐ राजयोगसमायुक्ताय नमः
- १०८ॐ राजशेखरपूज्याय नमः
- १०९ॐ राजराजाय नमः
इति श्री-कुबेराष्टोत्तरशतनामावलिः सम्पूर्णा